ऋग्वेदः सूक्तं ९.६०
← सूक्तं ९.५९ | ऋग्वेदः - मण्डल ९ सूक्तं ९.६० अवत्सारः काश्यपः |
सूक्तं ९.६१ → |
दे. पवमानः सोमः। गायत्री, ३ पुरउष्णिक्। |
प्र गायत्रेण गायत पवमानं विचर्षणिम् ।
इन्दुं सहस्रचक्षसम् ॥१॥
तं त्वा सहस्रचक्षसमथो सहस्रभर्णसम् ।
अति वारमपाविषुः ॥२॥
अति वारान्पवमानो असिष्यदत्कलशाँ अभि धावति ।
इन्द्रस्य हार्द्याविशन् ॥३॥
इन्द्रस्य सोम राधसे शं पवस्व विचर्षणे ।
प्रजावद्रेत आ भर ॥४॥
सायणभाष्यम्
‘प्र गायत्रेण' इति चतुर्ऋचं षट्त्रिंशं सूक्तं काश्यपस्यावत्सारस्यार्षम्। तृतीया पुरउष्णिगाद्यद्वादशका द्व्यष्टका । शिष्टा गायत्र्यः । पवमानः सोमो देवता । तथा चानुक्रान्तं- प्र गायत्रेणोपान्त्या पुरउष्णिक्' इति । उक्तो विनियोगः ॥
प्र गा॑य॒त्रेण॑ गायत॒ पव॑मानं॒ विच॑र्षणिं ।
इन्दुं॑ स॒हस्र॑चक्षसं ॥१
प्र । गा॒य॒त्रेण॑ । गा॒य॒त॒ । पव॑मानम् । विऽच॑र्षणिम् ।
इन्दु॑म् । स॒हस्र॑ऽचक्षसम् ॥१
प्र । गायत्रेण । गायत । पवमानम् । विऽचर्षणिम् ।
इन्दुम् । सहस्रऽचक्षसम् ॥१
“विचर्षणिं विद्रष्टारं “सहस्रचक्षसं बहुदर्शनं “पवमानं पूयमानम् “इन्दुं सोमं “गायत्रेण गायत्रनामधेयेन साम्ना “प्र “गायत हे स्तोतारः गानं कुरुते । स्तुतेत्यर्थः ॥
तं त्वा॑ स॒हस्र॑चक्षस॒मथो॑ स॒हस्र॑भर्णसं ।
अति॒ वार॑मपाविषुः ॥२
त्वम् । त्वा॒ । स॒हस्र॑ऽचक्षसम् । अथो॒ इति॑ । स॒हस्र॑ऽभर्णसम् ।
अति॑ । वार॑म् । अ॒पा॒वि॒षुः॒ ॥२
त्वम् । त्वा । सहस्रऽचक्षसम् । अथो इति । सहस्रऽभर्णसम् ।
अति । वारम् । अपाविषुः ॥२
हे सोम "सहस्रचक्षसं बहुदर्शनम् “अथो अपि च “सहस्रभर्णसं बहुभरणं "तम् अभिषुतं “त्वा त्वां “वारं वालं दशापवित्रम् “अति “अपाविषुः ऋत्विजः पावयन्ति ॥
अति॒ वारा॒न्पव॑मानो असिष्यदत्क॒लशाँ॑ अ॒भि धा॑वति ।
इन्द्र॑स्य॒ हार्द्या॑वि॒शन् ॥३
अति॑ । वारा॑न् । पव॑मानः । अ॒सि॒स्य॒द॒त् । क॒लशा॑न् । अ॒भि । धा॒व॒ति॒ ।
इन्द्र॑स्य । हार्दि॑ । आ॒ऽवि॒शन् ॥३
अति । वारान् । पवमानः । असिस्यदत् । कलशान् । अभि । धावति ।
इन्द्रस्य । हार्दि । आऽविशन् ॥३
“पवमानः पूयमानः सोमः “वारान् अवेर्वालान् “अति अतिक्रम्य “असिष्यदत् स्यन्दते । अपि च “इन्द्रस्य "हार्दि हृदयम् “आविशन् “कलशान् द्रोणान् “अभि “धावति अभिगच्छति ॥
इन्द्र॑स्य सोम॒ राध॑से॒ शं प॑वस्व विचर्षणे ।
प्र॒जाव॒द्रेत॒ आ भ॑र ॥४
इन्द्र॑स्य । सो॒म॒ । राध॑से । शम् । प॒व॒स्व॒ । वि॒ऽच॒र्ष॒णे॒ ।
प्र॒जाऽव॑त् । रेतः॑ । आ । भ॒र॒ ॥४
इन्द्रस्य । सोम । राधसे । शम् । पवस्व । विऽचर्षणे ।
प्रजाऽवत् । रेतः । आ । भर ॥४
हे “विचर्षणे विद्रष्टः त्वम् “इन्द्रस्य “राधसे राधनाय संसिद्ध्यै “शं सुखकरं रसं “पवस्व क्षर । अपि चास्मभ्यं “प्रजावत् पुत्राद्युपेतं "रेतः उदकमन्नं वा “आ “भर आहर । प्रयच्छेत्यर्थः॥ ॥१७॥ ॥२॥
मण्डल ९ | |||
---|---|---|---|