ऋग्वेदः सूक्तं ९.५९

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.५९ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.५८ ऋग्वेदः - मण्डल ९
सूक्तं ९.५९
अवत्सारः काश्यपः।
सूक्तं ९.६० →
दे. पवमानः सोमः। गायत्री।


पवस्व गोजिदश्वजिद्विश्वजित्सोम रण्यजित् ।
प्रजावद्रत्नमा भर ॥१॥
पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः ।
पवस्व धिषणाभ्यः ॥२॥
त्वं सोम पवमानो विश्वानि दुरिता तर ।
कविः सीद नि बर्हिषि ॥३॥
पवमान स्वर्विदो जायमानोऽभवो महान् ।
इन्दो विश्वाँ अभीदसि ॥४॥


सायणभाष्यम्

‘पवस्व ' इति चतुर्ऋचं पञ्चत्रिंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ' पवस्व' इत्यनुक्रान्तम् । गतो विनियोगः ॥


पव॑स्व गो॒जिद॑श्व॒जिद्वि॑श्व॒जित्सो॑म रण्य॒जित् ।

प्र॒जाव॒द्रत्न॒मा भ॑र ॥१

पव॑स्व । गो॒ऽजित् । अ॒श्व॒ऽजित् । वि॒श्व॒ऽजित् । सो॒म॒ । र॒ण्य॒ऽजित् ।

प्र॒जाऽव॑त् । रत्न॑म् । आ । भ॒र॒ ॥१

पवस्व । गोऽजित् । अश्वऽजित् । विश्वऽजित् । सोम । रण्यऽजित् ।

प्रजाऽवत् । रत्नम् । आ । भर ॥१

हे “सोम “गोजित् शत्रूणां गवां जेता “अश्वजित् अश्वानामपि जेता “विश्वजित् विश्वस्य जगतो जेता “रण्यजित् रमणीयस्य धनस्यापि जेता त्वं “पवस्व धारया क्षर । अपि चास्मभ्यं “प्रजावत् पुत्राद्युपेतं "रत्नं रमणीयं धनम् “आ “भर आहर ॥


पव॑स्वा॒द्भ्यो अदा॑भ्यः॒ पव॒स्वौष॑धीभ्यः ।

पव॑स्व धि॒षणा॑भ्यः ॥२

पव॑स्व । अ॒त्ऽभ्यः । अदा॑भ्यः । पव॑स्व । ओष॑धीभ्यः ।

पव॑स्व । धि॒षणा॑भ्यः ॥२

पवस्व । अत्ऽभ्यः । अदाभ्यः । पवस्व । ओषधीभ्यः ।

पवस्व । धिषणाभ्यः ॥२

हे सोम त्वम् “अद्भ्यः वसतीवरीभ्यः “अदाभ्यः[१][२] अंशुभ्यश्च “पवस्व क्षर । अपि च "ओषधीभ्यः “पवस्व क्षर। किंच “धिषणाभ्यः ग्रावभ्यः “पवस्व क्षर ॥


त्वं सो॑म॒ पव॑मानो॒ विश्वा॑नि दुरि॒ता त॑र ।

क॒विः सी॑द॒ नि ब॒र्हिषि॑ ॥३

त्वम् । सो॒म॒ । पव॑मानः । विश्वा॑नि । दुः॒ऽइ॒ता । त॒र॒ ।

क॒विः । सी॒द॒ । नि । ब॒र्हिषि॑ ॥३

त्वम् । सोम । पवमानः । विश्वानि । दुःऽइता । तर ।

कविः । सीद । नि । बर्हिषि ॥३

हे “सोम “पवमानः पूयमानः “कविः क्रान्तकर्मा “त्वं “विश्वानि सर्वाणि दुरितानि राक्षसैः कृतान्युपद्रवाणि “तर निराकुरु । अस्मिन् “बर्हिषि “नि “षीद च ॥


पव॑मान॒ स्व॑र्विदो॒ जाय॑मानोऽभवो म॒हान् ।

इंदो॒ विश्वाँ॑ अ॒भीद॑सि ॥४

पव॑मान । स्वः॑ । वि॒दः॒ । जाय॑मानः । अ॒भ॒वः॒ । म॒हान् ।

इन्दो॒ इति॑ । विश्वा॑न् । अ॒भि । इत् । अ॒सि॒ ॥४

पवमान । स्वः । विदः । जायमानः । अभवः । महान् ।

इन्दो इति । विश्वान् । अभि । इत् । असि ॥४

हे “पवमान सोम त्वं “स्वः सर्वं “विदः यजमानाय प्रयच्छ । अपि च "जायमानः प्रादुर्भवन्नेव “महान् पूजनीयः “अभवः असि । किंच हे “इन्दो सोम त्वं “विश्वानित् सर्वानेव शत्रून् “अभि “असि तेजसाभिभवसि ॥ ॥ १६ ॥


मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

  1. अदाभ्यग्रहः
  2. अदाभ्य उपरि संदर्भाः
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.५९&oldid=366240" इत्यस्माद् प्रतिप्राप्तम्