ऋग्वेदः सूक्तं ७.९४
← सूक्तं ७.९३ | ऋग्वेदः - मण्डल ७ सूक्तं ७.९४ मैत्रावरुणिर्वसिष्ठः। |
सूक्तं ७.९५ → |
दे. इ्न्द्राग्नी। गायत्री, १२ अनुष्टुप् |
इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः ।
अभ्राद्वृष्टिरिवाजनि ॥१॥
शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः ।
ईशाना पिप्यतं धियः ॥२॥
मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये ।
मा नो रीरधतं निदे ॥३॥
इन्द्रे अग्ना नमो बृहत्सुवृक्तिमेरयामहे ।
धिया धेना अवस्यवः ॥४॥
ता हि शश्वन्त ईळत इत्था विप्रास ऊतये ।
सबाधो वाजसातये ॥५॥
ता वां गीर्भिर्विपन्यवः प्रयस्वन्तो हवामहे ।
मेधसाता सनिष्यवः ॥६॥
इन्द्राग्नी अवसा गतमस्मभ्यं चर्षणीसहा ।
मा नो दुःशंस ईशत ॥७॥
मा कस्य नो अररुषो धूर्तिः प्रणङ्मर्त्यस्य ।
इन्द्राग्नी शर्म यच्छतम् ॥८॥
गोमद्धिरण्यवद्वसु यद्वामश्वावदीमहे ।
इन्द्राग्नी तद्वनेमहि ॥९॥
यत्सोम आ सुते नर इन्द्राग्नी अजोहवुः ।
सप्तीवन्ता सपर्यवः ॥१०॥
उक्थेभिर्वृत्रहन्तमा या मन्दाना चिदा गिरा ।
आङ्गूषैराविवासतः ॥११॥
ताविद्दुःशंसं मर्त्यं दुर्विद्वांसं रक्षस्विनम् ।
आभोगं हन्मना हतमुदधिं हन्मना हतम् ॥१२॥
सायणभाष्यम्
‘इयं वाम् ' इति द्वादशर्चं पञ्चमं सूक्तं वसिष्ठस्यार्षमैन्द्राग्नम् । द्वादश्यनुष्टुप् शिष्टा गायत्र्यः । तथा चानुकान्तम् - इयं वां द्वादश गायत्रमन्त्यानुष्टुप् ' इति । ज्योतिष्टोमे प्रातःसवनेऽच्छावाकशस्त्र आदितो नवर्चः शस्यन्ते । सूत्र्यते हि -- इयं वामस्य मन्मन इति नव ' (आश्व. श्रौ. ५.१०) इति । आभिप्लविकेषूक्थ्येषु स्तोमेषु वृद्धावच्छावाकस्य प्रातःसवन इदं सूक्तमावापार्थमुत्तमावर्जम् । सूत्रितं च -- ‘इयं वामस्य मन्मन इत्येकादश' (आश्व. श्रौ. ७. ५) इति । चातुर्विंशिकेऽहनि प्रातःसवने तस्यैवाद्यस्तृचः । सूत्रितं च -- इयं वामस्य मन्मन इन्द्राग्नी युवामिमे' (आश्व. श्रौ. ७. २ ) इति ॥
इ॒यं वा॑म॒स्य मन्म॑न॒ इन्द्रा॑ग्नी पू॒र्व्यस्तु॑तिः ।
अ॒भ्राद्वृ॒ष्टिरि॑वाजनि ॥१
इ॒यम् । वा॒म् । अ॒स्य । मन्म॑नः । इन्द्रा॑ग्नी॒ इति॑ । पू॒र्व्यऽस्तु॑तिः ।
अ॒भ्रात् । वृ॒ष्टिःऽइ॑व । अ॒ज॒नि॒ ॥१
इयम् । वाम् । अस्य । मन्मनः । इन्द्राग्नी इति । पूर्व्यऽस्तुतिः ।
अभ्रात् । वृष्टिःऽइव । अजनि ॥१
हे “इन्द्राग्नी “इयं पूर्व्यस्तुतिः पूर्व्या मुख्या स्तुतिः “अस्य “मन्मनः स्तोतुरस्माद्वसिष्ठात् “वां युवाभ्यां युवयोरर्थम् “अभ्रात् मेघात् “वृष्टिरिव बह्वी सती “अजनि प्रादुर्भूता। तां शृणुतमित्युत्तरत्र संबन्धः ॥
