रामायणम्/युद्धकाण्डम्/सर्गः ४२
← सर्गः ४१ | रामायणम् सर्गः ४२ वाल्मीकिः |
सर्गः ४३ → |
ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम् ।
न्यवेदयन् पुरीं रुद्धां रामेण सह वानरैः ।। ६.४२.१ ।।
रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः ।
विधानं द्विगुणं कृत्वा प्रासादं सो ऽध्यरोहत ।। ६.४२.२ ।।
स ददर्शावृतां लङ्कां सशैलवनकाननाम् ।
असङ्ख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः ।। ६.४२.३ ।।
स दृष्ट्वा वानरैः सर्वां वसुधां कवलीकृताम् ।
कथं क्षपयितव्याः स्युरिति चिन्तापरो ऽभवत् ।। ६.४२.४ ।।
स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः ।
राघवं हरियूथांश्च ददर्शायतलोचनः ।। ६.४२.५ ।।
राघवः सह सैन्येन मुदितो नाम पुप्लुवे ।
लङ्कां ददर्श गुप्तां वै सर्वतो राक्षसैर्वृताम् ।। ६.४२.६ ।।
दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् ।
जगाम सहसा सीतां दूयमानेन चेतसा ।। ६.४२.७ ।।
अत्र सा मृगशावाक्षी मत्कृते जनकात्मजा ।
पीड्यते शोकसन्तप्ता कृशा स्थण्डिलशायिनी ।। ६.४२.८ ।।
पीड्यमानां स धर्मात्मा वैदेहीमनुचिन्तयन् ।
क्षिप्रमाज्ञापयामास वानरान् द्विषतां वधे ।। ६.४२.९ ।।
एवमुक्ते तु वचने रामेणाक्लिष्टकर्मणा ।
सङ्घर्षमाणाः प्लवगाः सिंहनादैरनादयन् ।। ६.४२.१० ।।
शिखरैर्विकिरामैनां लङ्कां मुष्टिभिरेव वा ।
इति स्म दधिरे सर्वे मनांसि हरियूथपाः ।। ६.४२.११ ।।
उद्यम्य गिरिशृङ्गाणि शिखराणि महान्ति च ।
तरूंश्चोत्पाट्य विविधांस्तिष्ठन्ति हरियूथपाः ।। ६.४२.१२ ।।
प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः ।
राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा ।। ६.४२.१३ ।।
ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः ।
लङ्कामेवाभ्यवर्तन्त सालतालशिलायुधाः ।। ६.४२.१४ ।।
ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवङ्गमाः ।
प्राकाराग्राण्यरण्यानि ममन्थुस्तोरणानि च ।। ६.४२.१५ ।।
परिखाः पूरयन्ति स्म प्रसन्नसलिलायुताः ।
पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः ।। ६.४२.१६ ।।
ततः सहस्रयूथाश्च कोटीयूथाश्च वानराः ।
कोटीशतयुताश्चान्ये लङ्कामारुरुहुस्तदा ।। ६.४२.१७ ।।
काञ्चनानि प्रमृद्नन्तस्तोरणानि प्लवङ्गमाः ।
कैलासशिखराभाणि गोपुराणि प्रमथ्य च ।। ६.४२.१८ ।।
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ।
लङ्कां तामभिधावन्ति महावारणसन्निभाः ।। ६.४२.१९ ।।
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ।। ६.४२.२० ।।
इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवङ्गमाः ।
अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः ।। ६.४२.२१ ।।
वीरबाहुः सुबाहुश्च नलश्च वनगोचरः ।
निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः ।
एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम् ।। ६.४२.२२ ।।
पूर्वद्वारं तु कुमुदः कोटीभिर्दशभिर्वृतः ।
आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः ।। ६.४२.२३ ।।
