ऋग्वेदः सूक्तं ५.७०
← सूक्तं ५.६९ | ऋग्वेदः - मण्डल ५ सूक्तं ५.७० उरुचक्रिरात्रेयः |
सूक्तं ५.७१ → |
दे. मित्रावरुणौ। गायत्री। |
पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण ।
मित्र वंसि वां सुमतिम् ॥१॥
ता वां सम्यगद्रुह्वाणेषमश्याम धायसे ।
वयं ते रुद्रा स्याम ॥२॥
पातं नो रुद्रा पायुभिरुत त्रायेथां सुत्रात्रा ।
तुर्याम दस्यून्तनूभिः ॥३॥
मा कस्याद्भुतक्रतू यक्षं भुजेमा तनूभिः ।
मा शेषसा मा तनसा ॥४॥
सायणभाष्यम्
‘ पुरूरुणा' इति चतुर्ऋचं चतुर्दशं सूक्तमुरुचक्रेरार्षं गायत्रं मैत्रावरुणम् । ‘पुरूरुणा गायत्रं तु ' इत्यनुक्रमणिका । पृष्ठ्याभिप्लवषडहयोः प्रातःसवने अवापार्थत्वेन इदमपि सूक्तं पूर्वसूक्तेन सह । ‘ प्र वो मित्रायेति चतुर्णां द्वितीयमुद्धरेत्' इति ह्युक्तम् । चातुर्विंशिकेऽहनि प्रातःसवने मैत्रावरुणशस्त्रे आद्यस्तृचः षडहस्तोत्रियसंज्ञकः । सूत्रितं च - पुरूरुणा चिद्धयस्ति प्रति वां सूर उदिते ' ( आश्व. श्रौ. ७. २ ) इति ।।
पु॒रू॒रुणा॑ चि॒द्ध्यस्त्यवो॑ नू॒नं वां॑ वरुण ।
मित्र॒ वंसि॑ वां सुम॒तिम् ॥१
पु॒रु॒ऽउ॒रुणा॑ । चि॒त् । हि । अस्ति॑ । अवः॑ । नू॒नम् । वा॒म् । व॒रु॒ण॒ ।
मित्र॑ । वंसि॑ । वा॒म् । सु॒ऽम॒तिम् ॥१
पुरुऽउरुणा । चित् । हि । अस्ति । अवः । नूनम् । वाम् । वरुण ।
मित्र । वंसि । वाम् । सुऽमतिम् ॥१
हे मित्रावरुणौ "वां युवयोः “पुरूरुणा “चित् । अत्र सोः ‘सुपां सुलुक्' इत्याकारः ॥ पुरोरपि बहु उरु बहुतरम् । अथवा पुरु च तदुरु च पुरूरु। अत्यन्तमुरुतरमित्यर्थः । तादृक् “अवः रक्षणं "नूनं निश्चयेन “अस्ति । “हि प्रसिद्धौ । चिदिति पूरणः । हे “वरुण हे “मित्र "वां युवयोः "सुमतिम् अनुग्रहबुद्धिं “वंसि संभजेय । यस्मादवोऽस्ति तस्माद्वंसीति भावः ॥
ता वां॑ स॒म्यग॑द्रुह्वा॒णेष॑मश्याम॒ धाय॑से ।
व॒यं ते रु॑द्रा स्याम ॥२
ता । वा॒म् । स॒म्यक् । अ॒द्रु॒ह्वा॒णा॒ । इष॑म् । अ॒श्या॒म॒ । धाय॑से ।
व॒यम् । ते । रु॒द्रा॒ । स्या॒म॒ ॥२
ता । वाम् । सम्यक् । अद्रुह्वाणा । इषम् । अश्याम । धायसे ।
वयम् । ते । रुद्रा । स्याम ॥२
