ऋग्वेदः सूक्तं ९.११४
← सूक्तं ९.११३ | ऋग्वेदः - मण्डल ९ सूक्तं ९.११४ कश्यपोऽसितो देवलो वा। |
दे. पवमानः सोमः। उष्णिक्। |
य इन्दोः पवमानस्यानु धामान्यक्रमीत् ।
तमाहुः सुप्रजा इति यस्ते सोमाविधन्मन इन्द्रायेन्दो परि स्रव ॥१॥
ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन्गिरः ।
सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिरिन्द्रायेन्दो परि स्रव ॥२॥
सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः ।
देवा आदित्या ये सप्त तेभिः सोमाभि रक्ष न इन्द्रायेन्दो परि स्रव ॥३॥
यत्ते राजञ्छृतं हविस्तेन सोमाभि रक्ष नः ।
अरातीवा मा नस्तारीन्मो च नः किं चनाममदिन्द्रायेन्दो परि स्रव ॥४॥
सायणभाष्यम्
‘य इन्दोः' इति चतुर्ऋचमेकादशं सूक्तम् । ऋष्याद्याः : पूर्ववत् । तथा चानुक्रम्यते -- य इन्दोश्चतुष्कम्' इति । गतः सूक्तविनियोगः ॥
य इन्दो॒ः पव॑मान॒स्यानु॒ धामा॒न्यक्र॑मीत् ।
तमा॑हुः सुप्र॒जा इति॒ यस्ते॑ सो॒मावि॑ध॒न्मन॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥१
यः । इन्दोः॑ । पव॑मानस्य । अनु॑ । धामा॑नि । अक्र॑मीत् ।
तम् । आ॒हुः॒ । सु॒ऽप्र॒जाः । इति॑ । यः । ते॒ । सो॒म॒ । अवि॑धत् । मनः॑ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥१
यः । इन्दोः । पवमानस्य । अनु । धामानि । अक्रमीत् ॥
तम् । आहुः । सुप्रजाः ।। इति । यः । ते । सोम । अविधत् । मनः । इन्द्राय । इन्दो इति । परि । स्रव ।। १ ।।
“पवमानस्य पूयमानस्य “इन्दोः सोमस्य “धामानि स्थानानि द्रोण कलशादीनि यद्वा धामानि तेजांसि “यः ब्राह्मणः “अनु "अक्रमीत् अनुक्रामति अनुगच्छति “तं जनं “सुप्रजाः शोभनप्रजननः कल्याणपुत्रादिप्रजायुक्त इत्याहुः । ‘नित्यमसिच् प्रजामेधयोः' इत्यसिच् समासान्तः । यः सौममभिषुणोति स पुत्रादियुक्तो भवतीत्यर्थः । किंच हे “सोम “यः मनुष्यः “ते त्वदर्थं “मनः “अविधत् करोति । यद्वा । ते त्वदीयं मनोऽविधत् परिचरति । विधतिः परिचरणकर्मा। तमपि कल्याणजननमित्याहुः । तस्मात्त्वं “परि “स्रव ॥
ऋषे॑ मन्त्र॒कृतां॒ स्तोमै॒ः कश्य॑पोद्व॒र्धय॒न्गिरः॑ ।
सोमं॑ नमस्य॒ राजा॑नं॒ यो ज॒ज्ञे वी॒रुधां॒ पति॒रिन्द्रा॑येन्दो॒ परि॑ स्रव ॥२
ऋषे॑ । म॒न्त्र॒ऽकृता॑म् । स्तोमैः॑ । कश्य॑प । उ॒त्ऽव॒र्धय॑न् । गिरः॑ ।
सोम॑म् । न॒म॒स्य॒ । राजा॑नम् । यः । ज॒ज्ञे । वी॒रुधा॑म् । पतिः॑ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥२
ऋषे । मन्त्रऽकृताम् । स्तोमैः । कश्यप । उत्ऽवर्धयत् । गिरः ।
सोमम् । नमस्य । राजानम् । यः । जज्ञे । वीरुधाम् । पतिः । इन्द्राय । इन्दो इति । परि । स्रव ॥ २ ॥
ऋषिः स्वात्मानं प्रत्याह । हे “ऋषे सूक्तद्रष्टर्हे “कश्यप आत्मन् त्वं “मन्त्रकृतां ऋषीणां “स्तोमैः स्तोत्रैः “गिरः स्तुतिरूपा वाचः “उद्वर्धयन् उपर्युपरि वर्धयन् “राजानं सर्वेषां स्वामिनं तं “सोमं “नमस्य पूजयः। नमसः पूजयां 'नमोवरिव' इति क्यच् । “यः सोमः “वीरुधां वनस्पतीनां पतिः पालकः "जज्ञे जातः तं नमस्य । हे सोम यथात्मना सुतो भवसि तथा परि स्रव ॥