शृ॒णु॒तं ज॑रि॒तुर्हव॒मिन्द्रा॑ग्नी॒ वन॑तं॒ गिर॑ः ।
ई॒शा॒ना पि॑प्यतं॒ धिय॑ः ॥२
शृ॒णु॒तम् । ज॒रि॒तुः । हव॑म् । इन्द्रा॑ग्नी॒ इति॑ । वन॑तम् । गिरः॑ ।
ई॒शा॒ना । पि॒प्य॒त॒म् । धियः॑ ॥२
शृणुतम् । जरितुः । हवम् । इन्द्राग्नी इति । वनतम् । गिरः ।
ईशाना । पिप्यतम् । धियः ॥२
हे “इन्द्राग्नी "जरितुः स्तोतुः “हवम् आह्वानं युवां “शृणुतम् । श्रुत्वा च “गिरः तदीयाः स्तुतीः “वनतं संभजतम् । तथा “ईशाना ईश्वरौ युवां “धियः अनुष्ठितानि कर्माणि "पिप्यतं तत्स्थैः फलैः पूरयतम् ॥
मा पा॑प॒त्वाय॑ नो न॒रेन्द्रा॑ग्नी॒ माभिश॑स्तये ।
मा नो॑ रीरधतं नि॒दे ॥३
मा । पा॒प॒ऽत्वाय॑ । नः॒ । न॒रा॒ । इन्द्रा॑ग्नी॒ इति॑ । मा । अ॒भिऽश॑स्तये ।
मा । नः॒ । री॒र॒ध॒त॒म् । नि॒दे ॥३
मा । पापऽत्वाय । नः । नरा । इन्द्राग्नी इति । मा । अभिऽशस्तये ।
मा । नः । रीरधतम् । निदे ॥३
हे “नरा नेतारौ “इन्द्राग्नी “नः अस्मान् “पापत्वाय हीनभावाय “मा “रीरधतम् । तथा “अभिशस्तये शत्रुभिः कृतायाभिशंसनाय “मा रीरधतम् । तथा “निदे निन्दकाय जनाय “नः अस्मान् “मा रीरधतं मा वशीकुरुतम् ॥
चातुर्विंशिकेऽहनि प्रातःसवनेऽच्छावाकस्य ‘ इन्द्रे अग्ना ' इत्ययं षडहस्तोत्रियसंज्ञकस्तृचः । सूत्रितं च – इन्द्रे अग्ना नमो बृहत्ता हुवे ययोरिदम् ' ( आश्व. श्रौ. ७. २ ) इति ॥
इन्द्रे॑ अ॒ग्ना नमो॑ बृ॒हत्सु॑वृ॒क्तिमेर॑यामहे ।
धि॒या धेना॑ अव॒स्यव॑ः ॥४
इन्द्रे॑ । अ॒ग्ना । नमः॑ । बृ॒हत् । सु॒ऽवृ॒क्तिम् । आ । ई॒र॒या॒म॒हे॒ ।
धि॒या । धेनाः॑ । अ॒व॒स्यवः॑ ॥४
इन्द्रे । अग्ना । नमः । बृहत् । सुऽवृक्तिम् । आ । ईरयामहे ।
धिया । धेनाः । अवस्यवः ॥४
“अवस्यवः रक्षणकामा वयम् “इन्द्रे देवे "अग्ना अग्नौ च "बृहत् बृंहणं वर्धकं “नमः हविर्लक्षणमन्नं “सुवृक्तिं सुप्रवृत्तां स्तुतिं च “एरयामहे अभिप्रेरयामः । तथा “धिया कर्मणा युक्ताः “धेनाः । वाङ्नामैतत् । अप्रगीताः स्तुतिवाचश्चाभिप्रेरयामः ॥
ता हि शश्व॑न्त॒ ईळ॑त इ॒त्था विप्रा॑स ऊ॒तये॑ ।
स॒बाधो॒ वाज॑सातये ॥५
ता । हि । शश्व॑न्तः । ईळ॑ते । इ॒त्था । विप्रा॑सः । ऊ॒तये॑ ।
स॒ऽबाधः॑ । वाज॑ऽसातये ॥५
ता । हि । शश्वन्तः । ईळते । इत्था । विप्रासः । ऊतये ।
सऽबाधः । वाजऽसातये ॥५
“ता “हि तौ खल्विन्द्राग्नी “शश्वन्तः बहवः विप्रासः मेधाविनो जनाः “ऊतये रक्षणाय “इत्था इत्थमनेन प्रकारेण “ईळते स्तुवन्ति । तथा “सबाधः समानं बाधमानाः परस्परं बाध्यमाना जनाः “वाजसातये अन्नलाभाय तावेवेन्द्राग्नी ईळते स्तुवन्ति । यद्वा वाजसातिरिति संग्रामनाम । संग्रामार्थम् ॥
