रामायणम्/युद्धकाण्डम्/सर्गः २८

विकिस्रोतः तः
Jump to navigation Jump to search
रामायणम्/युद्धकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११
  112. सर्गः ११२
  113. सर्गः ११३
  114. सर्गः ११४
  115. सर्गः ११५
  116. सर्गः ११६
  117. सर्गः ११७
  118. सर्गः ११८
  119. सर्गः ११९
  120. सर्गः १२०
  121. सर्गः १२१
  122. सर्गः १२२
  123. सर्गः १२३
  124. सर्गः १२४
  125. सर्गः १२५
  126. सर्गः १२६
  127. सर्गः १२७
  128. सर्गः १२८
  129. सर्गः १२९
  130. सर्गः १३०
  131. सर्गः १३१

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टाविंशः सर्गः ॥६-२८॥

सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम्
बलमालोकयन्सर्वं शुको वाक्यमथाब्रवीत् १
स्थितान्पश्यसि यानेतान्मत्तानिव महाद्विपान्
न्यग्रोधानिव गाङ्गेयान्सालान्हैमवतानिव २
एते दुष्प्रसहा राजन्बलिनः कामरूपिणः
दैत्यदानवसंकाशा युद्धे देवपराक्रमाः ३
एषां कोटिसहस्राणि नव पञ्च च सप्त च
तथा शङ्कुसहस्राणि तथा वृन्दशतानि च ४
एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा
हरयो देवगन्धर्वैरुत्पन्नाः कामरूपिणः ५
यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ
मैन्दश्च द्विविदश्चोभौ ताभ्यां नास्ति समो युधि ६
ब्रह्मणा समनुज्ञातावमृतप्राशिनावुभौ
आशंसेते युधा लङ्कामेतौ मर्दितुमोजसा ७
यावेतावेतयोः पार्श्वे स्थितौ पर्वतसंनिभौ
सुमुखो विमुखश्चैव मृत्युपुत्रौ पितुः समौ ८
यं तु पश्यसि तिष्ठन्तं प्रभिन्नमिव कुञ्जरम्
यो बलात्क्षोभयेत्क्रुद्धः समुद्र मपि वानरः ९
एषोऽभिगन्ता लङ्काया वैदेह्यास्तव च प्रभो
एनं पश्य पुरा दृष्टं वानरं पुनरागतम् १०
ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः
हनूमानिति विख्यातो लङ्घितो येन सागरः ११
कामरूपी हरिश्रेष्ठो बलरूपसमन्वितः
अनिवार्यगतिश्चैव यथा सततगः प्रभुः १२
उद्यन्तं भास्करं दृष्ट्वा बालः किल पिपासितः
त्रियोजनसहस्रं तु अध्वानमवतीर्य हि १३
आदित्यमाहरिष्यामि न मे क्षुत्प्रतियास्यति
इति संचिन्त्य मनसा पुरैष बलदर्पितः १४
अनाधृष्यतमं देवमपि देवर्षिदानवैः
अनासाद्यैव पतितो भास्करोदयने गिरौ १५
पतितस्य कपेरस्य हनुरेका शिलातले
किंचिद्भिन्ना दृढहनोर्हनूमानेष तेन वै १६
सत्यमागमयोगेन ममैष विदितो हरिः
नास्य शक्यं बलं रूपं प्रभावो वानुभाषितुम्
एष आशंसते लङ्कामेको मर्दितुमोजसा १७
यश्चैषोऽनन्तरः शूरः श्यामः पद्मनिभेक्षणः
इक्ष्वाकूणामतिरथो लोके विख्यातपौरुषः १८
यस्मिन्न चलते धर्मो यो धर्मं नातिवर्तते
यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः १९
यो भिन्द्याद्गगनं बाणैः पर्वतांश्चापि दारयेत्
यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः २०
यस्य भार्या जनस्थानात्सीता चापहृता त्वया
स एष रामस्त्वां योद्धुं राजन्समभिवर्तते २१
यश्चैष दक्षिणे पार्श्वे शुद्धजाम्बूनदप्रभः
विशालवक्षास्ताम्राक्षो नीलकुञ्चितमूर्धजः २२
एषोऽस्य लक्ष्मणो नाम भ्राता प्राणसमः प्रियः
नये युद्धे च कुशलः सर्वशास्त्रविशारदः २३
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान्बली
रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः २४
न ह्येष राघवस्यार्थे जीवितं परिरक्षति
एषैवाशंसते युद्धे निहन्तुं सर्वराक्षसान् २५
यस्तु सव्यमसौ पक्षं रामस्याश्रित्य तिष्ठति
रक्षोगणपरिक्षिप्तो राजा ह्येष विभीषणः २६
श्रीमता राजराजेन लङ्कायामभिषेचितः
त्वामेव प्रतिसंरब्धो युद्धायैषोऽभिवर्तते २७
यं तु पश्यसि तिष्ठन्तं मध्ये गिरिमिवाचलम्
सर्वशाखामृगेन्द्रा णां भर्तारमपराजितम् २८
तेजसा यशसा बुद्ध्या ज्ञानेनाभिजनेन च
यः कपीनति बभ्राज हिमवानिव पर्वतान् २९
किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम्
दुर्गां पर्वतदुर्गस्थां प्रधानैः सह यूथपैः ३०
यस्यैषा काञ्चनी माला शोभते शतपुष्करा
कान्ता देवमनुष्याणां यस्यां लक्ष्मीः प्रतिष्ठिता ३१
एतां च मालां तारां च कपिराज्यं च शाश्वतम्
सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः ३२
एवं कोटिसहस्रेण शङ्कूनां च शतेन च
सुग्रीवो वानरेन्द्रस्त्वां युद्धार्थमभिवर्तते ३३
इमां महाराज समीक्ष्य वाहिनी
मुपस्थितां प्रज्वलितग्रहोपमाम्
ततः प्रयत्नः परमो विधीयतां
यथा जयः स्यान्न परैः पराजयः ३४


