ऋग्वेदः सूक्तं ६.३२
← सूक्तं ६.३१ | ऋग्वेदः - मण्डल ६ सूक्तं ६.३२ सुहोत्रो भारद्वाजः |
सूक्तं ६.३३ → |
दे. इन्द्रः। त्रिष्टुप् । |
अपूर्व्या पुरुतमान्यस्मै महे वीराय तवसे तुराय ।
विरप्शिने वज्रिणे शंतमानि वचांस्यासा स्थविराय तक्षम् ॥१॥
स मातरा सूर्येणा कवीनामवासयद्रुजदद्रिं गृणानः ।
स्वाधीभिरृक्वभिर्वावशान उदुस्रियाणामसृजन्निदानम् ॥२॥
स वह्निभिरृक्वभिर्गोषु शश्वन्मितज्ञुभिः पुरुकृत्वा जिगाय ।
पुरः पुरोहा सखिभिः सखीयन्दृळ्हा रुरोज कविभिः कविः सन् ॥३॥
स नीव्याभिर्जरितारमच्छा महो वाजेभिर्महद्भिश्च शुष्मैः ।
पुरुवीराभिर्वृषभ क्षितीनामा गिर्वणः सुविताय प्र याहि ॥४॥
स सर्गेण शवसा तक्तो अत्यैरप इन्द्रो दक्षिणतस्तुराषाट् ।
इत्था सृजाना अनपावृदर्थं दिवेदिवे विविषुरप्रमृष्यम् ॥५॥
सायणभाष्यम्
‘ अपूर्व्या' इति पञ्चर्चं नवमं सूक्तं त्रैष्टुभमैन्द्रम् । ‘अपूर्व्या' इत्यनुक्रान्तम् । द्वितीये छान्दोमिकेऽहनि निष्केवल्य एतत्सूक्तम् । सूत्रितं च--- अपूर्व्या पुरुतमानि तां सु ते कीर्तिम् ' (आश्व. श्रौ. ८.७ ) इति । महाव्रतेऽपि निष्केवल्येऽस्य सूक्तस्य विनियोग उक्तः ॥
अपू॑र्व्या पुरु॒तमा॑न्यस्मै म॒हे वी॒राय॑ त॒वसे॑ तु॒राय॑ ।
वि॒र॒प्शिने॑ व॒ज्रिणे॒ शंत॑मानि॒ वचां॑स्या॒सा स्थवि॑राय तक्षम् ॥१
अपू॑र्व्या । पु॒रु॒ऽतमा॑नि । अ॒स्मै॒ । म॒हे । वी॒राय॑ । त॒वसे॑ । तु॒राय॑ ।
वि॒ऽर॒प्शिने॑ । व॒ज्रिणे॑ । शम्ऽत॑मानि । वचां॑सि । आ॒सा । स्थवि॑राय । त॒क्ष॒म् ॥१
अपूर्व्या । पुरुऽतमानि । अस्मै । महे । वीराय । तवसे । तुराय ।
विऽरप्शिने । वज्रिणे । शम्ऽतमानि । वचांसि । आसा । स्थविराय । तक्षम् ॥१
“अपूर्व्या अपूर्व्याणि पूर्वैरकृतानि नूतनानि “पुरुतमानि बहुतमानि “शंतमानि सुखकृत्तमानि “वचांसि स्तुतिरूपाणि वाक्यानि "आसा आस्येन “अस्मै इन्द्राय “तक्षम् अतक्षम् । करोमि । कीदृशाय । “महे महते "वीराय विविधं शत्रूणामीरयित्रे “तवसे तवस्विने बलवते “तुराय त्वरमाणाय “विरप्शिने विशेषेण स्तुत्याय “वज्रिणे वज्रवते “स्थविराय प्रवृद्धाय ॥