ता वां॑ गी॒र्भिर्वि॑प॒न्यव॒ः प्रय॑स्वन्तो हवामहे ।
मे॒धसा॑ता सनि॒ष्यव॑ः ॥६
ता । वा॒म् । गीः॒ऽभिः । वि॒प॒न्यवः॑ । प्रय॑स्वन्तः । ह॒वा॒म॒हे॒ ।
मे॒धऽसा॑ता । स॒नि॒ष्यवः॑ ॥६
ता । वाम् । गीःऽभिः । विपन्यवः । प्रयस्वन्तः । हवामहे ।
मेधऽसाता । सनिष्यवः ॥६
“विपन्यवः स्तोत्रमिच्छन्तः “प्रयस्वन्तः हविर्लक्षणेनान्नेनोपेताः “सनिष्यवः सनिं धनमात्मन इच्छन्तो वयं “मेधसाता मेधानां यागानां सातौ संभजने निमित्तभूते सति हे इन्द्राग्नी “ता तौ “वां युवां “गीर्भिः स्तुतिभिः "हवामहे आह्वयामहे ॥ ॥ १७ ॥
अमावास्यायामैन्द्राग्नस्य हविषः ‘इन्द्राग्नी अवसा ' इत्यनुवाक्या । सूत्रितं च - ‘ इन्द्राग्नी अवसा गतं गीभिर्विप्रः प्रमतिमिच्छमानः ' ( आश्व. श्रौ. १. ६ ) इति ॥
इन्द्रा॑ग्नी॒ अव॒सा ग॑तम॒स्मभ्यं॑ चर्षणीसहा ।
मा नो॑ दु॒ःशंस॑ ईशत ॥७
इन्द्रा॑ग्नी॒ इति॑ । अव॑सा । आ । ग॒त॒म् । अ॒स्मभ्य॑म् । च॒र्ष॒णि॒ऽस॒हा॒ ।
मा । नः॒ । दुः॒ऽशंसः॑ । ई॒श॒त॒ ॥७
इन्द्राग्नी इति । अवसा । आ । गतम् । अस्मभ्यम् । चर्षणिऽसहा ।
मा । नः । दुःऽशंसः । ईशत ॥७
हे “चर्षणीसहा चर्षणीनां मनुष्याणां शत्रुभूतानामभिभवतारौ हे “इन्द्राग्नी “अस्मभ्यं स्तोतृभ्यो देयेन “अवसा अन्नेन सह “आ “गतम् आगच्छतम् । “दुःशंसः दुष्टाभिशंसनः पारुष्यवादी शत्रुश्च “नः अस्मान् “मा "ईशत ईशिष्ट । अस्मान् बाधितुं मा शक्नोतु ॥
मा कस्य॑ नो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य ।
इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम् ॥८
मा । कस्य॑ । नः॒ । अर॑रुषः । धू॒र्तिः । प्रण॑क् । मर्त्य॑स्य ।
इन्द्रा॑ग्नी॒ इति॑ । शर्म॑ । य॒च्छ॒त॒म् ॥८
मा । कस्य । नः । अररुषः । धूर्तिः । प्रणक् । मर्त्यस्य ।
इन्द्राग्नी इति । शर्म । यच्छतम् ॥८
हे "इन्द्राग्नी "कस्य कस्यचिदपि “अररुषः अरेः “मर्त्यस्य मनुष्यस्य संबन्धिनी “धूर्तिः हिंसा “नः अस्मान् “मा “प्रणक् मा प्राप्नोतु । “शर्म सुखं चास्मभ्यं “यच्छतं दत्तम् ॥
गोम॒द्धिर॑ण्यव॒द्वसु॒ यद्वा॒मश्वा॑व॒दीम॑हे ।
इन्द्रा॑ग्नी॒ तद्व॑नेमहि ॥९
गोऽम॑त् । हिर॑ण्यऽवत् । वसु॑ । यत् । वा॒म् । अश्व॑ऽवत् । ईम॑हे ।
इन्द्रा॑ग्नी॒ इति॑ । तत् । व॒ने॒म॒हि॒ ॥९
गोऽमत् । हिरण्यऽवत् । वसु । यत् । वाम् । अश्वऽवत् । ईमहे ।
इन्द्राग्नी इति । तत् । वनेमहि ॥९