सन्धिरहित पाठः

सारणस्य वचः श्रुत्वा रावणम् राक्षस अधिपम् ।
बलम् आलोकयन् सर्वम् शुको वाक्यम् अथ अब्रवीत् ॥६-२८-१॥

स्थितान् पश्यसि यान् एतान् मत्तान् इव महाद्विपान् ।
न्यग्रोधान् इव गान्गेयान् सालान् हैमवतीन् इव ॥६-२८-२॥

एते दुष्प्रसहा राजन् बलिनः काम रूपिणः ।
दैत्य दानव सम्काशा युद्धे देव पराक्रमाः ॥६-२८-३॥

एषाम् कोटि सहस्राणि नव पन्च च सप्त च ।
तथा शन्ख सहस्राणि तथा वृन्द शतानि च ॥६-२८-४॥

एते सुग्रीव सचिवाः किष्किन्धा निलयाः सदा ।
हरयो देव गन्धर्वैर् उत्पन्नाः काम रूपिणः ॥६-२८-५॥

यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देव रूपिणौ ।
मैन्दः च द्विविदः च उभौ ताभ्याम् न अस्ति समो युधि ॥६-२८-६॥

ब्रह्मणा समनुज्ञाताव् अमृत प्राशिनाव् उभौ ।
आशम्सेते युधा लंकाम् एतौ मर्दितुम् ओजसा ॥६-२८-७॥

यम् तु पश्यसि तिष्ठन्तम् प्रभिन्नम् इव कुन्जरम् ।
यो बलात् क्षोभयेत् क्रुद्धः समुद्रम् अपि वानरः ॥६-२८-८॥

एषो अभिगन्ता लंकाया वैदेह्यास् तव च प्रभो ।
एनम् पश्य पुरा दृष्टम् वानरम् पुनर् आगतम् ॥६-२८-९॥

ज्येष्ठः केसरिणः पुत्रो वात आत्मज इति श्रुतः ।
हनूमान् इति विख्यातो लन्घितो येन सागरः ॥६-२८-१०॥

काम रूपी हरि श्रेष्ठो बल रूप समन्वितः ।
अनिवार्य गतिः चैव यथा सततगः प्रभुः ॥६-२८-११॥

उद्यन्तम् भास्करम् दृष्ट्वा बालः किल पिपासितः ।
त्रियोजन सहस्रम् तु अध्वानम् अवतीर्य हि ॥६-२८-१२॥

आदित्यम् आहरिष्यामि न मे क्षुत् प्रतियास्यति ।
इति सम्चिन्त्य मनसा पुरा एष बल दर्पितः ॥६-२८-१३॥

अनाधृष्यतमम् देवम् अपि देव ऋषि दानवैः ।
अनासाद्य एव पतितो भास्कर उदयने गिरौ ॥६-२८-१४॥

पतितस्य कपेर् अस्य हनुर् एका शिला तले ।
किम्चिद् भिन्ना दृढ हनोर् हनूमान् एष तेन वै ॥६-२८-१५॥

सत्यम् आगम योगेन मम एष विदितो हरिः ।
न अस्य शक्यम् बलम् रूपम् प्रभावो वा अनुभाषितुम् ॥६-२८-१६॥

एष आशम्सते लंकाम् एको मर्दितुम् ओजसा ।
येव जाज्वल्यतेऽसौ वै धूमकेतुस्तवाद्य वै ॥६-२८-१७॥

लंकायाम् निहितश्चापि कथम् विस्मरसे कपिम् ।
यः च एषो अनन्तरः शूरः श्यामः पद्म निभ ईक्षणः ॥६-२८-१८॥

इक्ष्वाकूणाम् अतिरथो लोके विख्यात पौरुषः ।
यस्मिन् न चलते धर्मो यो धर्मम् न अतिवर्तते ॥६-२८-१९॥

यो ब्राह्मम् अस्त्रम् वेदांश्च वेद वेदविदां वरः ।
यो भिन्द्याद् गगनम् बाणैः पर्वतां च अपि दारयेत् ॥६-२८-२०॥

