पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९०
[अ०१ क्ष्लो०४-५]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 देशतः कालतश्चानवच्छिन्नत्वान्महत् , बृंहणत्वात्स्वकार्याणां वृद्धिहेतुत्वाद्ब्रह्म प्रकृति- रित्यर्थः । तन्महद्ब्रह्म मम परमेश्वरस्य योनिर्गर्भाधानस्थानम् । तस्मिन्नहं गर्भ जगद्वि- स्तारहेतुं चिदाभासं दधामि निक्षिपामि । प्रलये मयि लीनं सन्तमविद्याकामकर्मानुशय. वन्तं क्षेत्रज्ञं सृष्टिसमये भोगयोग्येन क्षेत्रेण संयोजयामीत्यर्थः । ततो गर्भाधानात्सर्वभू. तानां ब्रह्मादीनां संभव उत्पत्तिर्भवति ॥ ३ ॥

 म०टी०-ननु कथं सर्वभूतानां ततः संभवो देवादिदेहविशेषाणां कारणान्तरसंभवादित्याशङ्कयाऽऽह--

सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः ॥
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥४॥

 देवपितृमनुष्यपशुमृगादिसर्वयोनिषु या मूर्तयो जरायुजाण्ड[१] नोद्भिज्जादिभेदेन विलक्षणविविधसंस्थानास्तनवः संभवन्ति हे कौन्तेय तासां मूर्तीनां तत्तत्कारणभावापन्नं महद्ब्रह्मैव योनिर्मातृस्थानीया, अहं परमेश्वरो बीजप्रदो गर्भाधानस्य कर्ता पिता । तेन महतो ब्रह्मण एवावस्थाविशेषाः कारणान्तराणीति युक्तमुक्तं संभवः सर्वभूतानां ततो भवतीति ॥ ४ ॥

 श्री०टी०-न केवलं सृष्टयुपक्रम एव मदधिष्ठिताभ्यां प्रकृतिपुरुषाभ्यामयं भूतोत्पत्तिप्रकारः । अपि तु सर्वदैवेत्याह-सर्वयोनिष्विति । सर्वासु योनिषु मनुष्यादियोनिषु या मूर्तयः स्थावरजङ्गमात्मिका उत्पद्यन्ते तासां मूर्तीनां महद्ब्रह्म प्रकृतिर्योनिर्मातृस्थानीया । अहं च बीजप्रदो गर्भाधानादिकर्ता पिता ॥ ४ ॥

 म०. टी०-तदेवं निरीश्वरसांख्यनिराकरणेन क्षेत्रक्षेत्रज्ञसंयोगस्येश्वराधीनत्वमुक्तम् । इदानीं कस्मिन्गुणे कथं सङ्गः के वा गुणाः कथं वा ते बघ्नन्तीत्युच्यते सत्त्वमित्यादिनान्यमित्यतःप्राक्चतुर्दशभिः-

सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ॥
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ ५॥

 सत्त्वं रजस्तम इत्येवनामानो गुणा नित्यपरतन्त्राः पुरुष प्रति सर्वेषामचेतनानां चेतनार्थत्वात् , न तु वैशेषिकाणां रूपादिवव्याश्रिताः । न च गुणगुणिनोरन्यत्वमत्र विवक्षितं गुणत्रयात्मकत्वात्प्रकृतेः । तहिं कथं प्रकृतिसंभवा इति, उच्यते-त्रयाणां गुणानां साम्यावस्था प्रकृतिर्माया भगव [२] तस्तस्याः सकाशात्परस्पराङ्गाङ्गिभावेन वैषम्येण परिणताः प्रकृतिसंभवा इत्युच्यन्ते । ते च देहे प्रकृतिकार्ये शरीरेन्द्रियसंघाते देहिनं देह-


  1. क. "ण्डजस्वेदजो ।
  2. ग. इ. अ. "वतः स ।