पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[भ०१३क्ष्लो०२८] श्री
३८३
मद्भगवद्गीता।


अत्राऽऽत्मानमितिविशेष्यलाभो विशेषणमर्यादया। परमेश्वरमित्येव वा विशेष्यपदम् । विषमत्वचञ्चलत्वबाध्यबाधकरूपत्वलक्षणं जडगतं वैधर्म्यं समत्वतिष्ठत्त्वपरमेश्वरत्वरूपात्मविशेषणवशादर्थात्प्राप्तमन्यत्कण्ठोक्तमिति विवेकः ॥ २७ ॥

 श्री० टी०-अविवेककृतं संसारोद्भवमुक्त्वा तन्निवृत्तये विविक्तात्मविषयं सम्यग्दर्शनमाह-सममिति । स्थावरजङ्गमात्मकेषु भूतेषु निर्विशेषं सद्रूपेण समं यथा भवत्येवं तिष्ठन्तं परमात्मानं यः पश्यति अत एव तेषु विनश्यत्स्वपि अविनश्यन्तं यः पश्यति स एव सम्यक्पश्यति नान्यः ॥ २७ ॥

 म० टी०-तदेतदात्मदर्शनं फलेन स्तौति रुच्युत्पत्तये-

समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ॥
न हिनस्त्यात्मनाऽऽत्मानं ततो याति परां गतिम्॥२८

 समवस्थितं जन्मादिविनाशान्तभावविकारशून्यतया सम्यक्तयाऽवस्थितमित्यविनाशित्वलाभः । अन्यत्प्राग्व्याख्यातम् । एवं पूर्वोक्तविशेषणमात्मानं पश्यन्नयमहमस्मीति शास्त्रदृष्ट्या साक्षात्कुर्वन्न हिनस्त्यात्मनाऽऽत्मानम् । सर्वो ह्यज्ञः परमार्थसन्तमेकमकर्त्रभोक्तृपरमानन्दरूपमात्मानमविद्यया सति भात्यपि वस्तुनि नास्ति न भातीतिप्रतीति- जननसमर्थया स्वयमेव तिरस्कुर्वन्नसन्तमिव करोतीति हिनस्त्येव तम् । तथाऽविद्ययाऽऽत्मत्वेन परिगृहीतं देहेन्द्रियसंघातमात्मानं पुरातनं [१]हत्वा नवमादत्ते कर्मवशादिति हिनस्त्येव तम् । अत उभयथाऽप्यात्महैव सर्वोऽप्यज्ञः, यमधिकृत्येयं शकुन्तलावचनरूपा स्मृतिः-

"किं तेन न कृतं पापं चोरेणाऽऽत्मापहारिणा ।
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते " इति ॥

श्रुतिश्च-
 असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः ।
 तांस्ते प्रेत्याभिगच्छन्ति ये के चाऽऽत्महनो जनाः" इति ॥

 असुर्या असुरस्य स्वभूता आसुर्या संपदा भोग्या इत्यर्थः । आत्महन इत्यनात्मन्यात्माभिमानिन इत्यर्थः । अतो य आत्मज्ञः सोऽनात्मन्यात्माभिमानं शुद्धात्मदर्शनेन बाधते । अतः स्वरूपलाभान्न हिनस्त्यात्मनाऽऽत्मानं ततो. याति परां गतिम् । तत आत्महननाभावादविद्यातत्कार्यनिवृत्तिलक्षणां मुक्तिमधिगच्छतीत्यर्थः ॥ २८ ॥

 श्री० टी०---कुत इत्यत आह-सममिति । सर्वत्र भूतमात्रे समं सम्यगप्रच्यु-


  1. क. घ. हित्वा ।