ऋग्वेदः सूक्तं ९.२९
← सूक्तं ९.२८ | ऋग्वेदः - मण्डल ९ सूक्तं ९.२९ नृमेध आङ्गिरसः। |
सूक्तं ९.३० → |
दे. पवमानः सोमः। गायत्री। |
प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसा ।
देवाँ अनु प्रभूषतः ॥१॥
सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा ।
ज्योतिर्जज्ञानमुक्थ्यम् ॥२॥
सुषहा सोम तानि ते पुनानाय प्रभूवसो ।
वर्धा समुद्रमुक्थ्यम् ॥३॥
विश्वा वसूनि संजयन्पवस्व सोम धारया ।
इनु द्वेषांसि सध्र्यक् ॥४॥
रक्षा सु नो अररुषः स्वनात्समस्य कस्य चित् ।
निदो यत्र मुमुच्महे ॥५॥
एन्दो पार्थिवं रयिं दिव्यं पवस्व धारया ।
द्युमन्तं शुष्ममा भर ॥६॥
सायणभाष्यम्
‘प्रास्य' इति षडृचं पञ्चमं सूक्तं नृमेधस्याङ्गिरसस्यार्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रम्यते च -- प्रास्य नृमेधः' इति । गतो विनियोगः ॥
प्रास्य॒ धारा॑ अक्षर॒न्वृष्णः॑ सु॒तस्यौज॑सा ।
दे॒वाँ अनु॑ प्र॒भूष॑तः ॥१
प्र । अ॒स्य॒ । धाराः॑ । अ॒क्ष॒र॒न् । वृष्णः॑ । सु॒तस्य॑ । ओज॑सा ।
दे॒वान् । अनु॑ । प्र॒ऽभूष॑तः ॥१
प्र । अस्य । धाराः । अक्षरन् । वृष्णः । सुतस्य । ओजसा ।
देवान् । अनु । प्रऽभूषतः ॥१
“अस्य सोमस्य "वृष्णः वर्षकस्य "सुतस्य अभिषुतस्य "देवाननु प्रभूषतः प्रभवितुमिच्छतः “ओजसा स्ववीर्येण “धाराः “प्र “अक्षरन् प्रकर्षेण क्षरन्ति ।
सप्तिं॑ मृजंति वे॒धसो॑ गृ॒णंतः॑ का॒रवो॑ गि॒रा ।
ज्योति॑र्जज्ञा॒नमु॒क्थ्यं॑ ॥२
सप्ति॑म् । मृ॒ज॒न्ति॒ । वे॒धसः॑ । गृ॒णन्तः॑ । का॒रवः॑ । गि॒रा ।
ज्योतिः॑ । ज॒ज्ञा॒नम् । उ॒क्थ्य॑म् ॥२
सप्तिम् । मृजन्ति । वेधसः । गृणन्तः । कारवः । गिरा ।
ज्योतिः । जज्ञानम् । उक्थ्यम् ॥२
“सप्तिम् अश्वस्थानीयं सर्पणस्वभावं वा सोमं “मृजन्ति शोधयन्ति । के। “गृणन्तः स्तुवन्तः “वेधसः विधातारः “कारवः कर्मकतारोऽध्वर्य्वादयः “गिरा स्तुत्या साधनेन । कीदृशं सप्तिम् । “ज्योतिः दीप्यमानं सोमं "जज्ञानं जायमानम् । प्रवृद्धमित्यर्थः । अथवा ज्योतिर्जायमानम् ‘अयं वै ज्योतिर्यत् सोमः' इति श्रुतेः । “उक्थ्यं स्तुत्यम् ॥
सु॒षहा॑ सोम॒ तानि॑ ते पुना॒नाय॑ प्रभूवसो ।
वर्धा॑ समु॒द्रमु॒क्थ्यं॑ ॥३
सु॒ऽसहा॑ । सो॒म॒ । तानि॑ । ते॒ । पु॒ना॒नाय॑ । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो ।
