ऋग्वेदः सूक्तं ५.८४
← सूक्तं ५.८३ | ऋग्वेदः - मण्डल ५ सूक्तं ५.८४ भौमोऽत्रिः |
सूक्तं ५.८५ → |
दे. पृथिवी । अनुष्टुप्। |
बळित्था पर्वतानां खिद्रं बिभर्षि पृथिवि ।
प्र या भूमिं प्रवत्वति मह्ना जिनोषि महिनि ॥१॥
स्तोमासस्त्वा विचारिणि प्रति ष्टोभन्त्यक्तुभिः ।
प्र या वाजं न हेषन्तं पेरुमस्यस्यर्जुनि ॥२॥
दृळ्हा चिद्या वनस्पतीन्क्ष्मया दर्धर्ष्योजसा ।
यत्ते अभ्रस्य विद्युतो दिवो वर्षन्ति वृष्टयः ॥३॥
सायणभाष्यम्
‘बळित्था' इति तृचात्मकं द्वादशं सूक्तं भौमस्यात्रेरार्षं पृथिवीदेवताकमानुष्टुभम् । अनुक्रान्तं च--- बळित्था तृचं पार्थिवमानुष्टुभम् ' इति । सूक्तविनियोगो लैङ्गिकः। आद्या देवानां हविःषु पृथिव्या अनुवाक्या । ‘बळित्था पर्वतानां दृळ्हा चिद्या वनस्पतीन्' (आश्व. श्रौ. ६. १४ ) इति हि सूत्रितम् । भूमिस्तोमे चैषा मरुत्वतीयशस्त्रे सूक्तमुखीया ( आश्व. श्रौ.९. ५) ।
बळि॒त्था पर्व॑तानां खि॒द्रं बि॑भर्षि पृथिवि ।
प्र या भूमिं॑ प्रवत्वति म॒ह्ना जि॒नोषि॑ महिनि ॥१
बट् । इ॒त्था । पर्व॑तानाम् । खि॒द्रम् । बि॒भ॒र्षि॒ । पृ॒थि॒वि॒ ।
प्र । या । भूमि॑म् । प्र॒व॒त्व॒ति॒ । म॒ह्ना । जि॒नोषि॑ । म॒हि॒नि॒ ॥१
बट् । इत्था । पर्वतानाम् । खिद्रम् । बिभर्षि । पृथिवि ।।
प्र । या । भूमिम् । प्रवत्वति । मह्ना । जिनोषि । महिनि ॥ १ ॥
द्विरूपा पृथिवी चैषा प्रत्यक्षा देवतापि च । मध्यस्थाना देवतोक्ता सात्र संबोध्य वर्ण्यते ॥ हे “पृथिवि प्रथनवति मध्यस्थानदेवते । त्वम् “इत्था इत्थम् अमुत्र अन्तरिक्षे वा “बट् सत्यं “पर्वतानां मेघानां वा “खिद्रं खेदनं भेदनं “बिभर्षि धारयसि । हे “महिनि महति हे “प्रवत्वति प्रकर्षवति प्रवणोदकवति वा "या त्वं “भूमिं प्रत्यक्षां पृथिवीं “मह्ना महत्त्वेन महतोदकेन वा “प्र “जिनोषि प्रकर्षेण प्रीणयसि ॥
स्तोमा॑सस्त्वा विचारिणि॒ प्रति॑ ष्टोभन्त्य॒क्तुभिः॑ ।
प्र या वाजं॒ न हेष॑न्तं पे॒रुमस्य॑स्यर्जुनि ॥२
स्तोमा॑सः । त्वा॒ । वि॒ऽचा॒रि॒णि॒ । प्रति॑ । स्तो॒भ॒न्ति॒ । अ॒क्तुऽभिः॑ ।
प्र । या । वाज॑म् । न । हेष॑न्तम् । पे॒रुम् । अस्य॑सि । अ॒र्जु॒नि॒ ॥२
स्तोमासः । त्वा । विऽचारिणि । प्रति । स्तोभन्ति । अक्तुऽभिः ।
प्र । या । वाजम् । न । हेषन्तम् । पेरुम् । अस्यसि । अर्जुनि ॥ २ ॥
