ऋग्वेदः सूक्तं ५.६८

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ५.६८ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ५.६७ ऋग्वेदः - मण्डल ५
सूक्तं ५.६८
यजत आत्रेयः
सूक्तं ५.६९ →
दे. मित्रावरुणौ। गायत्री ।


प्र वो मित्राय गायत वरुणाय विपा गिरा ।
महिक्षत्रावृतं बृहत् ॥१॥
सम्राजा या घृतयोनी मित्रश्चोभा वरुणश्च ।
देवा देवेषु प्रशस्ता ॥२॥
ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य ।
महि वां क्षत्रं देवेषु ॥३॥
ऋतमृतेन सपन्तेषिरं दक्षमाशाते ।
अद्रुहा देवौ वर्धेते ॥४॥
वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः ।
बृहन्तं गर्तमाशाते ॥५॥


सायणभाष्यम्

‘ प्र वो मित्राय ' इति पञ्चर्चं द्वादशं सूक्तमात्रेयस्य यजतस्यार्षं गायत्रं मैत्रावरुणम् । तथा चानुक्रम्यते-- ‘ प्र वो गायत्रम् ' इति । अग्निष्टोमे प्रातःसवने मैत्रावरुणशस्त्रे एतत्सूक्तम् । सूत्रितं च- प्र वो मित्राय प्र मित्रयोर्वरुणयोः ' ( आश्व. श्रौ. ५. १० ) इति । अभिप्लवषडहे पृष्ठ्यषडहे च स्तोमनिमित्तावापार्थमिदमादीनि द्वितीयवर्जितानि चत्वारि सूक्तानि । तथैव सूत्रितं-- ‘ प्र वो मित्रायेति चतुर्णां द्वितीयमुद्धरेत् ' ( आश्व.श्रौ.. ७. ५) इति ॥


प्र वो॑ मि॒त्राय॑ गायत॒ वरु॑णाय वि॒पा गि॒रा ।

महि॑क्षत्रावृ॒तं बृ॒हत् ॥१

प्र । वः॒ । मि॒त्राय॑ । गा॒य॒त॒ । वरु॑णाय । वि॒पा । गि॒रा ।

महि॑ऽक्षत्रौ । ऋ॒तम् । बृ॒हत् ॥१

प्र । वः । मित्राय । गायत । वरुणाय । विपा । गिरा ।

महिऽक्षत्रौ । ऋतम् । बृहत् ॥१

हे मदीया ऋत्विजः “वः । यूयमित्यर्थः । “मित्राय “वरुणाय च “विपा व्याप्तया “गिरा स्तुत्या “प्र “गायत स्तुतिं कुरुत । स्तुत्या स्तुवतेत्येतत् पाकं पचतीतिवत् । हे “महिक्षत्रौ प्रभूतबलौ युवाम् “ऋतं यज्ञं “बृहत् महत् अतिप्रशस्तम् । स्तुत्यर्थमागच्छतमिति शेषः । अथवा महत प्रभूतम् ऋतं स्तोत्रं शृणुतमिति शेषः ॥


स॒म्राजा॒ या घृ॒तयो॑नी मि॒त्रश्चो॒भा वरु॑णश्च ।

दे॒वा दे॒वेषु॑ प्रश॒स्ता ॥२

स॒म्ऽराजा॑ । या । घृ॒तयो॑नी॒ इति॑ घृ॒तऽयो॑नी । मि॒त्रः । च॒ । उ॒भा । वरु॑णः । च॒ ।

दे॒वा । दे॒वेषु॑ । प्र॒ऽश॒स्ता ॥२

सम्ऽराजा । या । घृतयोनी इति घृतऽयोनी । मित्रः । च । उभा । वरुणः । च ।

देवा । देवेषु । प्रऽशस्ता ॥२

"या यौ “मित्रश्च “वरुणश्च । परस्परापेक्षया चशब्दः । “उभा उभौ “सम्राजा सर्वस्य स्वामिनौ “घृतयोनी उदकस्योत्पादकौ "देवा द्योतमानौ “देवेषु मध्ये “प्रशस्ता प्रकर्षेण स्तुत्यौ । तौ गायतेति पूर्वत्रान्वयः ॥


