ऋग्वेदः सूक्तं ७.९३
← सूक्तं ७.९२ | ऋग्वेदः - मण्डल ७ सूक्तं ७.९३ मैत्रावरुणिर्वसिष्ठः। |
सूक्तं ७.९४ → |
दे. इन्द्राग्नी। त्रिष्टुप्। |
शुचिं नु स्तोमं नवजातमद्येन्द्राग्नी वृत्रहणा जुषेथाम् ।
उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशते धेष्ठा ॥१॥
ता सानसी शवसाना हि भूतं साकंवृधा शवसा शूशुवांसा ।
क्षयन्तौ रायो यवसस्य भूरेः पृङ्क्तं वाजस्य स्थविरस्य घृष्वेः ॥२॥
उपो ह यद्विदथं वाजिनो गुर्धीभिर्विप्राः प्रमतिमिच्छमानाः ।
अर्वन्तो न काष्ठां नक्षमाणा इन्द्राग्नी जोहुवतो नरस्ते ॥३॥
गीर्भिर्विप्रः प्रमतिमिच्छमान ईट्टे रयिं यशसं पूर्वभाजम् ।
इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस्तिरतं देष्णैः ॥४॥
सं यन्मही मिथती स्पर्धमाने तनूरुचा शूरसाता यतैते ।
अदेवयुं विदथे देवयुभिः सत्रा हतं सोमसुता जनेन ॥५॥
इमामु षु सोमसुतिमुप न एन्द्राग्नी सौमनसाय यातम् ।
नू चिद्धि परिमम्नाथे अस्माना वां शश्वद्भिर्ववृतीय वाजैः ॥६॥
सो अग्न एना नमसा समिद्धोऽच्छा मित्रं वरुणमिन्द्रं वोचेः ।
यत्सीमागश्चकृमा तत्सु मृळ तदर्यमादितिः शिश्रथन्तु ॥७॥
एता अग्न आशुषाणास इष्टीर्युवोः सचाभ्यश्याम वाजान् ।
मेन्द्रो नो विष्णुर्मरुतः परि ख्यन्यूयं पात स्वस्तिभिः सदा नः ॥८॥
सायणभाष्यम्
शुचिं नु ' इत्यष्टर्चं चतुर्थं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्राग्नम् । अनुक्रम्यते हि - शुचिं न्वष्टावैन्द्राग्नं तु ' इति । गतः सूक्तविनियोगः । ऐन्द्राग्नस्य पशोर्वपायाः ‘ शुचिम् ' इत्येषा याज्या। सूत्रितं च - शुचिं नु स्तोमं नवजातमद्य गीभिर्विप्रः प्रमतिमिच्छमानः ' ( आश्व. श्रौ. ३. ७) इति ॥
शुचिं॒ नु स्तोमं॒ नव॑जातम॒द्येन्द्रा॑ग्नी वृत्रहणा जु॒षेथा॑म् ।
उ॒भा हि वां॑ सु॒हवा॒ जोह॑वीमि॒ ता वाजं॑ स॒द्य उ॑श॒ते धेष्ठा॑ ॥१
शुचि॑म् । नु । स्तोम॑म् । नव॑ऽजातम् । अ॒द्य । इन्द्रा॑ग्नी॒ इति॑ । वृ॒त्र॒ऽह॒ना॒ । जु॒षेथा॑म् ।
उ॒भा । हि । वा॒म् । सु॒ऽहवा॑ । जोह॑वीमि । ता । वाज॑म् । स॒द्यः । उ॒श॒ते । धेष्ठा॑ ॥१
शुचिम् । नु । स्तोमम् । नवऽजातम् । अद्य । इन्द्राग्नी इति । वृत्रऽहना । जुषेथाम् ।
