पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१३क्ष्लो०३१]
३८५
श्रीमद्भगवद्गीता।


परस्परभिन्नत्वमेकस्थमेकस्मिन्नेवाऽऽत्मनि सद्रूपे स्थितं कल्पितं कल्पितस्याधिष्ठानादनतिरेकात्सद्रूपात्मस्वरूपादनतिरिक्तमनुपश्यति शास्त्राचार्योपदेशमनु स्वयमालोचयति आत्मैवेदं सर्वमिति । एवमपि मायावशात्तत एकस्मादात्मन एव विस्तारं भूतानां पृथग्भावं च स्वप्नमायावदनुपश्यति, ब्रह्म संपद्यते तदा सजातीयविजातीयभेददर्शनामायाद्ब्रद्मेव सर्वानर्थशून्यं भवति तस्मिन्काले ।

" यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः " इति श्रुतेः ॥

 प्रकृत्यैव चेत्यत्राऽऽत्मभेदो निराकृतः, यदा भूतपृथग्भावमित्यत्र त्वनात्ममे- दोऽपीति विशेषः ॥ ३० ॥

 श्री० टी०-इदानीं तु भूतानां प्रकृतितावन्मात्रत्वेनाभेदाद्भूतमेदकृतमप्यात्मनो भेदमपश्यन्ब्रह्मत्वमुपैतीत्याह-यदेति । यदा भूतानां स्थावरजङ्गमानां पृथग्भावं मेदं पृथक्त्वमेकस्थमेकस्यामेवेश्वरशक्तिरूपायां प्रकृतौ स्थितं प्रलयेऽनुपश्यति आलोचयति । तत एव च तस्या एवं प्रकृतेः सकाशाद्भूतानां विस्तारं सृष्टिसमयेऽनुपश्यति तदा प्रकृतितावन्मात्रत्वेन भूतानामप्यमेदं पश्यन्परिपूर्णं ब्रह्म संपद्यते ब्रह्मैव भवतीत्यर्थः ॥३०॥

 म०टी०-आत्मनः स्वतोऽकर्तृत्वेऽपि शरीरसंबन्धोपाधिकं कर्तृत्वं स्यादित्याशङ्कामपनुदन्यः पश्यति तथाऽऽत्मानमकर्तारं स पश्यतीत्येतद्विवृणोति-

अनादित्वान्निर्गुणत्वात्परमात्माऽयमव्ययः ॥
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥३१॥

 'अयमपरोक्षः परमात्मा परमेश्वराभिन्नः प्रत्यगात्माऽव्ययो न व्येतीत्यव्ययः सर्वविकारशून्य इत्यर्थः । तत्र व्ययो द्वेधा धर्मिस्वरूपस्यैवोत्पत्तिमत्तया वा धर्मिस्वरूपस्यानुत्पद्येत्वेऽपि धर्माणामेवोत्पत्त्यादिमत्तया वा । तत्राऽऽद्यमपाकरोति-अनादित्वादिति । आदिः प्रागसत्वावस्था । सा च नास्ति सर्वदा सत आत्मनः । अतस्तस्य कारणाभावज्जन्माभावः । नह्यनादेर्जन्म संभवति । तदभावे च तदुत्तरभाविनो भावविकारा न संभवन्त्येव । अतो न स्वरूपेण व्यतीत्यर्थः । द्वितीयं निराकरोति- निर्गुणत्वादिति । निर्धर्मकत्वादित्यर्थः । न हि धर्मिणमविकृत्य कश्चिद्धर्म उपैत्यपैति वा धर्मधर्मिणोस्तादात्म्यादयं तु निर्धर्मकोऽतो न धर्मद्वाराऽपि व्यतीत्यर्थः । " अविनाशी वा अरेऽयमात्माऽनुच्छित्तिधर्मा" इति श्रुतेः । यस्मादेष जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते विनश्यतीत्येवंषड्भावविकारशून्य आध्यासिकेन संबन्धेन शरीरस्थोऽपि तस्मिन्कुर्वत्ययमात्मा न करोति, यथाऽऽध्यासिकेर्ने संबन्धेन जलस्थः सविता तस्मिंश्चलत्यपि न चलत्येव तद्वत् । यतो न करोति किंचिदपि कर्म, केनापि कर्मफलेन न लिप्यते । यो हि यत्कर्म करोति स तत्फलेन लिप्यते न त्वय-