पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१३क्ष्लो०४]
३६५
श्रीमद्भगवद्गीता।

 तदिदं शरीरमिति प्रागुक्तं जडवर्गरूपं क्षेत्रं यच्च स्वरूपेण जडदृश्यपरिच्छिन्नादिस्वभावं यादृक्वेच्छादिधर्मकं यद्विकारि यैरिन्द्रियादिविकारैर्युक्तम् । यतश्च कारणाद्यत्कार्यमुत्पद्यत इति शेषः । अथ वा यतः प्रकृतिपुरुषसंयोगाद्भवति । यदिति यैः स्थावरजङ्गमादिभेदैर्भिन्निमित्यर्थः । अत्रानियमेन चकारप्रयोगात्सर्वसमुच्चयो द्रष्टव्यः । स च क्षेत्रज्ञो यः स्वरूपतः स्वप्रकाशचैतन्यानन्दस्वभावः । यत्प्रभावश्च ये प्रभावा उपाधिकृताः शक्तयो यस्य तत्क्षेत्रक्षेत्रज्ञयाथात्म्यं सर्वविशेषणविशिष्टं समासेन संक्षेषेण मे मम वचनाच्छृणु श्रुत्वाऽवधारयेत्यर्थः ॥ ३ ॥

 श्री० टी०-अत्र यद्यपि चतुर्विंशतिभेदैर्भिन्ना प्रकृतिः क्षेत्रमित्यभिप्रेतं तथाऽपि देहरूपेण परिणतायामेव तस्यामहंभावनाविवेकः स्फुट इति तद्विवेकार्थमिदं शरीरं क्षेत्रमित्याद्युक्तम् । तदेतत्प्रपञ्चयिष्यन्प्रतिजानीते-तत्क्षेत्रमिति । यदुक्तं मया क्षेत्रं तच्च क्षेत्रं यत्स्वरूपतो जडं दृश्यादिस्वभावं, यादृग्यादृशं चेच्छादिधर्मकं, यद्विकारि यैरिन्द्रियादिविकारैर्युक्तं, यतश्च प्रकृतिपुरुषसंयोगाद्भवति, यदिति यैः स्थावरजङ्गमादिभेदैर्भिन्नमित्यर्थः । स च क्षेत्रज्ञो यः स्वरूपतो यत्प्रभावश्चाचिन्त्यैश्वर्ययोगेन यैः प्रभावैः संपन्नस्तत्सर्वं संक्षेपतो मत्तः शृणु ॥ ३ ॥

 म०टी०-कैर्विस्तरेणोक्तस्यायं संक्षेप इत्यपेक्षायां श्रोतृबुद्धिप्ररोचनार्थ स्तुवन्नाह----

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ॥
ब्रह्मसूत्रपदेश्चैव हेतुमद्भिर्विनिश्चितैः ॥ ४ ॥

 ऋषिभिर्वसिष्ठादिभियोगशास्त्रेषु धारणाध्यानविषयत्वेन बहुधा गीतं निरूपितम् । एतेन योगशास्त्रप्रतिपाद्यत्वमुक्तम् । विविधैर्नित्यनैमित्तिककाम्यकर्मादिविषयैश्छन्दोभिर्ऋगादिमन्त्रैर्ब्राह्मणैश्च पृथग्विवेकतो गीतम् । एतेन कर्मकाण्डप्रतिपाद्यत्वमुक्तम् । ब्रह्मसूत्रपदैश्चैव ब्रह्म सूत्र्यते सूच्यते किंचिव्द्यवधानेन प्रतिपाद्यत एभिरिति ब्रह्मसूत्राणि "यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति।" इत्यादीनि तटस्थलक्षणपराण्युपनिषद्वाक्यानि तथा पद्यते ब्रह्म साक्षात्प्रतिपाद्यत एभिरिति पदानि स्वरूपलक्षणपराणि “ सत्यं ज्ञानमनन्तं ब्रह्म" इत्यादीनि तैर्ब्रह्मसत्रैः पदैश्च हेतुमद्भिः “ सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् " इत्युपक्रम्य " तद्भैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायेत." इति नास्तिकमतमुपन्यस्य " कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः सज्जायेत " इत्यादियुक्तीः प्रतिपादयद्भिर्विनिश्चितैरुपक्रमोपसंहारैकवाक्यतया संदेहशून्यार्थप्रतिपादकैर्बहुधा गीतं च । एतेन ज्ञानकाण्डप्रतिपाद्यत्वमुक्तम् । एवमेतैरतिविस्तरेणोक्तं क्षेत्रक्षेत्रज्ञयाथात्म्यं संक्षेपेण तुभ्यं कथयिष्यामि तच्छृण्वित्यर्थः । अथ वा ब्रह्मसूत्राणि तानि पदानि चेति