पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६०
[अ०१२ क्ष्लो ० १७-१८]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


नोत्पन्ना व्यथा पीडा यस्य सः । उत्पन्नायामपि व्यथायामपकर्तृष्वनपकर्तृत्वं क्षमित्वं, व्यथाकारणेषु सत्स्वप्यनुत्पन्नव्यथत्वं गतव्यथत्वमिति भेदः । ऐहिकामुष्मिकफलानि सर्वाणि कर्माणि सर्वारम्भास्तान्परित्यक्तुं शीलं यस्य स सर्वारम्भपरित्यागी संन्यासी यो मद्भक्तः स मे प्रियः ॥ १६ ॥

 श्री०टी०-किंच-अनपेक्ष इति । अनपेक्षो यदृच्छोपस्थितेऽप्यर्थे निःस्पृहः । शुचिर्बाह्याभ्यन्तरशौचसंपन्नः । दक्षोऽनलसः । उदासीनः पक्षपातरहितः । गतव्यथ आधिशून्यः । सर्वान्दृष्टादृष्टार्थानारम्भानुद्यमान्परित्यक्तुं शीलं यस्य सः । एवंभूतः सन्यो मद्भक्तः स मे प्रियः ॥ १६ ॥

 म०टी०-किं च--

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ॥
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥१७॥

 समदुःखसुख इत्येतद्विवृणोति यो न ह्रष्यतीष्टप्राप्तौ, न द्वेष्टि अनिष्ट प्राप्तौ, न शोचति प्राप्तेष्टवियोगे, न काङ्क्षति अप्राप्तेष्टसंयोगे । सर्वारम्भपरित्यागीत्येतद्विवृणो. ति-शुभाशुमे सुखसाधनदुःखसाधने कर्मणी परित्यक्तुं शीलमस्येति शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ १७ ॥

श्री०टी०-किं च-यो नेति । प्रियं प्राप्य यो न हृष्यति, अप्रियं प्राप्य यो न द्वेष्टि, इष्टार्थनाशे सति यो न शोचति, अप्राप्तमर्थ यो न काङ्क्षति । शुभाशुभे पुण्यपापे परित्यक्तुं शीलं यस्य सः । एवंभूतो भूत्वा यो मद्भक्तिमान्स मे प्रियः ॥ १७ ॥

 म०टी०-किं च--

समः शत्रौ च मित्रे च तथा मानापमानयोः ॥
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १८॥

 पूर्वस्यैव प्रपञ्चः। सङ्गविवर्जितश्चेतनाचेतनसर्वविषयशोभनाध्यासरहितः । स[१]र्वदा हर्षविषादशून्य इत्यर्थः । स्पष्टमन्यत् ॥ १८ ॥

 श्री०टी०-किं च-सम इति । शत्रौ च मित्रे च सम एकरूपः । मानापमानयोरपि तथा सम एव हर्षविषादशून्य इत्यर्थः । शीतोष्णयोः सुखदुःखयोश्च समः । सङ्गविवर्जितः क्वचिदप्यनासक्तः ॥ १८ ॥

 म०टी०-किच-


  1. ख. ग. घ. ङ. च. छ. ज. ज. सर्वथा ।