रामायणम्/युद्धकाण्डम्/सर्गः ९२
← सर्गः ९१ | रामायणम् सर्गः ९२ वाल्मीकिः |
सर्गः ९३ → |
रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः ।
बभूव हृष्टस्तं हत्वा शक्रजेतारमाहवे ।। ६.९२.१ ।।
ततः स जाम्बवन्तं च हनुमन्तं च वीर्यवान् ।
सन्निहत्य महातेजास्तांश्च सर्वान् वनौकसः ।। ६.९२.२ ।।
आजगाम ततस्तीव्रं यत्र सुग्रीवराघवौ ।
विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः ।। ६.९२.३ ।।
ततो राममभिक्रम्य सौमित्रिरभिवाद्य च ।
तस्थौ भ्रातृसमीपस्थ इन्द्रस्येव बृहस्पतिः ।। ६.९२.४ ।।
निष्टनन्निव चागम्य राघवाय महात्मने ।
आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम् ।। ६.९२.५ ।।
रावणेस्तु शिरश्छिन्नं लक्ष्मणेन महात्मना ।
न्यवेदयत रामाय तदा हृष्टो विभीषणः ।। ६.९२.६ ।।
श्रुत्वैतत्तु महावीर्यो लक्ष्मणेनेन्द्रजिद्वधम् ।
प्रहर्षमतुलं लेभे रामो वाक्यमुवाच ह ।। ६.९२.७ ।।
साधु लक्ष्मण तुष्टो ऽस्मि कर्मणा सुकृतं कृतम् ।
रावणेर्हि विनाशेन जितमित्युपधारय ।। ६.९२.८ ।।
स तं शिरस्युपाघ्राय लक्ष्मणं लक्ष्मिवर्धनम् ।
लज्जमानं बलात् स्नेहादङ्कमारोप्य वीर्यवान् ।। ६.९२.९ ।।
उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम् ।
भ्रातरं लक्ष्मणं स्निग्धं पुनःपुनरुदैक्षत ।। ६.९२.१० ।।
शल्यसम्पीडितं शस्तं निश्वसन्तं तु लक्ष्मणम् ।
रामस्तु दुःखसन्तप्तस्तदा निश्वसितो भृशम् ।। ६.९२.११ ।।
मूर्ध्नि चैनमुपाघ्राय भूयः संस्पृश्य च त्वरन् ।
उवाच लक्ष्मणं वाक्यमाश्वस्य पुरुषर्षभः ।। ६.९२.१२ ।।
कृतं परमकल्याणं कर्म दुष्करकर्मणा ।
अद्य मन्ये हते पुत्रे रावणं निहतं युधि ।
अद्याहं विजयी शत्रौ हते तस्मिन् दुरात्मनि ।। ६.९२.१३ ।।
रावणस्य नृशंसस्य दिष्ट्या वीर त्वया रणे ।
छिन्नो हि दक्षिणो बाहुः स हि तस्य व्यापश्रयः ।। ६.९२.१४ ।।
विभीषणहनूमद्भयां कृतं कर्म महद्रणे ।
अहोरात्रैस्त्रिभिर्वीरः कथञ्चिद्विनिपातितः ।। ६.९२.१५ ।।
निरमित्रः कृतो ऽस्म्यद्य निर्यास्यति हि रावणः ।
बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम् ।। ६.९२.१६ ।।
तं पुत्रवधसन्तप्तं निर्यान्तं राक्षसाधिपम् ।
बलेनावृत्य महता निहनिष्यामि दुर्जयम् ।। ६.९२.१७ ।।
त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे ।
न दुष्प्रापा हते त्वद्य शक्रजेतरि चाहवे ।। ६.९२.१८ ।।
स तं भ्रातरमाश्वास्य परिष्वज्य च राघवः ।
रामः सुषेणं मुदितः समाभाष्येदमब्रवीत् ।। ६.९२.१९ ।।
सशल्यो ऽयं महाप्राज्ञ सौमित्रिर्मित्रवत्सलः ।
यथा भवति सुस्वस्थस्तथा त्वं समुपाचर ।। ६.९२.२० ।।
विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः ।
ऋक्षवानरसैन्यानां शूराणां द्रुमयोधिनाम् ।। ६.९२.२१ ।।
ये चाप्यन्ये ऽत्र युध्यन्ति सशल्या व्रणिनस्तथा ।
ते ऽपि सर्वे प्रयत्नेन क्रियन्तां सुखिनस्त्वया ।। ६.९२.२२ ।।
एवमुक्तस्तु रामेण महात्मा हरियूथपः ।
लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधिम् ।। ६.९२.२३ ।।
स तस्या गन्धमाघ्राय विशल्यः समपद्यत ।
तथा निर्वेदनश्चैव संरूढव्रण एव च ।। ६.९२.२४ ।।
विभीषणमुखानां च सुहृदां राघवाज्ञया ।
सर्ववानरमुख्यानां चिकित्सां स तदा ऽकरोत् ।। ६.९२.२५ ।।
ततः प्रकृतिमापन्नो हृतशल्यो गतव्यथः ।
सौमित्रिर्मुदितस्तत्र क्षणेन विगतज्वरः ।। ६.९२.२६ ।।
तथैव रामः प्लवगाधिपस्तदा विभीषणश्चर्क्षपतिश्च जाम्बवान् ।
अवेक्ष्य सौमित्रिमरोगमुत्थितं मुदा ससैन्याः सुचिरं जहर्षिरे ।। ६.९२.२७ ।।
अपूजयत् कर्म स लक्ष्मणस्य सुदुष्करं दाशरथिर्महात्मा ।
हृष्टा बभूवुर्युधि यूथपेन्द्रा निपातितं शक्रजितं निशम्य ।। ६.९२.२८ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्विनवतितमः सर्गः ।। ९२ ।।