ऋग्वेदः सूक्तं ५.६९
← सूक्तं ५.६८ | ऋग्वेदः - मण्डल ५ सूक्तं ५.६९ उरुचक्रिरात्रेयः। |
सूक्तं ५.७० → |
दे. मित्रावरुणौ। त्रिष्टुप् |
त्री रोचना वरुण त्रीँरुत द्यून्त्रीणि मित्र धारयथो रजांसि ।
वावृधानावमतिं क्षत्रियस्यानु व्रतं रक्षमाणावजुर्यम् ॥१॥
इरावतीर्वरुण धेनवो वां मधुमद्वां सिन्धवो मित्र दुह्रे ।
त्रयस्तस्थुर्वृषभासस्तिसॄणां धिषणानां रेतोधा वि द्युमन्तः ॥२॥
प्रातर्देवीमदितिं जोहवीमि मध्यंदिन उदिता सूर्यस्य ।
राये मित्रावरुणा सर्वतातेळे तोकाय तनयाय शं योः ॥३॥
या धर्तारा रजसो रोचनस्योतादित्या दिव्या पार्थिवस्य ।
न वां देवा अमृता आ मिनन्ति व्रतानि मित्रावरुणा ध्रुवाणि ॥४॥
सायणभाष्यम्
‘त्री रोचना ' इति चतुर्ऋचं त्रयोदशं सूक्तम् । उरुचक्रिर्नामात्रेय ऋषिः । त्रिष्टुप् छन्दः । मित्रावरुणौ देवता । अनुक्रम्यते च - ‘ त्री रोचना चतुष्कमुरुचक्रिः' इति । विनियोगो लैङ्गिकः ॥
त्री रो॑च॒ना व॑रुण॒ त्रीँरु॒त द्यून्त्रीणि॑ मित्र धारयथो॒ रजां॑सि ।
वा॒वृ॒धा॒नाव॒मतिं॑ क्ष॒त्रिय॒स्यानु॑ व्र॒तं रक्ष॑माणावजु॒र्यम् ॥१
त्री । रो॒च॒ना । व॒रु॒ण॒ । त्रीन् । उ॒त । द्यून् । त्रीणि॑ । मि॒त्र॒ । धा॒र॒य॒थः॒ । रजां॑सि ।
व॒वृ॒धा॒नौ । अ॒मति॑म् । क्ष॒त्रिय॑स्य । अनु॑ । व्र॒तम् । रक्ष॑माणौ । अ॒जु॒र्यम् ॥१
त्री । रोचना । वरुण । त्रीन् । उत । द्यून् । त्रीणि । मित्र । धारयथः । रजांसि ।
ववृधानौ । अमतिम् । क्षत्रियस्य । अनु । व्रतम् । रक्षमाणौ । अजुर्यम् ॥१
हे वरुण हे "मित्र युवां "त्री त्रीणि “रोचना रोचनानि द्युलोकान् धारयथ इति संबन्धः । “उत अपि च “त्रीन् "द्यून् द्योतमानानन्तरिक्षलोकान् “धारयथः । तथा “त्रीणि “रजांसि भूलोकान् । कीदृशौ युवाम् । “वावृधानौ वर्धमानौ “क्षत्रियस्य । क्षत्रं बलम् । तद्वत इन्द्रस्य । यद्वा । क्षत्रियजातीयस्य यजमानस्य “अमतिम् । रूपनामैतत् । रूपं “व्रतं कर्म च "अजुर्यम् अजीर्णमविरतं वा “रक्षमाणौ ॥
इरा॑वतीर्वरुण धे॒नवो॑ वां॒ मधु॑मद्वां॒ सिन्ध॑वो मित्र दुह्रे ।
त्रय॑स्तस्थुर्वृष॒भास॑स्तिसॄ॒णां धि॒षणा॑नां रेतो॒धा वि द्यु॒मन्त॑ः ॥२
इरा॑ऽवतीः । व॒रु॒ण॒ । धे॒नवः॑ । वा॒म् । मधु॑ऽमत् । वा॒म् । सिन्ध॑वः । मि॒त्र॒ । दु॒ह्रे॒ ।
त्रयः॑ । त॒स्थुः॒ । वृ॒ष॒भासः॑ । ति॒सॄ॒णाम् । धि॒षणा॑नाम् । रे॒तः॒ऽधाः । वि । द्यु॒ऽमन्तः॑ ॥२
इराऽवतीः । वरुण । धेनवः । वाम् । मधुऽमत् । वाम् । सिन्धवः । मित्र । दुह्रे ।
त्रयः । तस्थुः । वृषभासः । तिसॄणाम् । धिषणानाम् । रेतःऽधाः । वि । द्युऽमन्तः ॥२
