ऋग्वेदः सूक्तं ५.३७
← सूक्तं ५.३६ | ऋग्वेदः - मण्डल ५ सूक्तं ५.३७ भौमोऽत्रिः |
सूक्तं ५.३८ → |
दे. इन्द्रः। त्रिष्टुप् |
सं भानुना यतते सूर्यस्याजुह्वानो घृतपृष्ठः स्वञ्चाः ।
तस्मा अमृध्रा उषसो व्युच्छान्य इन्द्राय सुनवामेत्याह ॥१॥
समिद्धाग्निर्वनवत्स्तीर्णबर्हिर्युक्तग्रावा सुतसोमो जराते ।
ग्रावाणो यस्येषिरं वदन्त्ययदध्वर्युर्हविषाव सिन्धुम् ॥२॥
वधूरियं पतिमिच्छन्त्येति य ईं वहाते महिषीमिषिराम् ।
आस्य श्रवस्याद्रथ आ च घोषात्पुरू सहस्रा परि वर्तयाते ॥३॥
न स राजा व्यथते यस्मिन्निन्द्रस्तीव्रं सोमं पिबति गोसखायम् ।
आ सत्वनैरजति हन्ति वृत्रं क्षेति क्षितीः सुभगो नाम पुष्यन् ॥४॥
पुष्यात्क्षेमे अभि योगे भवात्युभे वृतौ संयती सं जयाति ।
प्रियः सूर्ये प्रियो अग्ना भवाति य इन्द्राय सुतसोमो ददाशत् ॥५॥
सायणभाष्यम्
‘सं भानुना' इति पञ्चर्चं पञ्चमं सूक्तमत्रेरार्षं त्रैष्टुभमैन्द्रम् । 'सं भानुना पञ्चात्रिः' इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ।।
सं भा॒नुना॑ यतते॒ सूर्य॑स्या॒जुह्वा॑नो घृ॒तपृ॑ष्ठ॒ः स्वञ्चाः॑ ।
तस्मा॒ अमृ॑ध्रा उ॒षसो॒ व्यु॑च्छा॒न्य इन्द्रा॑य सु॒नवा॒मेत्याह॑ ॥१
सम् । भा॒नुना॑ । य॒त॒ते॒ । सूर्य॑स्य । आ॒ऽजुह्वा॑नः । घृ॒तऽपृ॑ष्ठः । सु॒ऽअञ्चाः॑ ।
तस्मै॑ । अमृ॑ध्राः । उ॒षसः॑ । वि । उ॒च्छा॒न् । यः । इन्द्रा॑य । सु॒नवा॑म । इति॑ । आह॑ ॥१
सम् । भानुना । यतते । सूर्यस्य । आऽजुह्वानः । घृतऽपृष्ठः । सुऽअञ्चाः ।
तस्मै । अमृध्राः । उषसः । वि । उच्छन् । यः । इन्द्राय । सुनवाम । इति । आह ॥ १ ॥
“सूर्यस्य “भानुना तेजसा सह "आजुह्वानः सर्वत्र हूयमानः ॥ कर्मणि कर्तृप्रत्ययः ॥ "घृतपृष्ठः प्रदीप्तज्वालो घृतयुक्तपृष्ठप्रदेशो वा “स्वञ्चाः स्वञ्चनोऽग्निः “सं “यतते सम्यक् प्रयत्नं करोति । उदयकाले ह्यग्नयः प्रज्वाल्यन्ते । तस्मात् कारणात् “यः यजमानः “इन्द्राय “सुनवामेत्याह ब्रूतेऽध्वर्युं प्रति “तस्मै यजमानाय "अमृध्राः अहिंसिताः “उषसः “व्युच्छान् व्युच्छन्तु । उदयकालेऽग्निः प्रज्वालितस्तस्मात् सोमयागं कुर्म इति यो ब्रूते तस्य सुदिनानि भवन्तीत्यर्थः ॥
समि॑द्धाग्निर्वनवत्स्ती॒र्णब॑र्हिर्यु॒क्तग्रा॑वा सु॒तसो॑मो जराते ।
ग्रावा॑णो॒ यस्ये॑षि॒रं वद॒न्त्यय॑दध्व॒र्युर्ह॒विषाव॒ सिन्धु॑म् ॥२
समि॑द्धऽअग्निः । व॒न॒व॒त् । स्ती॒र्णऽब॑र्हिः । यु॒क्तऽग्रा॑वा । सु॒तऽसो॑मः । ज॒रा॒ते॒ ।
ग्रावा॑णः । यस्य॑ । इ॒षि॒रम् । वद॑न्ति । अय॑त् । अ॒ध्व॒र्युः । ह॒विषा॑ । अव॑ । सिन्धु॑म् ॥२
समिद्धऽअग्निः । वनवत् । स्तीर्णऽबर्हिः । युक्तऽग्रावा । सुतऽसोमः । जराते ।
ग्रावाणः । यस्य । इषिरम् । वदन्ति । अयत् । अध्वर्युः । हविषा । अव । सिन्धुम् ।। २ ।।
“समिद्धाग्निः प्रदीप्ताग्निः “स्तीर्णबर्हिः प्रस्तृतदर्भोऽयं यजमानः “वनवत् संभजते । “युक्तग्रावा नियुक्ताभिषवपाषाणः “सुतसोमः अभिषुतसोमः "जराते जरति स्तौति । "यस्य अध्वर्योः “ग्रावाणः अभिषवसाधनाः “इषिरम् एषणीयं गमनशीलं वा शब्दं "वदन्ति सः “अध्वर्युर्हविषा सह “अव “अयत् “सिन्धुम् । पन्नेजनीः अवगच्छति ।।
व॒धूरि॒यं पति॑मि॒च्छन्त्ये॑ति॒ य ईं॒ वहा॑ते॒ महि॑षीमिषि॒राम् ।