साहाय्यार्थं तु तस्यैव निविष्टः प्रघसो हरिः ।
पनसश्च महाबाहुर्वानरैर्बहुभिर्वृतः ।। ६.४२.२४ ।।
दक्षिणं द्वारमागम्य वीरः शतवलिः कपिः ।
आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः ।। ६.४२.२५ ।।
सुषेणः पश्चिमद्वारं गतस्तारापिता हरिः ।
आवृत्य बलवांस्तस्थौ षष्टिकोटिभिरावृतः ।। ६.४२.२६ ।।
उत्तरं द्वारमासाद्य रामः सौमित्रिणा सह ।
आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः ।। ६.४२.२७ ।।
गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शनः ।
वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ।। ६.४२.२८ ।।
ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः ।
वृतः कोट्या महावीर्यस्तस्थो रामस्य पार्श्वतः ।। ६.४२.२९ ।।
सन्नद्धस्तु महावीर्यो गदापाणिर्विभीषणः ।
वृतो यत्तैस्तु सचिवैस्तस्थौ तत्र महाबलः ।। ६.४२.३० ।।
गजो गवाक्षो गवयः शरभो गन्धमादनः ।
समन्तात् परिधावन्तो ररक्षुर्हरिवाहिनीम् ।। ६.४२.३१ ।।
ततः कोपपरीतात्मा रावणो राक्षसेश्वरः ।
निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत्तदा ।। ६.४२.३२ ।।
एतच्छुत्वा ततो वाक्यं रावणस्य मुखोद्गतम् ।
सहसा भीमनिर्घोषमुद्घुष्टं रजनीचरैः ।। ६.४२.३३ ।।
ततः प्रचोदिता भेर्यश्चन्द्रपाण्डरपुष्कराः ।
हेमकोणाहता भीमा राक्षसानां समन्ततः ।। ६.४२.३४ ।।
विनेदुश्च महाघोषाः शङ्खाः शतसहस्रशः ।
राक्षसानां सुघोराणां मुखमारुतपूरिताः ।। ६.४२.३५ ।।
ते बभुः शुभनीलाङ्गाः सशङ्का रजनीचराः ।
विद्युन्मण्डलसन्नद्धाः सबलाका इवाम्बुदाः ।। ६.४२.३६ ।।
निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः ।
समये पूर्यमाणस्य वेगा इव महोदधेः ।। ६.४२.३७ ।।
ततो वानरसैन्येन मुक्तो नादः समन्ततः ।
मलयः पूरितो येन स सानुप्रस्थकन्दरः ।। ६.४२.३८ ।।
शङ्खदुन्दुभिसङ्घुष्टः सिंहनादस्तरस्विनाम् ।
पृथिवीं चान्तरिक्षं च सागरं चैव नादयन् ।। ६.४२.३९ ।।
गजानां बृंहितैः सार्धं हयानां हेषितैरपि ।
रथानां नेमिघोषैश्च रक्षसां वदनस्वनः ।। ६.४२.४० ।।
एतस्मिन्नन्तरे घोरः सङ्ग्रामः समवर्तत ।
रक्षसां वानराणां च यथा देवासुरे पुरा ।। ६.४२.४१ ।।
ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः ।
निजघ्नुर्वानरान् घोराः कथयन्तः स्वविक्रमान् ।। ६.४२.४२ ।।
राजा जयति सुग्रीव इति शब्दो महानभूत् ।। ६.४२.४३ ।।
राजन् जय जयेत्युक्त्वा स्वस्वनामकथान्ततः ।
तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः ।
निजघ्नुस्तानि रक्षांसि नखैर्दन्तैश्च वेगिताः ।। ६.४२.४४ ।।
राक्षसास्त्वपरे भीमाः प्राकारस्था महीगतान् ।
भिन्दिपालैश्च खड्गैश्च शूलैश्चैव व्यदारयन् ।। ६.४२.४५ ।।
वानराश्चापि सङ्क्रुद्धाः प्राकारस्थान् महीगताः ।
राक्षसान् पातयामासुः समाप्लुत्य प्लवङ्गमाः ।। ६.४२.४६ ।।
स सम्प्रहारस्तुमुलो मांसशोणितकर्दमः ।
रक्षसां वानराणां च सम्बभूवाद्भुतोपमः ।। ६.४२.४७ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्विचत्वारिंशः सर्गः ।। ४२ ।।