हे “इन्द्राग्नी "गोमत् गोभिर्युक्तं "हिरण्यवत् हिरण्यैः सुवर्णैर्युक्तम् “अश्वावत् अश्वैश्चोपेतं “यत् "वसु “वां युवाम् “ईमहे याचामहे “तत् वसु युवयोः प्रसादाद्वयं “वनेमहि संभजेमहि ॥
चातुर्विंशिकेऽहनि प्रातःसवनेऽच्छावाकशस्त्रे यत्सोम आ सुते ' इत्यारम्भणीया अहर्गणेषु च द्वितीयादिष्वहःस्वेषा प्रातःसवने तेनैव शंसनीया। सूत्रितं च -- यत्सोम आ सुते नर इत्यारम्भणीयाः शस्त्वा ' (आश्व. श्रौ. ७. २) इति ॥
यत्सोम॒ आ सु॒ते नर॑ इन्द्रा॒ग्नी अजो॑हवुः ।
सप्ती॑वन्ता सप॒र्यव॑ः ॥१०
यत् । सोमे॑ । आ । सु॒ते । नरः॑ । इ॒न्द्रा॒ग्नी इति॑ । अजो॑हवुः ।
सप्ति॑ऽवन्ता । स॒प॒र्यवः॑ ॥१०
यत् । सोमे । आ । सुते । नरः । इन्द्राग्नी इति । अजोहवुः ।
सप्तिऽवन्ता । सपर्यवः ॥१०
“सोमे "सुते अभिषुते सति “नरः कर्मणां नेतार ऋत्विजः “सपर्यवः परिचरणकामाः सन्तः “सप्तीवन्ता प्रशस्ताश्वौ "इन्द्राग्नी इन्द्रमग्निं च “यत् यदा “आ “अजोहवुः अभिह्वयन्ते तदा युवामागच्छतमिति शेषः ॥
उ॒क्थेभि॑र्वृत्र॒हन्त॑मा॒ या म॑न्दा॒ना चि॒दा गि॒रा ।
आ॒ङ्गू॒षैरा॒विवा॑सतः ॥११
उ॒क्थेभिः॑ । वृ॒त्र॒हन्ऽत॑मा । या । म॒न्दा॒ना । चि॒त् । आ । गि॒रा ।
आ॒ङ्गू॒षैः । आ॒ऽविवा॑सतः ॥११
उक्थेभिः । वृत्रहन्ऽतमा । या । मन्दाना । चित् । आ । गिरा ।
आङ्गूषैः । आऽविवासतः ॥११
“वृत्रहन्तमा वृत्राणामावरकाणां हन्तृतमौ “मन्दाना मोदमानौ “या याविन्द्राग्नी “उक्थेभिः शस्त्रैः "गिरा “चित् स्तुत्या च "आविवासतः परिचर्येते । व्यत्ययेन कर्मणि कर्तृप्रत्ययः ।। “आङ्गूषैः आघोषैरन्यैश्च स्तोत्रैर्यावाविवासतः परिचर्येते तौ युवामागच्छतमिति शेषः ॥
ताविद्दु॒ःशंसं॒ मर्त्यं॒ दुर्वि॑द्वांसं रक्ष॒स्विन॑म् ।
आ॒भो॒गं हन्म॑ना हतमुद॒धिं हन्म॑ना हतम् ॥१२
तौ । इत् । दुः॒ऽशंस॑म् । मर्त्य॑म् । दुःऽवि॑द्वांसम् । र॒क्ष॒स्विन॑म् ।
आ॒ऽभो॒गम् । हन्म॑ना । ह॒त॒म् । उ॒द॒ऽधिम् । हन्म॑ना । ह॒त॒म् ॥१२
तौ । इत् । दुःऽशंसम् । मर्त्यम् । दुःऽविद्वांसम् । रक्षस्विनम् ।
आऽभोगम् । हन्मना । हतम् । उदऽधिम् । हन्मना । हतम् ॥१२
हे इन्द्राग्नी “तौ युवां “दुःशंसं दुष्टाभिशंसनं “दुर्विद्वांसं दुर्विज्ञानं “रक्षस्विनं बलवन्तम् “आभोगम् आहृत्यास्मत्तोऽपहृत्य भोक्तारं "मर्त्यं मनुष्यं शत्रुं “हन्मना हननसाधनेनायुधेन “हतं हिंस्तम् । उक्तमेवार्थं दृष्टान्तेन द्रढयति । “उदधिम् । लुप्तोपममेतत् । उदधानं कुम्भमिव । यथा कुम्भोऽनायासेन भिद्यत एवमनायासेनैव शत्रुमायुधेन युवां हिंस्तम् ॥ ॥ १८ ॥
मण्डल ७ | ||||||
---|---|---|---|---|---|---|