रामायणम्/युद्धकाण्डम्/सर्गः ११७
← सर्गः ११६ | रामायणम् सर्गः ११७ वाल्मीकिः |
सर्गः ११८ → |
स उवाच महाप्राज्ञमभिगम्य प्लवङ्गमः ।
रामं वचनमर्थज्ञो वरं सर्वधनुष्मताम् ।। ६.११७.१ ।।
यन्निमित्तो ऽयमारम्भः कर्मणां च फलोदयः ।
तां देवीं शोकसन्तप्तां मैथिलीं द्रष्टुमर्हसि ।। ६.११७.२ ।।
सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा ।
मैथिली विजयं श्रुत्वा तव हर्षमुपागमत् ।। ६.११७.३ ।।
पूर्वकात् प्रत्ययाच्चाहमुक्तो विश्वस्तया तया ।
भर्तारं द्रष्टुमिच्छामि कृतार्थं सहलक्ष्मणम् ।। ६.११७.४ ।।
एवमुक्तो हनुमता रामो धर्मभृतां वरः ।
अगच्छत् सहसा ध्यानमीषद्बाष्पपरिप्लुतः ।। ६.११७.५ ।।
दीर्घमुष्णं विनिश्वस्य मेदिनीमवलोकयन् ।
उवाच मेघसङ्काशं विभीषणमुपस्थितम् ।। ६.११७.६ ।।
दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम् ।
इह सीतां शिरस्स्नातामुपस्थापय मा चिरम् ।। ६.११७.७ ।।
एवमुक्तस्तु रामेण त्वरमाणो विभीषणः ।
प्रविश्यान्तःपुरं सीतां स्वाभिः स्त्रीभिरचोदयत् ।। ६.११७.८ ।।
दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता ।
यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति ।। ६.११७.९ ।।
एवमुक्ता तु वेदेही प्रत्युवाच विभीषणम् ।
अस्नाता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप ।। ६.११७.१० ।।
तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः ।
यदाह राजा भर्ता ते तत्तथा कर्तुमर्हसि ।। ६.११७.११ ।।
तस्य तद्वचनं श्रुत्वा मैथिली भर्तृदेवता ।
भर्तृभक्तिव्रता साध्वी तथेति प्रत्यभाषत ।। ६.११७.१२ ।।
ततः सीतां शिरस्स्नातां युवतीभिरलङ्कृताम् ।
महार्हाभरणोपेतां महार्हाम्बरधारिणीम् ।। ६.११७.१३ ।।
आरोप्य शिबिकां दीप्तां परार्ध्याम्बरसंवृताम् ।
रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः ।। ६.११७.१४ ।।
सो ऽभिगम्य महात्मानं ज्ञात्वा ऽपि ध्यानमास्थितम् ।
प्रणतश्च प्रहृष्टश्च प्राप्तं सीतां न्यवेदयत् ।। ६.११७.१५ ।।
तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम् ।
हर्षो दैन्यं च रोषश्च त्रयं राघवमाविशत् ।। ६.११७.१६ ।।
ततः पार्श्वगतं दृष्ट्वा सविमर्शं विचारयन् ।
विभीषणमिदं वाक्यमहृष्टं राघवो ऽब्रवीत् ।। ६.११७.१७ ।।
राक्षसाधिपते सौम्य नित्यं मद्विजये रत ।
वैदेही सन्निकर्षं मे शीघ्रं समुपगच्छतु ।। ६.११७.१८ ।।
स तद्वचनमाज्ञाय राघवस्य विभीषणः ।
तूर्णमुत्सारणे यत्नं कारयामास सर्वतः ।। ६.११७.१९ ।।
कञ्चुकोष्णीषिणस्तत्र वेत्रजर्जरपाणयः ।
उत्सारयन्तः पुरुषाः समन्तात् परिचक्रमुः ।। ६.११७.२० ।।
ऋक्षाणां वानराणां च राक्षसानां च सर्वशः ।
वृन्दान्युत्सार्यमाणानि दूरमुत्ससृजुस्तदा ।। ६.११७.२१ ।।
तेषामुत्सार्यमाणानां सर्वेषां ध्वनिरुत्थितः ।
वायुनोद्वर्तमानस्य सागरस्येव निस्वनः ।। ६.११७.२२ ।।
उत्सार्यमाणांस्तान् दृष्ट्वा समन्ताज्जातसम्भ्रमान् ।
दाक्षिण्यात्तदमर्षाच्च वारयामास राघवः ।। ६.११७.२३ ।।
संरब्धश्चाब्रवीद्रामश्चक्षुषा प्रदहन्निव ।
विभीषणं महाप्राज्ञं सोपालम्भमिदं वचः ।। ६.११७.२४ ।।
किमर्थं मामनादृत्य क्लिश्यते ऽयं त्वया जनः ।
निवर्तयैनमुद्योगं जनो ऽयं स्वजनो मम ।। ६.११७.२५ ।।
न गृहाणि न वस्त्राणि न प्राकारास्तिरस्क्रियाः ।
नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियाः ।। ६.११७.२६ ।।
व्यसनेषु न कृच्छ्रेषु न युद्धेषु स्वयंवरे ।
न क्रुतौ न विवाहे च दर्शनं दुष्यति स्त्रियाः ।। ६.११७.२७ ।।
सैषा युद्धगता चैव कृच्छ्रे च महति स्थिता ।
दर्शने ऽस्या न दोषः स्यान्मत्समीपे विशेषतः ।। ६.११७.२८ ।।
तदानय समीपं मे शीघ्रमेनां विभीषण ।
सीता पश्यतु मामेषा सुहृद्गणवृतं स्थितम् ।। ६.११७.२९ ।।
एवमुक्तस्तु रामेण सविमर्शो विभीषणः ।
रामस्योपानयत् सीतां सन्निकर्षं विनीतवत् ।। ६.११७.३० ।।
ततो लक्ष्मणसुग्रीवौ हनुमांश्च प्लवङ्गमः ।
निशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम् ।। ६.११७.३१ ।।
कलत्रनिरपेक्षैश्च इङ्गितैरस्य दारुणैः ।
अप्रीतमिव सीतायां तर्कयन्ति स्म राघवम् ।। ६.११७.३२ ।।
लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली ।
विभीषणेनानुगता भर्तारं सा ऽभ्यवर्तत ।। ६.११७.३३ ।।
सा वस्त्रसंरुद्धमुखी लज्जया जनसंसदि ।
रुरोदासाद्य भर्तारमार्यपुत्रेति भाषिणी ।। ६.११७.३४ ।।
विस्मयाच्च प्रहर्षाच्च स्नेहाच्च पतिदेवता ।
उदैक्षत मुखं भर्तुः सौम्यं सोम्यतरानना ।। ६.११७.३५ ।।
अथ समपनुदन्मनःक्लमं सा सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य ।
वदनमुदितपूर्णचन्द्रकान्तं विमलशशाङ्कनिभानना तदानीम् ।। ६.११७.३६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तदशोत्तरशततमः सर्गः ।। ११७ ।।