आस्य॑ श्रवस्या॒द्रथ॒ आ च॑ घोषात्पु॒रू स॒हस्रा॒ परि॑ वर्तयाते ॥३
व॒धूः । इ॒यम् । पति॑म् । इ॒च्छन्ती॑ । ए॒ति॒ । यः । ई॒म् । वहा॑ते । महि॑षीम् । इ॒षि॒राम् ।
आ । अ॒स्य॒ । श्र॒व॒स्या॒त् । रथः॑ । आ । च॒ । घो॒षा॒त् । पु॒रु । स॒हस्रा॑ । परि॑ । व॒र्त॒या॒ते॒ ॥३
वधूः । इयम् । पतिम् । इच्छन्ती । एति । यः । ईम् । वहाते । महिषीम् । इषिराम् ।
आ । अस्य । श्रवस्यात् । रथः । आ । च । घोषात् । पुरु । सहस्रा । परि । वर्तयाते ॥ ३ ॥
"इयं “वधूः इन्द्रस्य पत्नी पतिमिच्छन्ती स्वप्रियं यज्ञगमनाय प्रवृत्तमिच्छन्ती “ऐति अनुगच्छति । “यः “इन्द्रः "ईम् एनां “महिषीं “वहाते वहति “इषिरां गमनवतीम् “अस्य इन्द्रस्य “रथः “आ अर्वागस्मदभिमुखं “श्रवस्यात् अन्नमिच्छति । “आ “च “घोषात् आघुष्यति । शब्दयति । “पुरु अत्यधिकं “सहस्रा सहस्राणि धनानि “परि परितः "वर्तयाते वर्तयति । प्रापयति । श्रवस्यादा च घुष्यादिति वा ॥
न स राजा॑ व्यथते॒ यस्मि॒न्निन्द्र॑स्ती॒व्रं सोमं॒ पिब॑ति॒ गोस॑खायम् ।
आ स॑त्व॒नैरज॑ति॒ हन्ति॑ वृ॒त्रं क्षेति॑ क्षि॒तीः सु॒भगो॒ नाम॒ पुष्य॑न् ॥४
न । सः । राजा॑ । व्य॒थ॒ते॒ । यस्मि॑न् । इन्द्रः॑ । ती॒व्रम् । सोम॑म् । पिब॑ति । गोऽस॑खायम् ।
आ । स॒त्व॒नैः । अज॑ति । हन्ति॑ । वृ॒त्रम् । क्षेति॑ । क्षि॒तीः । सु॒ऽभगः॑ । नाम॑ । पुष्य॑न् ॥४
न । सः । राजा । व्यथते । यस्मिन् । इन्द्रः । तीव्रम् । सोमम् । पिबति । गोऽसखायम् ।
आ । सत्वनैः । अजति । हन्ति । वृत्रम् । क्षेति । क्षितीः । सुऽभगः । नाम । पुष्यन् ॥ ४ ॥
“स “राजा “न “व्यथते व्यथितो न भवति । “यस्मिन् राजनि तदीये यज्ञे “इन्द्रः “तीव्रं मदजनकं "सोमं “पिबति “गोसखायम् । विकारे प्रकृतिशब्दः । क्षीरादिमिश्रणवन्तम् । स राजा “सत्वनैः सत्वभिरनुचरैः “आ सर्वतः “अजति गच्छति । हन्ति च “वृत्रं पापं वैरिणं वा ।। “क्षेति गच्छति “क्षितीः प्रजाः । अथवा क्षितीर्निवासान्निवसते । “सुभगः शोभनसुखः “नाम नामकं धनमिन्द्रस्य स्तोत्रं वा “पुष्यन् पोषयन् ॥
पुष्या॒त्क्षेमे॑ अ॒भि योगे॑ भवात्यु॒भे वृतौ॑ संय॒ती सं ज॑याति ।
प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वाति॒ य इन्द्रा॑य सु॒तसो॑मो॒ ददा॑शत् ॥५
पुष्या॑त् । क्षेमे॑ । अ॒भि । योगे॑ । भ॒वा॒ति॒ । उ॒भे इति॑ । वृतौ॑ । सं॒य॒ती इति॑ स॒म्ऽय॒ती । सम् । ज॒या॒ति॒ ।
प्रि॒यः । सूर्ये॑ । प्रि॒यः । अ॒ग्ना । भ॒वा॒ति॒ । यः । इन्द्रा॑य । सु॒तऽसो॑मः । ददा॑शत् ॥५
पुष्यात् । क्षेमे । अभि । योगे । भवाति । उभे इति । वृतौ । संयती इति सम्ऽयती । सम् । जयाति ।।
प्रियः । सूर्ये । प्रियः । अग्ना । भवाति । यः । इन्द्राय । सुतऽसोमः । ददाशत् ॥ ५ ॥
“पुष्यात् पोषयेत् बन्ध्वादीन् । क्षेमे प्राप्तस्य धनस्य रक्षणे योगे अलब्धस्य प्राप्तौ च "अभि “भवाति भवति । अभीयत्यनर्थको धात्वर्थानुवादी वा । प्रभुर्भवतीत्यर्थः । तथा “उभे “वृतौ वर्तमाने “संयती नियते अहोरात्रे “सं जयाति सम्यक् जयति । ते सुखकरे स्यातामित्यर्थः । किंच सः “प्रियः भवति "सूर्ये तथा “अग्ना अग्नौ "प्रियः भवति “य “इन्द्राय “सुतसोमो “ददाशत् सोमं ददाति ॥ ॥ ८ ॥
मण्डल ५ | ||||
---|---|---|---|---|