ऋग्वेदः सूक्तं ६.३३
← सूक्तं ६.३२ | ऋग्वेदः - मण्डल ६ सूक्तं ६.३३ शुनहोत्रो भारद्वाजः |
सूक्तं ६.३४ → |
दे. इन्द्रः। त्रिष्टुप्। |
य ओजिष्ठ इन्द्र तं सु नो दा मदो वृषन्स्वभिष्टिर्दास्वान् ।
सौवश्व्यं यो वनवत्स्वश्वो वृत्रा समत्सु सासहदमित्रान् ॥१॥
त्वां हीन्द्रावसे विवाचो हवन्ते चर्षणयः शूरसातौ ।
त्वं विप्रेभिर्वि पणीँरशायस्त्वोत इत्सनिता वाजमर्वा ॥२॥
त्वं ताँ इन्द्रोभयाँ अमित्रान्दासा वृत्राण्यार्या च शूर ।
वधीर्वनेव सुधितेभिरत्कैरा पृत्सु दर्षि नृणां नृतम ॥३॥
स त्वं न इन्द्राकवाभिरूती सखा विश्वायुरविता वृधे भूः ।
स्वर्षाता यद्ध्वयामसि त्वा युध्यन्तो नेमधिता पृत्सु शूर ॥४॥
नूनं न इन्द्रापराय च स्या भवा मृळीक उत नो अभिष्टौ ।
इत्था गृणन्तो महिनस्य शर्मन्दिवि ष्याम पार्ये गोषतमाः ॥५॥
सायणभाष्यम्
‘य ओजिष्ठः' इति पञ्चर्चं दशमं सूक्तं शुनहोत्रस्यार्षं त्रैष्टुभमैन्द्रम् ! अनुक्रम्यते च–'य ओजिष्ठः शुनहोत्रस्तु' इति । महाव्रतेऽपि निष्केवल्य उक्तो विनियोगः ।।
य ओजि॑ष्ठ इन्द्र॒ तं सु नो॑ दा॒ मदो॑ वृषन्स्वभि॒ष्टिर्दास्वा॑न् ।
सौव॑श्व्यं॒ यो व॒नव॒त्स्वश्वो॑ वृ॒त्रा स॒मत्सु॑ सा॒सह॑द॒मित्रा॑न् ॥१
यः । ओजि॑ष्ठः । इ॒न्द्र॒ । तम् । सु । नः॒ । दाः॒ । मदः॑ । वृ॒ष॒न् । सु॒ऽअ॒भि॒ष्टिः । दास्वा॑न् ।
सौव॑श्व्यम् । यः । व॒नव॑त् । सु॒ऽअश्वः॑ । वृ॒त्रा । स॒मत्ऽसु॑ । स॒सह॑त् । अ॒मित्रा॑न् ॥१
यः । ओजिष्ठः । इन्द्र । तम् । सु । नः । दाः । मदः । वृषन् । सुऽअभिष्टिः । दास्वान् ।
सौवश्व्यम् । यः । वनवत् । सुऽअश्वः । वृत्रा । समत्ऽसु । ससहत् । अमित्रान् ॥१
हे “वृषन् कामानां वर्षितः “इन्द्र त्वं “यः पुत्रः “ओजिष्ठः ओजस्वितमो बलवत्तमः "मदः तव मादयिता स्तुतिभिः स्तोतेत्यर्थः । “स्वभिष्टिः शोभनाभ्येषणः “दास्वान्। हविषां दानं दाः । तद्वान् । एवंगुणविशिष्टं “तं पुत्रं “नः अस्मभ्यं "सु सुष्ठु "दाः देहि। 'यः पुत्रः “स्वश्वः सन् “समत्सु संग्रामेषु “सौवश्व्यं शोभनाश्वानां समूहं “वनवत् हिंस्यात् । तथा “वृत्रा वृत्रान् वारयितॄन् “अमित्रान् शत्रूंश्च “सासहत् अत्यर्थमभिभवेत् तं दा इत्यन्वयः ॥
त्वां ही॒३॒॑न्द्राव॑से॒ विवा॑चो॒ हव॑न्ते चर्ष॒णय॒ः शूर॑सातौ ।