यस्य मृत्योर् इव क्रोधः शक्रस्य इव पराक्रमः ।
यस्य भार्या जन्स्थानात्सीता चापि हृता त्वया ॥६-२८-२१॥

स एष रामस् त्वाम् योद्धुम् राजन् समभिवर्तते ।
यः च एष दक्षिणे पार्श्वे शुद्ध जाम्बू नद प्रभः ॥६-२८-२२॥

विशाल वक्षास् ताम्र अक्षो नील कुन्चित मूर्धजः ।
एषो अस्य लक्ष्मणो नाम भ्राता प्राण समः प्रियः ॥६-२८-२३॥

नये युद्धे च कुशलः सर्व शास्त्रभृताम् वरः ।
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ॥६-२८-२४॥

रामस्य दक्षिणो बाहुर् नित्यम् प्राणो बहिः चरः ।
न हि एष राघवस्य अर्थे जीवितम् परिरक्षति ॥६-२८-२५॥

एष एव आशम्सते युद्धे निहन्तुम् सर्व राक्षसान् ।
यस् तु सव्यम् असौ पक्षम् रामस्य आश्रित्य तिष्ठति ॥६-२८-२६॥

रक्षो गण परिक्षिप्तो राजा हि एष विभीषणः ।
श्रीमता राज राजेन लंकायाम् अभिषेचितः ॥६-२८-२७॥

त्वाम् एव प्रतिसंरब्धो युद्धाय एषो अभिवर्तते ।
यम् तु पश्यसि तिष्ठन्तम् मध्ये गिरिम् इव अचलम् ॥६-२८-२८॥

सर्व शाखा मृग इन्द्राणाम् भर्तारम् अपराजितम् ।
तेजसा यशसा बुद्ध्या ज्ञानेन अभिजनेन च ॥६-२८-२९॥

यः कपीन् अति बभ्राज हिमवान् इव पर्वतान् ।
किष्किन्धाम् यः समध्यास्ते गुहाम् सगहन द्रुमाम् ॥६-२८-३०॥

दुर्गाम् पर्वत दुर्गस्थाम् प्रधानैः सह यूथपैः ।
यस्य एषा कान्चनी माला शोभते शत पुष्करा ॥६-२८-३१॥

कान्ता देव मनुष्याणाम् यस्याम् लक्ष्मीः प्रतिष्ठिता ।
एताम् च मालाम् ताराम् च कपि राज्यम् च शाश्वतम् ॥६-२८-३२॥

सुग्रीवो वालिनम् हत्वा रामेण प्रतिपादितः ।
शतम् शतसहस्राणाम् कोटिमाहुर्मनीषिणः ॥६-२८-३३॥

शतम् कोटिसहस्राणाम् शङ्कुरित्यभिधीयते ।
शतम् शङ्कुसहस्राणाम् महाशङ्कुरिति स्मृतः ॥६-२८-३४॥

महाशङ्क्य्सहस्राणाम् शतम् वृन्दमिहोच्यते ।
शतम् नृन्दसहस्राणाम् महावृन्दमिति स्मृतम् ॥६-२८-३५॥

महावृन्दसहस्राणाम् शतम् पद्ममिहोच्यते ।
शतम् पद्मसहस्राणाम् महापद्ममिति स्मृतम् ॥६-२८-३६॥

महापद्मसहस्राणाम् शतम् खर्वमिहोच्यते ।
शतम् खर्वसहस्राणाम् महाखर्वमिति स्मृतम् ॥६-२८-३७॥

महाखर्वसहस्राणाम् समुद्रमभिधीयते ।
शतम् समुद्रसाहस्रमोघ इत्यभिधीयते ॥६-२८-३८॥

शतमोघसहस्राणाम् महौघ इति विश्रुतः ।
एवम् कोटि सहस्रेण शन्कूनाम् च शतेन च ॥६-२८-३९॥

महाशङ्कुसहस्रेण तथा वृन्दशतेन च ।
महावृन्दसहस्रेण तथा पद्मशतेन च ॥६-२८-४०॥

महापद्मसहस्रेण तथा खर्वशतेन च ।
समुद्रेण च तेनैव महुघेन तथैव च ॥६-२८-४१॥

एष कोटिमहौघेन समुद्रसदृशेन च ।
विभीषणेन वीरेण सचिवैः परिवारितः ॥६-२८-४२॥

सुग्रीवो वानर इन्द्रस् त्वाम् युद्ध अर्थम् अभिवर्तते ।
महाबलवृतो नित्यम् महाबलपराक्रमः ॥६-२८-४३॥

इमाम् महाराज समीक्ष्य वाहिनीम् ।
उपस्थिताम् प्रज्वलित ग्रह उपमाम् ।
ततः प्रयत्नः परमो विधीयताम् ।
यथा जयः स्यान् न परैः पराजयः ॥६-२८-४४॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे अष्टाविंशः सर्गः ॥६-२८॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

बाहरी कडियाँ[सम्पाद्यताम्]