हे “वरुण हे “मित्र “वां युवयोराज्ञया “धेनवः गावः “इरावतीः । इरा क्षीरलक्षणा। तद्वत्यो भवन्ति । तथा “सिन्धवः स्यन्दनशीला मेघा नद्यो वा “मधुमत् मधुररसमुदकं "दुहे दुहन्ति । तथा “त्रयः त्रिसंख्याकाः “वृषभासः वर्षितारः “रेतोधाः उदकस्य धारकाः “द्युमन्तः दीप्तिमन्तोऽग्निवाय्वादित्याः “तिसॄणां त्रिसंख्याकानां “धिषणानां स्थानानां पृथिव्यन्तरिक्षद्युलोकानां स्वामिनः सन्तः “वि विविधं प्रत्येकं “तस्थुः तिष्ठन्ति । युवयोरनुग्रहात् त्रयोऽपि देवास्त्रिषु स्थानेषु वर्तन्ते इत्यर्थः ॥
प्रा॒तर्दे॒वीमदि॑तिं जोहवीमि म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य ।
रा॒ये मि॑त्रावरुणा स॒र्वता॒तेळे॑ तो॒काय॒ तन॑याय॒ शं योः ॥३
प्रा॒तः । दे॒वीम् । अदि॑तिम् । जो॒ह॒वी॒मि॒ । म॒ध्यन्दि॑ने । उत्ऽइ॑ता । सूर्य॑स्य ।
रा॒ये । मि॒त्रा॒व॒रु॒णा॒ । स॒र्वऽता॑ता । ईळे॑ । तो॒काय॑ । तन॑याय । शम् । योः ॥३
प्रातः । देवीम् । अदितिम् । जोहवीमि । मध्यन्दिने । उत्ऽइता । सूर्यस्य ।
राये । मित्रावरुणा । सर्वऽताता । ईळे । तोकाय । तनयाय । शम् । योः ॥३
अहमृषिः “प्रातः प्रातःकाले “अदितिम् अखण्डनीयां देवानां जननीं “देवीं द्योतमानां “जोहवीमि आह्वयामि । तथा “मध्यंदिने “सूर्यस्य “उदिता उदितौ तत्समृद्धिकाले माध्यंदिने सवने जोहवीमि । हे “मित्रावरुणा युवां “राये धनप्राप्तये सर्वतातौ यज्ञे “ईळे स्तौमि । पुनः किमर्थम् । “तोकाय पुत्राय “तनयाय तत्पुत्राय च "शम् अरिष्टशमनाय “योः सुखस्य मिश्रणाय चेळे इति ॥
या ध॒र्तारा॒ रज॑सो रोच॒नस्यो॒तादि॒त्या दि॒व्या पार्थि॑वस्य ।
न वां॑ दे॒वा अ॒मृता॒ आ मि॑नन्ति व्र॒तानि॑ मित्रावरुणा ध्रु॒वाणि॑ ॥४
या । ध॒र्तारा॑ । रज॑सः । रो॒च॒नस्य॑ । उ॒त । आ॒दि॒त्या । दि॒व्या । पार्थि॑वस्य ।
न । वा॒म् । दे॒वाः । अ॒मृताः॑ । आ । मि॒न॒न्ति॒ । व्र॒तानि॑ । मि॒त्रा॒व॒रु॒णा॒ । ध्रु॒वाणि॑ ॥४
या । धर्तारा । रजसः । रोचनस्य । उत । आदित्या । दिव्या । पार्थिवस्य ।
न । वाम् । देवाः । अमृताः । आ । मिनन्ति । व्रतानि । मित्रावरुणा । ध्रुवाणि ॥४
“या यौ “रोचनस्य रोचमानस्य “रजसः लोकस्य । स्वर्गाख्यस्येत्यर्थः । “उत अपि च “पार्थिवस्थ रजसः या यौ धर्तारौ “आदित्या अदितेः पुत्रौ "दिव्या दिवि भवौ तौ युवामीळे इति पूर्वत्र संबन्धः । हे “मित्रावरुणा “वां युवयोः “ध्रुवाणि “व्रतानि कर्माणि “देवाः अन्ये इन्द्रादयः “अमृताः अमरणधर्माणोऽपि “न “आ “मिनन्ति न हिंसन्ति । यतो ध्रुवाण्यत इत्यभिप्रायः ॥ ॥ ७ ॥
टिप्पणी
मण्डल ५ | ||||
---|---|---|---|---|