रामायणम्/युद्धकाण्डम्/सर्गः ११९

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ११८ रामायणम्
सर्गः ११९
वाल्मीकिः
सर्गः १२० →
रामायणम्/युद्धकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११
  112. सर्गः ११२
  113. सर्गः ११३
  114. सर्गः ११४
  115. सर्गः ११५
  116. सर्गः ११६
  117. सर्गः ११७
  118. सर्गः ११८
  119. सर्गः ११९
  120. सर्गः १२०
  121. सर्गः १२१
  122. सर्गः १२२
  123. सर्गः १२३
  124. सर्गः १२४
  125. सर्गः १२५
  126. सर्गः १२६
  127. सर्गः १२७
  128. सर्गः १२८
  129. सर्गः १२९
  130. सर्गः १३०
  131. सर्गः १३१

एवमुक्ता तु वैदेही परुषं रोमहर्षणम् ।
राघवेण सरोषेण भृशं प्रव्यथिता ऽभवत् ।। ६.११९.१ ।।

सा तदश्रुतपूर्वं हि जने महति मैथिली ।
श्रुत्वा भर्तृवचो रूक्षं लज्जया व्रीडिता ऽभवत् ।। ६.११९.२ ।।

प्रविशन्तीव गात्राणि स्वान्येव जनकात्मजा ।
वाक्छल्यैस्तैः सशल्येव भृशमश्रूण्यवर्तयत् ।। ६.११९.३ ।।

ततो बाष्पपरिक्लिष्टं प्रमार्जन्ती स्वमाननम् ।
शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत् ।। ६.११९.४ ।।

किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम् ।
रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव ।। ६.११९.५ ।।

न तथा ऽस्मि महाबाहो यथा त्वमवगच्छसि ।
प्रत्ययं गच्छ मे येन चारित्रेणैव ते शपे ।। ६.११९.६ ।।

पृथक्स्त्रीणां प्रचारेण जातिं तां परिशङ्कसे ।
परित्यजेमां शङ्कां तु यदि ते ऽहं परीक्षिता ।। ६.११९.७ ।।

यद्यहं गात्रसंस्पर्शं गता ऽस्मि विवशा प्रभो ।
कामकारो न मे तत्र दैवं तत्रापराध्यति ।। ६.११९.८ ।।

मदधीनं तु यत्तन्मे हृदयं त्वयि वर्तते ।
पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरा ।। ६.११९.९ ।।

सहसंवृद्धभावाच्च संसर्गेण च मानद ।
यद्यहं ते न विज्ञाता हता तेनास्मि शाश्वतम् ।। ६.११९.१० ।।

प्रेषितस्ते यदा वीरो हनुमानवलोककः ।
लङ्कास्था ऽहं त्वया वीर किं तदा न विसर्जिता ।। ६.११९.११ ।।

प्रत्यक्षं वानरेन्द्रस्य तद्वाक्यसमनन्तरम् ।
त्वया सन्त्यक्तया वीर त्यक्तं स्याज्जीवितं मया ।। ६.११९.१२ ।।

न वृथा ते श्रमो ऽयं स्यात् संशये न्यस्य जीवितम् ।
सुहृज्जनपरिक्लेशो न चायं निष्फलस्तव ।। ६.११९.१३ ।।

त्वया तु नरशार्दूल क्रोधमेवानुवर्तता ।
लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम् ।। ६.११९.१४ ।।

अपदेशेन जनकान्नोत्पत्तिर्वसुधातलात् ।
मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम् ।। ६.११९.१५ ।।

न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः ।
मम भक्तिश्च शीलं च सर्वं ते पृष्ठतः कृतम् ।। ६.११९.१६ ।।

एवं ब्रुवाणा रुदती बाष्पगद्गदभाषिणी ।
अब्रवील्लक्ष्मणं सीता दीनं ध्यानपरं स्थितम् ।। ६.११९.१७ ।।

चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम् ।
मिथ्योपघातोपहता नाहं जीवितुमुत्सहे ।। ६.११९.१८ ।।

अप्रीतस्य गुणैर्भर्तुस्त्यक्ताया जनसंसदि ।
या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम् ।। ६.११९.१९ ।।

एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा ।
अमर्षवशमापन्नो राघवाननमैक्षत ।। ६.११९.२० ।।

स विज्ञाय ततश्छन्दं रामस्याकारसूचितम् ।
चितां चकार सौमित्रिर्मते रामस्य वीर्यवान् ।। ६.११९.२१ ।।

अधोमुखं तदा रामं शनैः कृत्वा प्रदक्षिणम् ।
उपासर्पत वैदेही दीप्यमानं हुताशनम् ।। ६.११९.२२ ।।

प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली ।
बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः ।। ६.११९.२३ ।।

यथा मे हृदयं नित्यं नापसर्पति राघवात् ।
तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ।। ६.११९.२४ ।।

यथा मां शुद्धचारित्रां दुष्टां जानाति राघवः ।
तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ।। ६.११९.२५ ।।

कर्मणा मनसा वाचा यथा नातिचराम्यहम् ।
राघवं सर्वधर्मज्ञं तथा मां पातु पावकः ।। ६.११९.२६ ।।

आदित्यो भगवान् वायुर्दिशश्चन्द्रस्तथैव च ।
अहश्चापि तथा सन्ध्ये रात्रिश्च पृथिवी तथा ।
यथान्ये ऽपि विजानन्ति तथा चारित्रसंयुताम् ।। ६.११९.२७ ।।

एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम् ।
विवेश ज्वलनं दीप्तं निस्सङ्गेनान्तरात्मना ।। ६.११९.२८ ।।

जनः स सुमहांस्त्रस्तो बालवृद्धसमाकुलः ।
ददर्श मैथिलीं तत्र प्रविशन्तीं हुताशनम् ।। ६.११९.२९ ।।

सा तप्तनवहेमाभा तप्तकाञ्चनभूषणा ।
पपात ज्वलनं दीप्तं सर्वलोकस्य सन्निधौ ।। ६.११९.३० ।।

ददृशुस्तां महाभागां प्रविशन्तीं हुताशनम् ।
सीतां कृत्स्नास्त्रयो लोकाः पुण्यामाज्याहुतीमिव ।। ६.११९.३१ ।।

प्रचुक्रुशुः स्त्रियः सर्वास्तां दृष्ट्वा हव्यवाहने ।
पतन्तीं संस्कृतां मन्त्रैर्वसोर्धारामिवाध्वरे ।। ६.११९.३२ ।।

ददृशुस्तां त्रयो लोका देवगन्धर्वदानवाः ।
शप्तां पतन्तीं निरये त्रिदिवाद्देवतामिव ।। ६.११९.३३ ।।

तस्यामग्निं विशन्त्यां तु हाहेति विपुलस्वनः ।
रक्षसां वानराणां च सम्बभूवाद्भुतोपमः ।। ६.११९.३४ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोनविंशत्युत्तरशततमः सर्गः ।। ११९ ।।