रामायणम्/युद्धकाण्डम्/सर्गः ११२
← सर्गः १११ | रामायणम् सर्गः ११२ वाल्मीकिः |
सर्गः ११३ → |
भ्रातरं निहतं दृष्ट्वा शयानं रामनिर्जितम् ।
शोकवेगपरीतात्मा विललाप विभीषणः ।। ६.११२.१ ।।
वीर विक्रान्त विख्यात विनीत नयकोविद ।
महार्हशयनोपेत किं शेषे ऽद्य हतो भुवि ।। ६.११२.२ ।।
विक्षिप्य दीर्घौ निश्चेष्टौ भुजावङ्गदभूषितौ ।
मुकुटेनापवृत्तेन भास्कराकारवर्चसा ।। ६.११२.३ ।।
तदिदं वीर सम्प्राप्तं मया पूर्वं समीरितम् ।
काममोहपरीतस्य यत्ते न रुचितं वचः ।। ६.११२.४ ।।
यन्न दर्पात् प्रहस्तो वा नेन्द्रजिन्नापरे जनाः ।
न कुम्भकर्णो ऽतिरथो नातिकायो नरान्तकः ।
न स्वयं त्वममन्येथास्तस्योदर्को ऽयमागतः ।। ६.११२.५ ।।
गतः सेतुः सुनीतानां गतो धर्मस्य विग्रहः ।
गतः सत्त्वस्य सङ्क्षेपः प्रस्तावानां गतिर्गता ।। ६.११२.६ ।।
आदित्यः पतितो भूमौ मग्नस्तमसि चन्द्रमाः ।। ६.११२.७ ।।
चित्रभानुः प्रशान्तार्चिर्व्यवसायो निरुद्यमः ।
अस्मिन्निपतिते भूमौ वीरे शस्त्रभृतां वरे ।। ६.११२.८ ।।
किं शेषमिव लोकस्य हतवीरस्य साम्प्रतम् ।
रणे राक्षसशार्दूले प्रसुप्त इव पांसुषु ।। ६.११२.९ ।।
धृतिप्रवालः प्रसहाग्र्यपुष्पस्तपोबलः शौर्यनिबद्धमूलः ।
रणे महान् राक्षसराजवृक्षः सम्मर्दितो राघवमारुतेन ।। ६.११२.१० ।।
तेजोविषाणः कुलवंशवंशः कोपप्रसादापरगात्रहस्तः ।
इक्ष्वाकुसिंहावगृहीतदेहः सुप्तः क्षितौ रावणगन्धहस्ती ।। ६.११२.११ ।।
पराक्रमोत्साहविजृम्भितार्चिर्निश्वासधूमः स्वबलप्रतापः ।
प्रतापवान् संयति राक्षसाग्निर्निर्वापितो रामपयोधरेण ।। ६.११२.१२ ।।
सिंहर्क्षलाङ्गूलककुद्विषाणः पराभिजिद्गन्धनगन्धहस्ती ।
रक्षोवृषश्चापलकर्णचक्षुः क्षितीश्वरव्याघ्रहतो ऽवसन्नः ।। ६.११२.१३ ।।
वदन्तं हेतुमद्वाक्यं परिमृष्टार्थनिश्चयम् ।
रामः शोकसमाविष्टमित्युवाच विभीषणम् ।। ६.११२.१४ ।।
नायं विनष्टो निश्चेष्टः समरे चण्डविक्रमः ।
अत्युन्नतमहोत्साहः पतितो ऽयमशङ्कितः ।। ६.११२.१५ ।।
नैवं विनष्टाः शोच्यन्ते क्षत्रधर्ममवस्थिताः ।
वृद्धिमाशंसमाना ये निपतन्ति रणाजिरे ।। ६.११२.१६ ।।
येन सेन्द्रास्त्रयो लोकास्त्रासिता युधि धीमता ।
तस्मिन् कालसमायुक्ते न कालः परिशोचितुम् ।। ६.११२.१७ ।।
नैकान्तविजयो युद्धे भूतपूर्वः कदाचन ।
परैर्वा हन्यते वीरः परान् वा हन्ति संयुगे ।। ६.११२.१८ ।।
इयं हि पूर्वैः सन्दिष्टा गतिः क्षत्रियसम्मता ।
क्षत्रियो निहतः सङ्ख्ये न शोच्य इति निश्चय ।। ६.११२.१९ ।।
तदेवं निश्चयं दृष्ट्वा तत्त्वमास्थाय विज्वरः ।
यदिहानन्तरं कार्यं कल्प्यं तदनुचिन्तय ।। ६.११२.२० ।।
तमुक्तवाक्यं विक्रान्तं राजपुत्रं विभीषणः ।
उवाच शोकसन्तप्तो भ्रातुर्हितमनन्तरम् ।। ६.११२.२१ ।।
यो ऽयं विमर्देषु न भग्नपूर्वः सुरैः समेतैः सह वासवेन ।
भवन्तमासाद्य रणे विभग्नो वेलामिवासाद्य यथा समुद्रः ।। ६.११२.२२ ।।
अनेन दत्तानि सुपूजितानि भुक्ताश्च भोगा निभृताश्च भृत्याः ।
धनानि मित्रेषु समर्पितानि वैराण्यमित्रेषु च यापितानि ।। ६.११२.२३ ।।
एषोहिताग्निश्च महातपाश्च वेदान्तगः कर्मसु चाग्र्यवीर्यः ।
एतस्य यत् प्रेतगतस्य कृत्यं तत् कर्तुमिच्छामि तव प्रसादात् ।। ६.११२.२४ ।।
स तस्य वाक्यैः करुणैर्महात्मा सम्बोधितः साधु विभीषणेन ।
आज्ञापयामास नरेन्द्रसूनुः स्वर्गीयमाधानमदीनसत्त्वः ।। ६.११२.२५ ।।
मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् ।
क्रियतामस्य संस्कारो ममाप्येष यथा तव ।। ६.११२.२६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्वादशोत्तरशततमः सर्गः ।। ११२ ।।