प्रतिमा धनीभूतं ब्रह्मैवाहम् । यथा घनीभूतः प्रकाश एव सूर्यमण्डलं तद्वदेवेत्यर्थः ।
तथाऽव्ययस्य नित्यस्यामृतस्य मोक्षस्य च नित्यमुक्तत्वात् । तथा तत्साधनस्य शाश्वतस्य च धर्मस्य शुद्धसत्त्वात्मकत्वात् । तथैकान्तिकस्याखण्डितस्य सुखस्य च प्रतिष्ठाऽहं
परमानन्दैकरूपत्वात् । अतो मत्सेविनो मद्भावस्यावश्यंभावित्वाघुक्तमेवोक्तं ब्रह्मभूयाय
कल्पत इति ॥ २७ ॥
कृष्णाधीनगुणासङ्गप्रसञ्जितभवाम्बुधिम् । |
इति श्रीसुबोधिन्यां टीकायां श्रीधरस्वामिविरचितायां गुणत्रयवि-
भागयोगो नाम चतुर्दशोऽध्यायः ॥ १४ ॥
अथ पञ्चदशोऽध्यायः।
म० टी०-पूर्वाध्याये भगवता संसारबन्धहेतून्गुणान्व्याख्याय तेषामत्ययेन ब्रह्मभावो मोक्षो मद्भजनेन लभ्यत इत्युक्तम्-
"मां च योऽव्यभिचारेण भक्तियोगेन सेवते । |
तत्र मनुष्यस्य तव भक्तियोगेन कथं ब्रह्मभाव इत्याशङ्कायां स्वस्य ब्रह्मरूपताज्ञा- पनाय सूत्रभूतोऽयं श्लोको भगवतोक्तः-
" ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च । |
अस्य सूत्रस्य वृत्तिस्थानीयोऽयं पञ्चदशोऽध्याय आरभ्यते, भगवतः श्रीकृष्णस्य हि तत्त्वं ज्ञात्वा तत्प्रेमभजनेन गुणातीतः सन्ब्रह्मभावं कथमाप्नुयाल्लोक इति । तत्र ब्रह्मणो हि प्रतिष्ठाऽहमित्यादि[१] भगवद्वचनमाकर्ण्य मम तुल्यो मनुष्योऽयं कथमेवं वदतीति विस्मया[२]विष्टमप्र [३]तिभया लज्जया च किंचिदपि प्रष्टुमशक्नुवन्तमर्जुनमालक्ष्य कृपया स्वस्वरूपं विवक्षुः-
श्रीभगवानुवाच-
तत्र विरक्तस्यैव संसाराद्भगवत्तत्त्वज्ञानेऽधिकारो नान्यथेति पूर्वाध्यायोक्तं परमेश्वराधीनप्रकृतिपुरुषसंयोगकार्यं संसारं वृक्षरूपकल्पनया वर्णयति वैराग्याय प्रस्तुतगुणातीतत्वोपायत्वात्तस्य--