उभा । हि । वाम् । सुऽहवा । जोहवीमि । ता । वाजम् । सद्यः । उशते । धेष्ठा ॥१
हे “वृत्रहणा वृत्राणां शत्रूणां हन्तारौ "इन्द्राग्नी “शुचिं शुद्धं निरवद्यं “नवजातम् इदानीमुत्पन्नं “स्तोमम् अस्मदीयं स्तोत्रम् "अद्य अस्मिन् काले “नु क्षिप्रं “जुषेथां सेवेथाम् । “हि यस्मात् "सुहवा सुखमाह्वातुं शक्यौ “उभा उभौ “वां युवां “जोहवीमि पुनःपुनराह्वयामि । अत आगत्य सेवेथामित्यर्थः । किंच “ता तौ तथाविधौ युवाम् "उशते कामयमानाय यजमानाय “वाजम् अन्नं बलं वा “सद्यः तदानीमेव शीघ्रं “धेष्ठा धातृतमौ भवतम् ॥
ता सा॑न॒सी श॑वसाना॒ हि भू॒तं सा॑कं॒वृधा॒ शव॑सा शूशु॒वांसा॑ ।
क्षय॑न्तौ रा॒यो यव॑सस्य॒ भूरे॑ः पृ॒ङ्क्तं वाज॑स्य॒ स्थवि॑रस्य॒ घृष्वे॑ः ॥२
ता । सा॒न॒सी इति॑ । श॒व॒सा॒ना॒ । हि । भू॒तम् । सा॒क॒म्ऽवृधा॑ । शव॑सा । शू॒शु॒ऽवांसा॑ ।
क्षय॑न्तौ । रा॒यः । यव॑सस्य । भूरेः॑ । पृ॒ङ्क्तम् । वाज॑स्य । स्थवि॑रस्य । घृष्वेः॑ ॥२
ता । सानसी इति । शवसाना । हि । भूतम् । साकम्ऽवृधा । शवसा । शूशुऽवांसा ।
क्षयन्तौ । रायः । यवसस्य । भूरेः । पृङ्क्तम् । वाजस्य । स्थविरस्य । घृष्वेः ॥२
हे इन्द्राग्नी “ता तौ तादृशौ “सानसी सर्वैः संभजनीयौ युवां “शवसाना। शवो बलम् । तद्वदाचरन्तौ “हि खलु “भूतम् । बलमिव शत्रूणां भञ्जकावास्तमित्यर्थः। कीदृशौ सन्तौ । “साकंवृधा सह प्रवृद्धौ “शवसा बलेन “शूशुवांसा वर्धमानौ तथा “रायः धनस्य “भूरेः बहुलस्य "यवसस्य अन्नस्य “क्षयन्तौ ईश्वरौ । एवंविधौ युवं युवां “स्थविरस्य स्थूलस्य “घृष्वेः शत्रूणां घर्षकस्य “वाजस्य अन्नस्य । ‘ क्रियाग्रहणमपि कर्तव्यम् ' इति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । ईदृशमन्नं "पृङ्क्तं संयोजयतम् । अस्मभ्यं प्रयच्छतमित्यर्थः ॥
उपो॑ ह॒ यद्वि॒दथं॑ वा॒जिनो॒ गुर्धी॒भिर्विप्रा॒ः प्रम॑तिमि॒च्छमा॑नाः ।
अर्व॑न्तो॒ न काष्ठां॒ नक्ष॑माणा इन्द्रा॒ग्नी जोहु॑वतो॒ नर॒स्ते ॥३
उपो॒ इति॑ । ह॒ । यत् । वि॒दथ॑म् । वा॒जिनः॑ । गुः । धी॒भिः । विप्राः॑ । प्रऽम॑तिम् । इ॒च्छमा॑नाः ।
अर्व॑न्तः । न । काष्ठा॑म् । नक्ष॑माणाः । इ॒न्द्रा॒ग्नी इति॑ । जोहु॑वतः । नरः॑ । ते ॥३
उपो इति । ह । यत् । विदथम् । वाजिनः । गुः । धीभिः । विप्राः । प्रऽमतिम् । इच्छमानाः ।
