ऋग्वेदः सूक्तं ९.४५
← सूक्तं ९.४४ | ऋग्वेदः - मण्डल ९ सूक्तं ९.४५ अयास्य आङ्गिरसः। |
सूक्तं ९.४६ → |
दे. पवमानः सोमः। गायत्री। |
स पवस्व मदाय कं नृचक्षा देववीतये ।
इन्दविन्द्राय पीतये ॥१॥
स नो अर्षाभि दूत्यं त्वमिन्द्राय तोशसे ।
देवान्सखिभ्य आ वरम् ॥२॥
उत त्वामरुणं वयं गोभिरञ्ज्मो मदाय कम् ।
वि नो राये दुरो वृधि ॥३॥
अत्यू पवित्रमक्रमीद्वाजी धुरं न यामनि ।
इन्दुर्देवेषु पत्यते ॥४॥
समी सखायो अस्वरन्वने क्रीळन्तमत्यविम् ।
इन्दुं नावा अनूषत ॥५॥
तया पवस्व धारया यया पीतो विचक्षसे ।
इन्दो स्तोत्रे सुवीर्यम् ॥६॥
सायणभाष्यम्
‘स पवस्व' इति षडृचमेकविंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘स पवस्व ' इत्यनुक्रान्तम् । गतो विनियोगः ॥
स प॑वस्व॒ मदा॑य॒ कं नृ॒चक्षा॑ दे॒ववी॑तये ।
इंद॒विंद्रा॑य पी॒तये॑ ॥१
सः । प॒व॒स्व॒ । मदा॑य । कम् । नृ॒ऽचक्षाः॑ । दे॒वऽवी॑तये ।
इन्दो॒ इति॑ । इन्द्रा॑य । पी॒तये॑ ॥१
सः । पवस्व । मदाय । कम् । नृऽचक्षाः । देवऽवीतये ।
इन्दो इति । इन्द्राय । पीतये ॥१
हे “इन्दो सोम “नृचक्षाः नॄणां नेतॄणां द्रष्टा “सः त्वं “देववीतये यज्ञाय “इन्द्राय इन्द्रस्य “पीतये पानाय च “मदाय मदार्थं च "कं सुखं यथा भवति तथा “पवस्व क्षर ॥
स नो॑ अर्षा॒भि दू॒त्यं१॒॑ त्वमिंद्रा॑य तोशसे ।
दे॒वान्त्सखि॑भ्य॒ आ वरं॑ ॥२
सः । नः॒ । अ॒र्ष॒ । अ॒भि । दू॒त्य॑म् । त्वम् । इन्द्रा॑य । तो॒श॒से॒ ।
दे॒वान् । सखि॑ऽभ्यः । आ । वर॑म् ॥२
सः । नः । अर्ष । अभि । दूत्यम् । त्वम् । इन्द्राय । तोशसे ।
देवान् । सखिऽभ्यः । आ । वरम् ॥२
हे सोम “त्वं “नः अस्माकं “दूत्यं दूतस्य कर्म “अर्ष अभिगच्छ । अपि च यस्त्वं “इन्द्राय इन्द्रार्थं “तोशसे पीयसे “सः त्वं “सखिभ्यः प्रियेभ्यः अस्मभ्यं “वरं श्रेष्ठं धनं “देवान् “आ याचस्वेत्यर्थः ॥
उ॒त त्वाम॑रु॒णं व॒यं गोभि॑रंज्मो॒ मदा॑य॒ कं ।
वि नो॑ रा॒ये दुरो॑ वृधि ॥३
उ॒त । त्वाम् । अ॒रु॒णम् । व॒यम् । गोभिः॑ । अ॒ञ्ज्मः॒ । मदा॑य । कम् ।
वि । नः॒ । रा॒ये । दुरः॑ । वृ॒धि॒ ॥३
उत । त्वाम् । अरुणम् । वयम् । गोभिः । अञ्ज्मः । मदाय । कम् ।
वि । नः । राये । दुरः । वृधि ॥३
“उत अपि च हे सोम यम् “अरुणम् अरुणवर्णं “त्वां “मदाय मदार्थं “वयम् अङ्गिरसायास्याः “गोभिः गोविकारैः पयोभिः “अञ्ज्मः वासयामः संस्कुर्मः। “कम् इति पूरणम् । स त्वं “नः अस्माकं “राये धनाय “दुरः द्वाराणि “वि “वृधि विवृतानि कुरु ॥
अत्यू॑ प॒वित्र॑मक्रमीद्वा॒जी धुरं॒ न याम॑नि ।
इंदु॑र्दे॒वेषु॑ पत्यते ॥४
अति॑ । ऊं॒ इति॑ । प॒वित्र॑म् । अ॒क्र॒मी॒त् । वा॒जी । धुर॑म् । न । याम॑नि ।
इन्दुः॑ । दे॒वेषु॑ । प॒त्य॒ते॒ ॥४
अति । ऊं इति । पवित्रम् । अक्रमीत् । वाजी । धुरम् । न । यामनि ।
इन्दुः । देवेषु । पत्यते ॥४
“इन्दुः सोमः “वाजी अश्वः “यामनि गमने “धुरं “न रथस्य धुरं यथा तथा “पवित्रम् “अति “अक्रमीत् अतिगच्छति । “देवेषु देवानां मध्ये “पत्यते गच्छति च ॥
समी॒ सखा॑यो अस्वर॒न्वने॒ क्रीळं॑त॒मत्य॑विं ।
इंदुं॑ ना॒वा अ॑नूषत ॥५
सम् । ई॒मिति॑ । सखा॑यः । अ॒स्व॒र॒न् । वने॑ । क्रीळ॑न्तम् । अति॑ऽअविम् ।
इन्दु॑म् । ना॒वाः । अ॒नू॒ष॒त॒ ॥५
सम् । ईमिति । सखायः । अस्वरन् । वने । क्रीळन्तम् । अतिऽअविम् ।
इन्दुम् । नावाः । अनूषत ॥५
“अत्यविम् अतिक्रान्तं दशापवित्रं “वने उदके “क्रीडन्तं संक्रीडमानम् “ईम् एनम् “इन्दुं सोमं “सखायः प्रियस्तोतारः “सम् “अस्वरन् संस्तुवन्ति । "नावाः वाचोऽपि “अनूषत अस्तुवन् । ‘ नौरक्षरम्' इति वाङ्नामसु पाठात् ॥
तया॑ पवस्व॒ धार॑या॒ यया॑ पी॒तो वि॒चक्ष॑से ।
इंदो॑ स्तो॒त्रे सु॒वीर्यं॑ ॥६
तया॑ । प॒व॒स्व॒ । धार॑या । यया॑ । पी॒तः । वि॒ऽचक्ष॑से ।
इन्दो॒ इति॑ । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥६
तया । पवस्व । धारया । यया । पीतः । विऽचक्षसे ।
इन्दो इति । स्तोत्रे । सुऽवीर्यम् ॥६
हे “इन्दो त्वं “यया “धारया “पीतः सन् “विचक्षसे विचक्षणाय “स्तोत्रे स्तोत्राणां कर्त्रे पुरुषाय “सुवीर्यं शोभनवीर्यं प्रयच्छसीति शेषः। “तया धारया “पवस्व क्षर ॥ ॥ २ ॥
मण्डल ९ | |||
---|---|---|---|