त्वं विप्रे॑भि॒र्वि प॒णीँर॑शाय॒स्त्वोत॒ इत्सनि॑ता॒ वाज॒मर्वा॑ ॥२
त्वाम् । हि । इ॒न्द्र॒ । अव॑से । विऽवा॑चः । हव॑न्ते । च॒र्ष॒णयः॑ । शूर॑ऽसातौ ।
त्वम् । विप्रे॑भिः । वि । प॒णीन् । अ॒शा॒यः॒ । त्वाऽऊ॑तः । इत् । सनि॑ता । वाज॑म् । अर्वा॑ ॥२
त्वाम् । हि । इन्द्र । अवसे । विऽवाचः । हवन्ते । चर्षणयः । शूरऽसातौ ।
त्वम् । विप्रेभिः । वि । पणीन् । अशायः । त्वाऽऊतः । इत् । सनिता । वाजम् । अर्वा ॥२
हे “इन्द्र “त्वां “हि त्वामेव “विवाचः विविधाः स्तुतिरूपा वाचो येषां तादृशाः “चर्षणयः मनुष्याः “शूरसातौ शूरैः संभजनीये संग्रामे “अवसे रक्षणार्थं “हवन्ते आह्वयन्ति । किंच “त्वं “विप्रेभिः विप्रैर्मेधाविभिरङ्गिरोभिः सार्धं "पणीन् । वलस्यानुचरा असुराः पणयः । तान् “वि “अशायः विशेषेणाशाययः । हतवानित्यर्थः । अतः “त्वोत “इत् त्वयोतो रक्षित एव “सनिता संभक्ता पुरुषः “वाजम् अन्नम् “अर्वा अभिगन्ता भवति ॥
त्वं ताँ इ॑न्द्रो॒भयाँ॑ अ॒मित्रा॒न्दासा॑ वृ॒त्राण्यार्या॑ च शूर ।
वधी॒र्वने॑व॒ सुधि॑तेभि॒रत्कै॒रा पृ॒त्सु द॑र्षि नृ॒णां नृ॑तम ॥३
त्वम् । तान् । इ॒न्द्र॒ । उ॒भया॑न् । अ॒मित्रा॑न् । दासा॑ । वृ॒त्राणि॑ । आर्या॑ । च॒ । शू॒र॒ ।
वधीः॑ । वना॑ऽइव । सुऽधि॑तेभिः । अत्कैः॑ । आ । पृ॒त्ऽसु । द॒र्षि॒ । नृ॒णाम् । नृ॒ऽत॒म॒ ॥३
त्वम् । तान् । इन्द्र । उभयान् । अमित्रान् । दासा । वृत्राणि । आर्या । च । शूर ।
वधीः । वनाऽइव । सुऽधितेभिः । अत्कैः । आ । पृत्ऽसु । दर्षि । नृणाम् । नृऽतम ॥३
हे “इन्द्र “त्वं “तान् “उभयान् वक्ष्यमाणान् उभयविधान् "अमित्रान् शत्रून् "वधीः अहिंसीः । के त उभयविधाः । “दासा उपक्षपयितॄन् कर्मविरोधिनो वलप्रभृतीनसुरान् ॥ ‘सुपां सुलुक्' इति शस आकारः ॥ “आर्या आर्याणि कर्मानुष्ठातृत्वेन श्रेष्ठानि “वृत्राणि आवरकाणि विश्वरूपादीनि “च तान् उभयविधान् हे “शूर त्वं हतवानित्यर्थः । “नृणां नेतॄणां मध्ये “नृतम अतिशयेन नेतर्हे इन्द्र “पृत्सु संग्रामेषु "सुधितेभिः सुष्ठु निहितैः "अत्कैः आत्मीयैरायुधैः “आ “दर्षि अन्यानपि शत्रूनादृणासि विदारयसि । तत्र दृष्टान्तः । “वनेव वनानीव । यथा वृक्षजातानि कुठारादिभिश्छिनत्ति तद्वत् ॥