वर्ध॑ । स॒मु॒द्रम् । उ॒क्थ्य॑म् ॥३
सुऽसहा । सोम । तानि । ते । पुनानाय । प्रभुवसो इति प्रभुऽवसो ।
वर्ध । समुद्रम् । उक्थ्यम् ॥३
हे “सोम “प्रभूवसो प्रभूतधन “पुनानाय पूयमानस्य “ते तव “तानि तेजांसि “सुषहा शोभनाभिभावुकानि । यस्मादेवं तस्मात् “समुद्रं समुद्रसदृशं द्रोणकलशम् “उक्थ्यं स्तुत्यं तं "वर्ध वर्धय । पूरय रसेन ॥
विश्वा॒ वसू॑नि सं॒जय॒न्पव॑स्व सोम॒ धार॑या ।
इ॒नु द्वेषां॑सि स॒ध्र्य॑क् ॥४
विश्वा॑ । वसू॑नि । स॒म्ऽजय॑न् । पव॑स्व । सो॒म॒ । धार॑या ।
इ॒नु । द्वेषां॑सि । स॒ध्र्य॑क् ॥४
विश्वा । वसूनि । सम्ऽजयन् । पवस्व । सोम । धारया ।
इनु । द्वेषांसि । सध्र्यक् ॥४
हे “सोम "विश्वा सर्वाणि “वसूनि अस्मदर्थं “संजयन् “पवस्व क्षर “धारया । “द्वेषांसि द्वेष्याणि सर्वाणि “सध्र्यक् सहैव “इनु प्रेरय दूरदेशं प्रति ॥
रक्षा॒ सु नो॒ अर॑रुषः स्व॒नात्स॑मस्य॒ कस्य॑ चित् ।
नि॒दो यत्र॑ मुमु॒च्महे॑ ॥५
रक्ष॑ । सु । नः॒ । अर॑रुषः । स्व॒नात् । स॒म॒स्य॒ । कस्य॑ । चि॒त् ।
नि॒दः । यत्र॑ । मु॒मु॒च्महे॑ ॥५
रक्ष । सु । नः । अररुषः । स्वनात् । समस्य । कस्य । चित् ।
निदः । यत्र । मुमुच्महे ॥५
हे सोम “नः अस्मान् “सु सुष्ठु “रक्ष पालय । कस्मात् । “अररुषः अदातुः “स्वनात् शब्दात् निन्दारूपात्। किमेकस्यादानशीलस्य । न । “समस्य सर्वस्य योऽस्ति तस्य सर्वस्य कस्यचित् । कंचनामुञ्चन्नित्यर्थः । न केवलमदातुः स्वनात् । किं तर्हि । “कस्य “चित् कस्यापि “निदः निन्दकाद्रक्ष । “यत्र “मुमुच्महे यस्मिन्रक्षणे सति वयं मुक्ता भवेम तेन रक्षणेन रक्षेति ॥
एंदो॒ पार्थि॑वं र॒यिं दि॒व्यं प॑वस्व॒ धार॑या ।
द्यु॒मंतं॒ शुष्म॒मा भ॑र ॥६
आ । इ॒न्दो॒ इति॑ । पार्थि॑वम् । र॒यिम् । दि॒व्यम् । प॒व॒स्व॒ । धार॑या ।
द्यु॒ऽमन्त॑म् । शुष्म॑म् । आ । भ॒र॒ ॥६
आ । इन्दो इति । पार्थिवम् । रयिम् । दिव्यम् । पवस्व । धारया ।
द्युऽमन्तम् । शुष्मम् । आ । भर ॥६
हे “इन्दो क्लिद्यमान सोम त्वं “धारया “आ “पवस्व सर्वतः क्षर । “पार्थिवं दिव्यं च “रयिं धनं “द्युमन्तं दीप्तिमन्तं “शुष्मं बलं च “आ “भर आहरास्मभ्यम् ॥ ॥ १९ ॥
टिप्पणी
९.२९.५ रक्षा सु नो अररुषः स्वनात्समस्य कस्य चित् ।
मण्डल ९ | |||
---|---|---|---|