स मा॒तरा॒ सूर्ये॑णा कवी॒नामवा॑सयद्रु॒जदद्रिं॑ गृणा॒नः ।
स्वा॒धीभि॒रृक्व॑भिर्वावशा॒न उदु॒स्रिया॑णामसृजन्नि॒दान॑म् ॥२
सः । मा॒तरा॑ । सूर्ये॑ण । क॒वी॒नाम् । अवा॑सयत् । रु॒जत् । अद्रि॑म् । गृ॒णा॒नः ।
सु॒ऽआ॒धीभिः॑ । ऋक्व॑ऽभिः । वा॒व॒शा॒नः । उत् । उ॒स्रिया॑णाम् । अ॒सृ॒ज॒त् । नि॒ऽदान॑म् ॥२
सः । मातरा । सूर्येण । कवीनाम् । अवासयत् । रुजत् । अद्रिम् । गृणानः ।
सुऽआधीभिः । ऋक्वऽभिः । वावशानः । उत् । उस्रियाणाम् । असृजत् । निऽदानम् ॥२
“सः इन्द्रः “मातरा मातरौ दिवं च पृथिवीं च “कवीनां क्रान्तदर्शिनामङ्गिरसामर्थाय “सूर्येण “अवासयत् प्राकाशयत् । किं कुर्वन् । “अद्रिं गवामदर्शनाय वलेन स्थापितं पर्वतं “रुजत् भञ्जन् । यद्वा । कवीनाम् अङ्गिरसामिति तृतीयार्थे षष्ठी । अङ्गिरोभिः “गृणानः स्तूयमान इति संबन्धः । अपि च “स्वाधीभिः शोभनध्यानैः “ऋक्वभिः स्तोतृभिरङ्गिरोभिः "वावशानः पुनः पुनः काम्यमानः सन् “उस्रियाणां वलस्य भृत्यैः पणिभिरपहृतानां गवां “निदानं बन्धनम् “उत् “असृजत् अमोचयत् ॥
स वह्नि॑भि॒रृक्व॑भि॒र्गोषु॒ शश्व॑न्मि॒तज्ञु॑भिः पुरु॒कृत्वा॑ जिगाय ।
पुर॑ः पुरो॒हा सखि॑भिः सखी॒यन्दृ॒ळ्हा रु॑रोज क॒विभि॑ः क॒विः सन् ॥३
सः । वह्नि॑ऽभिः । ऋक्व॑ऽभिः । गोषु॑ । शश्व॑त् । मि॒तज्ञु॑ऽभिः । पु॒रु॒ऽकृत्वा॑ । जि॒गा॒य॒ ।
पुरः॑ । पु॒रः॒ऽहा । सखि॑ऽभिः । स॒खि॒ऽयन् । दृ॒ळ्हाः । रु॒रो॒ज॒ । क॒विऽभिः॑ । क॒विः । सन् ॥३
सः । वह्निऽभिः । ऋक्वऽभिः । गोषु । शश्वत् । मितज्ञुऽभिः । पुरुऽकृत्वा । जिगाय ।
पुरः । पुरःऽहा । सखिऽभिः । सखिऽयन् । दृळ्हाः । रुरोज । कविऽभिः । कविः । सन् ॥३
“पुरुकृत्वा बहुकर्मकृत् “सः इन्द्रः “वह्निभिः हविषां वोढृभिः “ऋक्वभिः स्तोतृभिः “शश्वत् सर्वदा "मितज्ञुभिः संकुचितजानुभिरङ्गिरोभिः सह “गोषु निमित्तभूतेषु "जिगाय असुरान् जितवान् । जित्वा च "पुरोहा पुराणां हन्ता सः इन्द्रः “सखिभिः समानख्यानैः “कविभिः क्रान्तप्रज्ञैरङ्गिरोभिः सह “सखीयन् सखित्वमात्मन इच्छन् “कविः “सन् स्वयमपि क्रान्तप्रज्ञो भवन् “दृळ्हाः स्थिराः “पुरः आसुरीः पुरीः “रुरोज ॥