हे “अद्रुह्वाणा हे अद्रोग्धारौ "ता तौ प्रसिद्धौ “वां युवां “सम्यक् । स्तुम इति शेषः । स्तोतारो वयम् “इषम् अन्नं “धायसे पानाय भोजनाय “अश्याम प्राप्नुयाम । हे “रुद्रा दुःखात् द्रावयितारौ रुदद्भिः द्रवणीयौ वा “ते स्तोतारः “वयं “स्याम भवेम । समृद्धा इति शेषः । युवाभ्यां स्वभूता वा स्याम ॥
पा॒तं नो॑ रुद्रा पा॒युभि॑रु॒त त्रा॑येथां सुत्रा॒त्रा ।
तु॒र्याम॒ दस्यू॑न्त॒नूभि॑ः ॥३
पा॒तम् । नः॒ । रु॒द्रा॒ । पा॒युऽभिः॑ । उ॒त । त्रा॒ये॒था॒म् । सु॒ऽत्रा॒त्रा ।
तु॒र्याम॑ । दस्यू॑न् । त॒नूभिः॑ ॥३
पातम् । नः । रुद्रा । पायुऽभिः । उत । त्रायेथाम् । सुऽत्रात्रा ।
तुर्याम । दस्यून् । तनूभिः ॥३
हे "रुद्रा उक्तरूपौ देवौ युवां “नः अस्मान् “पायुभिः रक्षणैः “पातं रक्षतम् । "उत अपि च “सुत्रात्रा शोभनेन त्राणेन “त्रायेथां पालयेथाम् । इष्टप्राप्त्यनिष्टपरिहारभेदेन भेदः । स्तोत्रादिवैकल्यात् शत्रोर्वा त्रायेथाम् अभिमतप्रापणेन रक्षतमित्यर्थः । वयं च “तनूभिः पुत्रादिभिः सहिताः स्वीयैरङ्गैर्वा "दस्यून् शत्रून् “तुर्याम हिंस्याम तरेम वा ॥
मा कस्या॑द्भुतक्रतू य॒क्षं भु॑जेमा त॒नूभि॑ः ।
मा शेष॑सा॒ मा तन॑सा ॥४
मा । कस्य॑ । अ॒द्भु॒त॒क्र॒तू॒ इत्य॑द्भुतऽक्रतू । य॒क्षम् । भु॒जे॒म॒ । त॒नूभिः॑ ।
मा । शेष॑सा । मा । तन॑सा ॥४
मा । कस्य । अद्भुतक्रतू इत्यद्भुतऽक्रतू । यक्षम् । भुजेम । तनूभिः ।
मा । शेषसा । मा । तनसा ॥४
हे “अद्भुतक्रतू आश्चर्यकर्माणौ वयं “कस्य अन्यस्य कस्यचन “यक्षं पूजितं धनं “मा “भुजेम मा भुञ्जीमहि “तनूभिः अस्मदीयैः अवयवैः । युवयोरनुग्रहात् समृद्धा वयम् अन्ययाचितधनेन शरीरपोषं न कुर्म इत्यर्थः । तथा “शेषसा अपत्येन सहिताः “मा भुजेम । “तनसा पौत्रादिना सहिताः “मा भुजेम । अस्मत्कुले न केऽपि भुञ्जीमहीत्यर्थः ॥ ॥ ८ ॥
टिप्पणी
द्वितीयाज्य स्तोत्रीयं तृचः -- पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण- इति मैत्रावरुणम् यद्वै यज्ञस्य दुरिष्टं तद्वरुणो गृह्णाति तदेव तदवयजत - तां.ब्रा. १३.२.४,
अहीने पञ्चममहः - अग्ने स्तोमं मनामहे (सा० १४०५ -) पुरूरुणा-चिद्ध्यस्ति-उत्तिष्ठन्नोजसा सह-इन्द्राग्नी युवाम् ( सा० ९ ८५-९६) इत्याज्यानि । आर्षेयकल्पः ८.२१, पृ.४२९
१५.१.३
SV.2.335 ( ९८५ );
आश्व.श्रौ. 7.2.2.
शांश्रौ. 12. 1.3.
मण्डल ५ | ||||
---|---|---|---|---|