अर्वन्तः । न । काष्ठाम् । नक्षमाणाः । इन्द्राग्नी इति । जोहुवतः । नरः । ते ॥३
“वाजिनः हविष्मन्तः “विप्राः मेधाविनः “प्रमतिं प्रकृष्टां मतिमिन्द्राग्न्योरनुग्रहबुद्धिम् “इच्छमानाः आत्मन इच्छन्तः “यत् ये यजमानाः “विदथम् । विदन्ति जानन्ति देवानत्र यष्टव्यत्वेनेति विदथो यज्ञः । तं “धीभिः कर्मभिर्बुद्धिभिर्वा “उपो “गुः उपगच्छन्ति । उ इति पूरकः । “ते “नरः कर्मणां नेतारो जनाः “अर्वन्तो “न “काष्ठां यथाश्वाः शीघ्रं युद्धभूमिं व्याप्नुवन्ति तथा “नक्षमाणाः ऐन्द्राग्नानि कर्माणि व्याप्नुवन्तः “इन्द्राग्नी इन्द्रमग्निं च "जोहुवतः पुनःपुनराह्वयन्तो भवन्ति ॥
अमावास्यायामैन्द्राग्नस्य हविषः ‘ गीर्भिः' इत्येषा याज्या । सूत्रितं च --- इन्द्राग्नी अवसा गतं गीभिर्विप्रः प्रमतिमिच्छमानः ' (आश्व. श्रौ. १. ६) इति । ऐन्द्राग्ने पशौ पुरोडाशस्यैषैव याज्या । सूत्रं तूदाहृतम् ॥ ।
गी॒र्भिर्विप्र॒ः प्रम॑तिमि॒च्छमा॑न॒ ईट्टे॑ र॒यिं य॒शसं॑ पूर्व॒भाज॑म् ।
इन्द्रा॑ग्नी वृत्रहणा सुवज्रा॒ प्र नो॒ नव्ये॑भिस्तिरतं दे॒ष्णैः ॥४
गीः॒ऽभिः । विप्रः॑ । प्रऽम॑तिम् । इ॒च्छमा॑नः । ईट्टे॑ । र॒यिम् । य॒शस॑म् । पू॒र्व॒ऽभाज॑म् ।
इन्द्रा॑ग्नी॒ इति॑ । वृ॒त्र॒ऽह॒ना॒ । सु॒ऽव॒ज्रा॒ । प्र । नः॒ । नव्ये॑भिः । ति॒र॒त॒म् । दे॒ष्णैः ॥४
गीःऽभिः । विप्रः । प्रऽमतिम् । इच्छमानः । ईट्टे । रयिम् । यशसम् । पूर्वऽभाजम् ।
इन्द्राग्नी इति । वृत्रऽहना । सुऽवज्रा । प्र । नः । नव्येभिः । तिरतम् । देष्णैः ॥४
हे इन्द्राग्नी “प्रमतिं युवयोरनुग्रहबुद्धिम् “इच्छमानः इच्छन् “विप्रः मेधावी वसिष्ठः "यशसं यशसा युक्तं “पूर्वभाजं पूर्वमेव संभजनीयं “रयिं धनमुद्दिश्य “गीर्भिः स्तुतिभिः “ईट्टे युवां स्तौति । हे “वृत्रहणा वृत्रस्य हन्तारौ “सुवज्रा शोभनायुधौ “इन्द्राग्नी “नव्येभिः नवतरैः प्रशस्तैः “देष्णैः दातव्यैर्धनैः “नः अस्मान् “प्र “तिरतं प्रवर्धयतम् ॥
सं यन्म॒ही मि॑थ॒ती स्पर्ध॑माने तनू॒रुचा॒ शूर॑साता॒ यतै॑ते ।
अदे॑वयुं वि॒दथे॑ देव॒युभि॑ः स॒त्रा ह॑तं सोम॒सुता॒ जने॑न ॥५
सम् । यत् । म॒ही इति॑ । मि॒थ॒ती इति॑ । स्पर्ध॑माने॒ इति॑ । त॒नू॒ऽरुचा॑ । शूर॑ऽसाता । यतै॑ते॒ इति॑ ।