स त्वं न॑ इ॒न्द्राक॑वाभिरू॒ती सखा॑ वि॒श्वायु॑रवि॒ता वृ॒धे भू॑ः ।
स्व॑र्षाता॒ यद्ध्वया॑मसि त्वा॒ युध्य॑न्तो ने॒मधि॑ता पृ॒त्सु शू॑र ॥४
सः । त्वम् । नः॒ । इ॒न्द्र॒ । अक॑वाभिः । ऊ॒ती । सखा॑ । वि॒श्वऽआ॑युः । अ॒वि॒ता । वृ॒धे । भूः॒ ।
स्वः॑ऽसाता । यत् । ह्वया॑मसि । त्वा॒ । युध्य॑न्तः । ने॒मऽधि॑ता । पृ॒त्ऽसु । शू॒र॒ ॥४
सः । त्वम् । नः । इन्द्र । अकवाभिः । ऊती । सखा । विश्वऽआयुः । अविता । वृधे । भूः ।
स्वःऽसाता । यत् । ह्वयामसि । त्वा । युध्यन्तः । नेमऽधिता । पृत्ऽसु । शूर ॥४
हे “इन्द्र “सः तादृशः “त्वम् “अकवाभिः अकुत्सिताभिः “ऊती उतिभी रक्षाभिः “नः अस्माकं “वृधे वर्धनाय “अविता रक्षिता "भूः भव । तथा “विश्वायुः सर्वतो गन्ता त्वमस्माकं “सखा च भव । “नेमधिता नेमशब्दोऽर्धवाची । उक्तं च - ’ त्वो नेम इत्यर्धस्य ' ( निरु ३. २०) इति ।। अर्धाः कतिपयाः पुरुषा धीयन्त एष्विति नेमधितयः संग्रामाः । तादृशेषु “पृत्सु पृतनासु संग्रामेषु “युध्यन्तः युद्धं कुर्वन्तो वयं “स्वर्षाता स्वः सुष्ठु अरणीयं धनं तस्य संभजनार्थं हे “शूर त्वां “यत् यदा 'ह्वयामसि आह्वयामः तदानीं त्वमविता सखा च भवेत्यर्थः ॥
नू॒नं न॑ इन्द्राप॒राय॑ च स्या॒ भवा॑ मृळी॒क उ॒त नो॑ अ॒भिष्टौ॑ ।
इ॒त्था गृ॒णन्तो॑ म॒हिन॑स्य॒ शर्म॑न्दि॒वि ष्या॑म॒ पार्ये॑ गो॒षत॑माः ॥५
नू॒नम् । नः॒ । इ॒न्द्र॒ । अ॒प॒राय॑ । च॒ । स्याः॒ । भव॑ । मृ॒ळी॒कः । उ॒त । नः॒ । अ॒भिष्टौ॑ ।
इ॒त्था । गृ॒णन्तः॑ । म॒हिन॑स्य । शर्म॑न् । दि॒वि । स्या॒म॒ । पार्ये॑ । गो॒सऽत॑माः ॥५
नूनम् । नः । इन्द्र । अपराय । च । स्याः । भव । मृळीकः । उत । नः । अभिष्टौ ।
इत्था । गृणन्तः । महिनस्य । शर्मन् । दिवि । स्याम । पार्ये । गोसऽतमाः ॥५
हे "इन्द्र त्वं "नूनम् अद्य “नः अस्माकं “स्याः अस्मदीयो भव । ”अपराय “च अपरस्मिन्नन्यस्मिन्नपि कालेऽस्मदीयो भव । "उत अपि च त्वं “नः अस्माकम् “अभिष्टौ अभिगमने सति “मृळीकः सुखयिता "भव । “इत्था इत्थमनेन प्रकारेण "गृणन्तः स्तुवन्तो वयं “गोषतमाः गवां संभक्तृतमाः सन्तः “महिनस्य महतस्तव संबन्धिनि “दिवि द्योतमाने “पार्ये दुःखस्य पारके “शर्मन् शर्मणि सुखे “स्याम वर्तमाना भवेम ॥ ॥ ५ ॥
मण्डल ६ | ||||
---|---|---|---|---|