स॒प्त दिशो॒ नाना॑सूर्याः स॒प्त होता॑र ऋ॒त्विजः॑ ।
दे॒वा आ॑दि॒त्या ये स॒प्त तेभिः॑ सोमा॒भि र॑क्ष न॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥३
स॒प्त । दिशः॑ । नाना॑ऽसूर्याः । स॒प्त । होता॑रः । ऋ॒त्विजः॑ ।
दे॒वाः । आ॒दि॒त्याः । ये । स॒प्त । तेभिः॑ । सो॒म॒ । अ॒भि । र॒क्ष॒ । नः॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥३
सप्त । दिशः । नानाऽसूर्याः । सप्त । होतारः । ऋत्विजः ।।
देवाः । आदित्याः । ये । सप्तः । तेभिः । सोम । अभि । रक्ष। नः ।। इन्द्राय । इन्दो इति । परि । स्रव ॥ ३ ॥
“सप्त “दिशः । सोमो यस्यां दिशि वर्तते तद्व्यतिरिक्ताः सप्त भवन्ति । “नानासूर्याः नानाविधैः सूर्यैरधिष्ठिता ऋतवो भवन्ति । नानालिङ्गत्वादृतूनां नानासूर्यत्वम् '(तै. आ. १.७) इत्याम्नानात् । यद्वा । नानासूर्या इति दिग्विशेषणम् । तथा “होतारः वषट्कर्तारो होत्रादयः “सप्त “ऋत्विजः भवन्ति । किंच “आदित्याः अदितेः पुत्रा धात्रादयो मार्तण्डवर्जिताः "ये "सप्त "देवाः सन्ति । एतत्तु ‘अष्टौ पुत्रासो अदितेः' (ऋ. सं. १०.७२. ८) इत्यत्र प्रपञ्चयिष्यते । हे “सोम “तेभिः तैर्दिगादिभिः सर्वैः नः अस्मान् अभि "रक्ष । एतत्तु त्वया विना न घटत इति तस्मात् “इन्द्राय "इन्दो “परि “स्रव ।।
उपाकरणोत्सर्जनयोर्मण्डलाद्यन्तहोमे ‘यत्ते राजन् ' इत्येषा। सूत्रितं च -- यत्ते राजञ्छृतं हविरिति द्व्यृचाः समानी व आकूतिरित्येका' (आश्व. गृ. ३. ५. ७-८) इति ॥
यत्ते॑ राजञ्छृ॒तं ह॒विस्तेन॑ सोमा॒भि र॑क्ष नः ।
अ॒रा॒ती॒वा मा न॑स्तारी॒न्मो च॑ न॒ः किं च॒नाम॑म॒दिन्द्रा॑येन्दो॒ परि॑ स्रव ॥४
यत् । ते॒ । रा॒ज॒न् । शृ॒तम् । ह॒विः । तेन॑ । सो॒म॒ । अ॒भि । र॒क्ष॒ । नः॒ ।
अ॒रा॒ति॒ऽवा । मा । नः॒ । ता॒री॒त् । मो इति॑ । च॒ । नः॒ । किम् । च॒न । आ॒म॒म॒त् । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥४
यत् । ते । राजन् । शृतम् । हविः । तेन । सोम । अभि । रक्ष । नः ।
अरातिऽवा । मा। नः । तारीत् । मो इति । च । नः । किम् । चन । आममत् । इन्द्राय । इन्दो इति । परि । स्रव ॥ ४ ॥
हे “राजन् सर्वेषां कर्मसाधनत्वेन स्वामिन् हे "सोम ते त्वदर्थं “शृतं पक्वं “यत् "हविः अस्ति ।' शृतं पाके' (पा. सू. ६. १. २७) इति निष्ठायां निपातितः । “तेन हविषा “नः अस्मान् अभि "रक्ष। अभिपालय । तस्मात्वदभिरक्षितानस्मान् "अरातीवा अरातित्ववाञ्शत्रुः “नः अस्मान् “मा “तारीत् मा वधीत् । किंच "नः अस्माकं “किं “चन किंचिदपि धनादिकं शत्रुः “मो “आममत् मा हिंसीत् । यदेतदेतैः सूक्तैरुक्तं तद्यथास्माकं भवति तथा हे “इन्दो “इन्द्राय "परि “स्रव । एवं स्वादिष्ठया' इत्यादिभिरेतदन्तैः सूक्तैर्बहुविधं सोममाहात्म्यमभ्यधायि तस्मादैहिकामुष्मिकफलसिद्धये सोमयागः करणीय इत्युक्तं भवति ॥ ॥ २८ ॥
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे दाशतय्या नवमे मण्डले
सप्तमोऽनुवाकः समाप्तं च नवमं मण्डलम् ॥
मण्डल ९ | |||
---|---|---|---|