ता न॑ः शक्तं॒ पार्थि॑वस्य म॒हो रा॒यो दि॒व्यस्य॑ ।

महि॑ वां क्ष॒त्रं दे॒वेषु॑ ॥३

ता । नः॒ । श॒क्त॒म् । पार्थि॑वस्य । म॒हः । रा॒यः । दि॒व्यस्य॑ ।

महि॑ । वा॒म् । क्ष॒त्रम् । दे॒वेषु॑ ॥३

ता । नः । शक्तम् । पार्थिवस्य । महः । रायः । दिव्यस्य ।

महि । वाम् । क्षत्रम् । देवेषु ॥३

“ता तौ देवौ “नः अस्मदर्थं “पार्थिवस्य पृथिवीसंबद्धस्य "दिव्यस्य दिवि भवस्य च “महः। महतः “रायः धनस्य “शक्तं समर्थौ भवतम् । दातुमिति शेषः । हे देवौ “वां युवयोः “महि महत् पूज्यं “क्षत्रं बलं "देवेषु प्रसिद्धं स्तुम इति शेषः ॥


ऋ॒तमृ॒तेन॒ सप॑न्तेषि॒रं दक्ष॑माशाते ।

अ॒द्रुहा॑ दे॒वौ व॑र्धेते ॥४

ऋ॒तम् । ऋ॒तेन॑ । सप॑न्ता । इ॒षि॒रम् । दक्ष॑म् । आ॒शा॒ते॒ इति॑ ।

अ॒द्रुहा॑ । दे॒वौ । व॒र्धे॒ते॒ इति॑ ॥४

ऋतम् । ऋतेन । सपन्ता । इषिरम् । दक्षम् । आशाते इति ।

अद्रुहा । देवौ । वर्धेते इति ॥४

“ऋतेन उदकेन निमित्तेन “ऋतं यज्ञं “सपन्ता स्पृशन्तौ “इषिरम् एषणवन्तं “दक्षं प्रवृद्धं यजमानं हविर्वा “आशाते व्याप्नुतः । “अद्रुहा अद्रोग्धारौ “देवौ मित्रावरुणौ युवां “वर्धेते प्रवृद्धौ भवतः ॥


वृ॒ष्टिद्या॑वा री॒त्या॑पे॒षस्पती॒ दानु॑मत्याः ।

बृ॒हन्तं॒ गर्त॑माशाते ॥५

वृ॒ष्टिऽद्या॑वा । री॒तिऽआ॑पा । इ॒षः । पती॒ इति॑ । दानु॑ऽमत्याः ।

बृ॒हन्त॑म् । गर्त॑म् । आ॒शा॒ते॒ इति॑ ॥५

वृष्टिऽद्यावा । रीतिऽआपा । इषः । पती इति । दानुऽमत्याः ।

बृहन्तम् । गर्तम् । आशाते इति ॥५

"वृष्टिद्यावा । वृष्ट्यर्था द्यौः स्तुतिर्ययोस्तौ वृष्टिद्यावा । अथवा वृष्टिर्वर्षिका द्यौरन्तरिक्षं याभ्यां तौ तादृशौ । 'रीत्यापा ॥ री गतिरेषणयोः ॥ रीतिः प्राप्तिः । सैव आपा आप्तिः अभिमतप्राप्तिर्ययोस्तौ तादृशौ । “इषः अन्नस्य “पती स्वामिनौ । वृष्टिप्रदत्वात् स्वामित्वम् । “दानुमत्याः दानवत्याः । दातुमुचितायाः इत्यर्थः । एतदिड्विशेषणम् । एवं महानुभावौ "बृहन्तं महान्तं “गर्तं रथम् "आशाते व्याप्नुतः । अधितिष्ठतो यागार्थम् ॥ ॥ ६ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.६८&oldid=199745" इत्यस्माद् पुनः प्राप्तिः