अदे॑वऽयुम् । वि॒दथे॑ । दे॒व॒युऽभिः॑ । स॒त्रा । ह॒त॒म् । सो॒म॒ऽसुता॑ । जने॑न ॥५
सम् । यत् । मही इति । मिथती इति । स्पर्धमाने इति । तनूऽरुचा । शूरऽसाता । यतैते इति ।
अदेवऽयुम् । विदथे । देवयुऽभिः । सत्रा । हतम् । सोमऽसुता । जनेन ॥५
“मही महत्यौ “मिथती परस्परं हिंसन्त्यौ। यद्वा । मेथतिराक्रोशकर्मा । परस्परमाक्रोशन्त्यौ । “स्पर्धमाने स्पर्धां कुर्वन्त्यौ “तनूरुचा--- "हतं हिंस्तम् । तथा “सोमसुता सोममभिषुण्वता "जनेन यजमानसंघेनासोमसुतं जनं हिंस्तम् ॥ ॥ १५ ॥
इ॒मामु॒ षु सोम॑सुति॒मुप॑ न॒ एन्द्रा॑ग्नी सौमन॒साय॑ यातम् ।
नू चि॒द्धि प॑रिम॒म्नाथे॑ अ॒स्माना वां॒ शश्व॑द्भिर्ववृतीय॒ वाजै॑ः ॥६
इ॒माम् । ऊं॒ इति॑ । सु । सोम॑ऽसुति॑म् । उप॑ । नः॒ । आ । इ॒न्द्रा॒ग्नी॒ इति॑ । सौ॒म॒न॒साय॑ । या॒त॒म् ।
नु । चि॒त् । हि । प॒रि॒म॒म्नाथे॒ इति॑ प॒रि॒ऽम॒म्नाथे॑ । अ॒स्मान् । आ । वा॒म् । शश्व॑त्ऽभिः । व॒वृ॒ती॒य॒ । वाजैः॑ ॥६
इमाम् । ऊं इति । सु । सोमऽसुतिम् । उप । नः । आ । इन्द्राग्नी इति । सौमनसाय । यातम् ।
नु । चित् । हि । परिमम्नाथे इति परिऽमम्नाथे । अस्मान् । आ । वाम् । शश्वत्ऽभिः । ववृतीय । वाजैः ॥६
हे "इन्द्राग्नी “इमामु इमामेव “नः अस्मदीया “सोमसुतिं सोमाभिषवक्रियां “सौमनसाय सुमनसो भावाय “सु सुष्ठु “उप “आ “यातम् उपागच्छतम् । अपि च युवाम् “अस्मान् परित्यज्य “नू “चित् नैव “मम्नाथे अन्यान्न मन्येथे । अस्मानेव सर्वदा बुध्येथे। “हि यस्मादेवं तस्मात् “वां युवां “शश्वद्भिः बहुभिः “वाजैः अन्नैर्हविर्लक्षणैः “आ “ववृतीय आवर्तयामि ॥
सो अ॑ग्न ए॒ना नम॑सा॒ समि॒द्धोऽच्छा॑ मि॒त्रं वरु॑ण॒मिन्द्रं॑ वोचेः ।
यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळ॒ तद॑र्य॒मादि॑तिः शिश्रथन्तु ॥७
सः । अ॒ग्ने॒ । ए॒ना । नम॑सा । सम्ऽइ॑द्धः । अच्छ॑ । मि॒त्रम् । वरु॑णम् । इन्द्र॑म् । वो॒चेः॒ ।
यत् । सी॒म् । आगः॑ । च॒कृ॒म । तत् । सु । मृ॒ळ॒ । तत् । अ॒र्य॒मा । अदि॑तिः । शि॒श्र॒थ॒न्तु॒ ॥७
सः । अग्ने । एना । नमसा । सम्ऽइद्धः । अच्छ । मित्रम् । वरुणम् । इन्द्रम् । वोचेः ।
यत् । सीम् । आगः । चकृम । तत् । सु । मृळ । तत् । अर्यमा । अदितिः । शिश्रथन्तु ॥७