हे “विचारिणि विविधं चरणशीले पृथिवि देवि “त्वा त्वां “स्तोमासः स्तोतारः “अक्तुभिः गमनशीलैः स्तोत्रैः “प्रति “ष्टोभन्ति अभिष्टुवन्ति। किंच “या त्वं हेषन्तं शब्दयन्तं “वाजं न अश्वमिव उद्वृत्तं “पेरुं पूरकं मेघं “प्र “अस्यसि प्रक्षिपसि हे “अर्जुनि शुभ्रवर्णे गमनशीले वा ।।
देवानां हविःषु ‘ दृळ्हा चित्' इति पृथिव्या याज्या। एषैव भूमिस्तोमे निष्केवल्ये सूक्तमुखीया । सूत्रं तु पूर्वमेवोदाहृतम् ॥
दृ॒ळ्हा चि॒द्या वन॒स्पती॑न्क्ष्म॒या दर्ध॒र्ष्योज॑सा ।
यत्ते॑ अ॒भ्रस्य॑ वि॒द्युतो॑ दि॒वो वर्ष॑न्ति वृ॒ष्टयः॑ ॥३
दृ॒ळ्हा । चि॒त् । या । वन॒स्पती॑न् । क्ष्म॒या । दर्ध॑र्षि । ओज॑सा ।
यत् । ते॒ । अ॒भ्रस्य॑ । वि॒ऽद्युतः॑ । दि॒वः । वर्ष॑न्ति । वृ॒ष्टयः॑ ॥३
दृळ्हा। चित् । या । वनस्पतीन् । क्ष्मया । दधर्षि । ओज॑सा ।
यत् । ते । अभ्रस्य । विऽद्युतः । दिवः । वर्षन्ति । वृष्टयः ॥ ३ ॥
हे पृथिवि “या त्वं “दृळ्हा “चित् ॥ ‘ सुपा सुलुक्' इति तृतीयाया आकारः ॥ दृढया “क्ष्मया भूम्या सह “वनस्पतीन् वृक्षान् “ओजसा बलेन “दधर्षि धारयसि । अथवा दृढेति विधेयविशेषणम् । वनस्पतीन् दृढान् कृत्वा धारयसि इत्यर्थः । “यत् यस्याः “ते तव संबन्धिनः “वृष्टयः वर्षका मेघाः “विद्युतः विद्योतमानात् “अभ्रस्य ॥ पञ्चम्यर्थे षष्ठी । अभ्रात् अपां हर्तुः “दिवः अन्तरिक्षात् आदित्याद्वा “वर्षन्ति । अथवा यत् यस्यास्ते तवाभ्रस्य मेघस्य वृष्टय उदकसंघाता विद्युतो विद्योतमानाया दिवः सकाशात् वर्षन्ति पतन्ति ॥ ॥ २९ ॥
टिप्पणी
TS. 2.2.12.2
MS.4.12.2: KS.10.12;
गार्हपत्य उदयनीयया चरन्ति ...बडित्था पर्वतानां दृड्हा चिद्या वनस्पतीन् १८ पश्वलाभे पयस्या मैत्रावरुण्यनूबंध्यास्थाने - AC 6.14.18;
बडित्था पर्वतानां दृल्हाचिद्या वनस्पतीन् देवेभ्यो वनस्पते ...सूक्तमुखीयाः - आश्व.श्रौ 9.5.2;
9.28.6 (comm.);
राज्ञो निवपनादि कर्म - बडित्था पर्वतानामित्येताभ्यां विमितमग्निमाक्रमन्ते - ApÇ.16.17.17;
आग्रहायणीं व्याख्यास्यामः...इति द्वाभ्यां दक्षिणैः पार्श्वैः संविशन्ति - हिर.गृह्य.2.17.9;
ApMB.2. 18.9 (ApG.7.19.11);
बळित्था पर्वतानां खिद्रं बिभर्षि पृथिवि । प्र या भूमिं प्रवत्वति मह्ना जिनोषि महिनि ॥ सत्यं त्वं पर्वतानां मेघानां खेदनं छेदनं बलममुत्र धारयसि पृथिवि । प्रजिन्वसि या भूमिम् । प्रवणवति । महत्त्वेन । महतीत्युदकवतीति वा । - N.11.37.
BrhD.5.88.
मण्डल ५ | ||||
---|---|---|---|---|