स नी॒व्या॑भिर्जरि॒तार॒मच्छा॑ म॒हो वाजे॑भिर्म॒हद्भि॑श्च॒ शुष्मै॑ः ।
पु॒रु॒वीरा॑भिर्वृषभ क्षिती॒नामा गि॑र्वणः सुवि॒ताय॒ प्र या॑हि ॥४
सः । नी॒व्या॑भिः । ज॒रि॒तार॑म् । अच्छ॑ । म॒हः । वाजे॑भिः । म॒हत्ऽभिः॑ । च॒ । शुष्मैः॑ ।
पु॒रु॒ऽवीरा॑भिः । वृ॒ष॒भ॒ । क्षि॒ती॒नाम् । आ । गि॒र्व॒णः॒ । सु॒वि॒ताय॑ । प्र । या॒हि॒ ॥४
सः । नीव्याभिः । जरितारम् । अच्छ । महः । वाजेभिः । महत्ऽभिः । च । शुष्मैः ।
पुरुऽवीराभिः । वृषभ । क्षितीनाम् । आ । गिर्वणः । सुविताय । प्र । याहि ॥४
हे “वृषभ कामानां वर्षक हे "गिर्वणः गिरा स्तुत्या संभजनीयेन्द्र “सः त्वं “महः महद्भिः “वाजेभिः वाजैरन्नैः “महद्भिः “शुष्मैः बलै: “च सह “क्षितीनां प्रजानां मध्ये “जरितारं स्तोतारम् “अच्छ आभिमुख्येन “नीव्याभिः नव्याभिर्नवतराभिः “पुरुवीराभिः पुरूणां बहूनां वीरयित्रीभिः बडवाभिः “आ “प्र “याहि आगच्छ । किमर्थम् । “सुविताय शोभनाय । सुखप्राप्त्यर्थमित्यर्थः ॥
स सर्गे॑ण॒ शव॑सा त॒क्तो अत्यै॑र॒प इन्द्रो॑ दक्षिण॒तस्तु॑रा॒षाट् ।
इ॒त्था सृ॑जा॒ना अन॑पावृ॒दर्थं॑ दि॒वेदि॑वे विविषुरप्रमृ॒ष्यम् ॥५
सः । सर्गे॑ण । शव॑सा । त॒क्तः । अत्यैः॑ । अ॒पः । इन्द्रः॑ । द॒क्षि॒ण॒तः । तु॒रा॒षाट् ।
इ॒त्था । सृ॒जा॒नाः । अन॑पऽवृत् । अर्थ॑म् । दि॒वेऽदि॑वे । वि॒वि॒षुः॒ । अ॒प्र॒ऽमृ॒ष्यम् ॥५
सः । सर्गेण । शवसा । तक्तः । अत्यैः । अपः । इन्द्रः । दक्षिणतः । तुराषाट् ।
इत्था । सृजानाः । अनपऽवृत् । अर्थम् । दिवेऽदिवे । विविषुः । अप्रऽमृष्यम् ॥५
“तुराषाट् तुराणां हिंसकानां सोढाभिभविता "सः “इन्द्रः “सर्गेण सर्वदोद्युक्तेन “शवसा बलेन “अत्यैः अश्वैः सततगामिभिस्तेजोभिर्वा “तक्तः संगतः सन् "दक्षिणतः दक्षिणायने “अपः उदकानि विसृजतीति शेषः । “इत्था इत्थमनेन प्रकारेण “सृजानाः सृज्यमानास्ता आपः “अर्थं गन्तव्यम् “अप्रमृष्यम् अन्यैरक्षोभ्यं समुद्रं "दिवेदिवे प्रतिदिनम् “अनपावृत् अपावर्तनं पुनरागमनं यथा न भवति तथा “विविषुः व्याप्नुवन्ति ॥ अर्तेस्थन्प्रत्ययान्तस्य रूपमर्थमिति ॥ ॥ ४ ॥
मण्डल ६ | ||||
---|---|---|---|---|