पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०६
[अ०१५क्ष्लो०२]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


अधश्वोर्ध्वं प्रसृतास्तस्य शाखा
 गुणप्रवृद्धा विषयप्रवालाः॥
अधश्च मूलान्यनुसंततानि
 कर्मानुबन्धीनि मनुष्यलोके ॥२॥

 पूर्व हिरण्यगर्भादयः कार्योपाधयो जीवाः शाखास्थानीयत्वेनोक्ता इदानीं तु तद्गतो विशेष उच्यते । तेषु ये कपूयचरणा दुष्कृतिनस्तेऽधः पश्वादियोनिषु प्रसृता विस्तारं गताः । ये तु रमणीयचरणाः सुकृतिनस्त ऊर्ध्व देवादियोनिषु प्रसृता अतोऽधश्च मनुष्यत्वादारभ्य विरिञ्चिपर्यन्तमूर्ध्वं च तस्मादेवाऽऽरम्य सत्यलोकपर्यन्तं प्रसृतास्तस्य संसारवृक्षस्य शाखाः । कीदृश्यस्ता गुणैः सत्त्वरजस्तमोभिर्देहेन्द्रियविषयाकारपरिणतैर्जलसेचनैरिव प्रवृद्धाः स्थूलीभूताः । किं च विषयाः शब्दादयः प्रवालाः पल्लवा इव यासां संसारवृक्षशाखानां तास्तथा शाखाग्रस्थानीयाभिरिन्द्रियवृत्तिभिः संबन्धाद्रागाधिष्ठानत्वाच्च । किं च-अधश्च चशब्दादूर्ध्वं च मूलान्यवान्तराणि तत्तद्भोगजनितरागद्वेषादिवासनालक्षणानि मूलानीव धर्माधर्मप्रवृत्तिकारकाणि तस्य संसारवृक्षस्यानुसंततानि अनुस्यूतानि । मुख्यं तु मूलं ब्रह्मैवेति न दोषः । कीदृशान्यवान्तरमूलानि कर्म धर्माधर्मलक्षणमनुबन्धुं पश्चाज्जनयितुं शीलं येषां तानि कर्मानुबन्धीनि । कुत्र मनुष्यलोके मनुष्यश्चासौ लोकश्चेत्यधिकृतो ब्राह्मण्यादिविशिष्टो देहो मनुष्यलोकस्तस्मिन्बाहुल्येन कर्मानुबन्धीनि । मनुष्याणां हि कर्माधिकारः प्रसिद्धः ॥२॥

 श्री०टी०-किं च-अधश्चेति । हिरण्यगर्भादयः कार्योपाधयो जीवाः शाखा- स्थानीयत्वेनोक्तास्तेषु च ये दुष्कृतिनस्तेऽधः पश्वादियोनिषु प्रसूता विस्तारं गताः । सुकृतिनश्चोर्ध्वं देवादियोनिषु प्रसृतास्तस्य संसारवृक्षस्य शाखाः । किं च गुणैः सत्त्वादिवृत्तिभिर्जलसेचनैरिव यथायथं प्रवृद्धा वृद्धिं प्राप्ताः । किं च विषया रूपादयः प्रवालाः पल्लवस्थानीया यासां ताः शाखास्थानीयाभिरिन्द्रियवृत्तिभिः संयुक्तत्वात् । किं च-अधश्च चशब्दादूर्ध्वं च मूलानि अनुसंततानि विरूढानि मुख्यं मूलमीश्वर एक एव । इमानि त्ववान्तरमूलानि तत्तद्भोगवासनालक्षणानि । तेषां कार्यमाह-मनुष्यलोके कर्मानुवन्धीनि कर्मानुबन्धोऽनन्तरभावी येषां तानि । ऊर्ध्वाधोलोकेषु यदुपभुक्तं तत्तद्भोगवासनाभिर्हि कर्मक्षये मनुष्यलोकं प्राप्तानां तत्तदनुरूपेषु कर्मसु प्रवृत्तिर्भवति । अस्मिन्नेव हि कर्माधिकारो नान्येषु लोकेषु । ततो मनुष्यलोक इत्युक्तम् ॥ २ ॥

 म० टी०-यस्त्वयं संसारवृक्षो वर्णितः-

न रूपमस्येह तथोपलभ्यते
 नान्तो न चाऽऽदिर्न च संप्रतिष्ठा ॥