पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८६
[अ०१३क्ष्लो०३२-३३]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


मकर्तृत्वादित्यर्थः । इच्छा द्वेषः सुखं दुःखमित्यादीनां क्षेत्रधर्मत्वकथनात् , प्रकृत्यैव च कर्माणि क्रियमाणानीति मायाकार्यत्वव्यपदेशाच्च । अत एव परमार्थदर्शिनां सर्वकर्माधिकारनिवृत्तिरिति प्राग्व्याख्यातम् । एतेनाऽऽत्मनो निर्धर्मकत्वकथनात्स्वगतभेदोऽपि निरस्तः । प्रकृत्यैव च कर्माणीत्यत्र सजातीयभेदो निवारितः, यदा भूतपृथग्भावमित्यत्र विजातीयभेदः, अनादित्वान्निर्गुणत्वादित्यत्र स्वगतो भेद इत्यद्वितीयं ब्रह्मैवाऽऽत्मेति सिद्धम् ॥ ३१॥

 श्री०टी०-तथाऽपि परमेश्वरस्य संसारावस्थायां देहसंबन्धनिमित्तैः कर्मभिस्तत्फलैश्च सुखदुःखादिभिर्वैषम्यं दुष्परिहरमिति कुतः समदर्शनं तत्राऽऽह-अनादित्वादिति । यदुत्पत्तिमत्तदेव हि व्येति विनाशमेति । यच्च गुणवद्वस्तु तस्य गुणनाशे व्ययो भवति । अयं तु परमात्माऽनादिर्निर्गुणश्चातोऽव्ययोऽविकारीत्यर्थः । तस्माच्छरीरे स्थितोऽपि किंचिन्न करोति न च कर्मफलैर्लिप्यते ॥ ३१ ॥

 म०टी०-शरीरस्थोऽपि तत्कर्मणा न लिप्यते स्वयमसङ्गत्वादित्यत्र दृष्टा- न्तमाह-

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ॥
सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते ॥३२॥

 सौक्ष्म्यादसङ्गस्वभावत्वादाकाशं सर्वगतमपि नोपलिप्यते पङ्कादिभिर्यथेति दृष्टा- न्तार्थः । स्पष्टमितरत् ॥ ३२ ॥

 श्री०टी०-तत्र दृष्टान्तमाह-यथेति । यथा सर्वत्र पङ्कादिष्वपि स्थितमाकाशं सौक्ष्म्यादसङ्गत्वात्पङ्कादिभिर्नोपलिप्यते तथा सर्वत्रोत्तमे मध्यमेऽधमे वा देहेऽवस्थितोऽप्यात्मा नोपलिप्यते दैहिकैर्गुणदोषैर्न युज्यत इत्यर्थः ॥ ३२ ॥

 म०टी०-न केवलमसङ्गस्वभावत्वादात्मा नोपलिप्यते प्रकाशकत्वादपि प्रकाश्यधर्मैर्न लिप्यत इति सदृष्टान्तमाह-

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ॥
क्षेत्रं [१] क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ ३३ ॥

 यथा रविरेक एव कृत्स्नं सर्वमिमं लोकं देहेन्द्रियसंघातं रूपवद्वस्तुमात्रमिति यावत् । प्रकाशयति न च प्रकाश्यधर्मैर्लिप्यते न वा प्रकाश्यभेदाद्भिद्यते, तथा क्षेत्री क्षेत्रज्ञ एक एव कृत्स्नं क्षेत्र प्रकाशयति हे भारत । अत एव न प्रकाश्यधर्मैर्लिप्यते न वा प्रकाश्यभेदाद्भिद्यत इत्यर्थः ।


  1. घ. ङ, छ. क्षेत्री क्षेत्रं त ।