हे “अग्ने “सः त्वम् “एना एनेन “नमसा अन्नेनास्मदीयेन हविषा “समिद्धः संदीप्तः सन् “मित्रं “वरुणमिन्द्रं च “अच्छ “वोचेः अभिब्रूयाः । अयमस्मदीयो रक्षणीय इति कथय । वयं “यत् “आगः अपराधम् । सीमिति परिग्रहार्थीयः । “सीं सर्वतो वाङ्मनःकायैः “चकृम कृतवन्तो वयं “तत् तस्मादागसः “सु “मृळ अस्मान् सुष्ठु रक्ष । “तत् चागः “अर्यमा “अदितिः मिश्रादयश्च “शिश्रथन्तु अस्मत्तो वियोजयन्तु ॥
ए॒ता अ॑ग्न आशुषा॒णास॑ इ॒ष्टीर्यु॒वोः सचा॒भ्य॑श्याम॒ वाजा॑न् ।
मेन्द्रो॑ नो॒ विष्णु॑र्म॒रुत॒ः परि॑ ख्यन्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥८
ए॒ताः । अ॒ग्ने॒ । आ॒शु॒षा॒णासः॑ । इ॒ष्टीः । यु॒वोः । सचा॑ । अ॒भि । अ॒श्या॒म॒ । वाजा॑न् ।
मा । इन्द्रः॑ । नः॒ । विष्णुः॑ । म॒रुतः॑ । परि॑ । ख्य॒न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥८
एताः । अग्ने । आशुषाणासः । इष्टीः । युवोः । सचा । अभि । अश्याम । वाजान् ।
मा । इन्द्रः । नः । विष्णुः । मरुतः । परि । ख्यन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥८
हे “अग्ने । उपलक्षणमेतत् । हे इन्द्राग्नी “एताः “इष्टीः इमान् यज्ञान् “आशुषाणासः आशु शीघ्रं संभजमाना वयं “युवोः युवयोः स्वभूतान् “वाजानं अन्नानि "सचा सह युगपदेव “अभ्यश्याम अभिप्राप्नुयाम । अपि च “इन्द्रः “विष्णुः “मरुतः च “नः अस्मान् “मा “परि “ख्यन् अस्मान् परित्यज्यान्यान् मा द्राक्षुः । सर्वदास्मानेव पश्यन्तु । अन्यद्गतम् ॥ ॥ १६ ॥
टिप्पणी
TS.1.1.14.1;
MS.4.11.1 KS.13.15;
आग्रयण सूक्तम् - TB.2.4.8.3;
AC.3-7.13. Ps: çuei nu stomam MS.4.13.5: 205.9; 4.14.8: 226.11; KS.21.13;
पशोः सूक्ते वपायाः पुरोनुवाक्या - TB.2.8.5.1;
MC.5.2.8.31;
आग्रयणप्रकरणम् - इयं वामस्य शुचिं नु - CC.3.12.7;
ज्योतिष्टोमे सवनीयपशुप्रकरणम् - उभा वामा वृत्रहणा ता योधिष्टं शुचिं नु गीर्भिर्विप्रः प्र चर्षणिभ्य इत्यैन्द्राग्नस्य- 6.10.9.
BrhD.6.19.
७.९३.३ उपो ह यद्विदथं इति
हविषां वनस्पतेः स्विष्टकृतश्च याज्या - उपो ह यद्.. तै.ब्रा. ३.६.१२.१
मै.सं. ४.११.१
मण्डल ७ | ||||||
---|---|---|---|---|---|---|