रामायणम्/युद्धकाण्डम्/सर्गः ११०
← सर्गः १०९ | रामायणम् सर्गः ११०(१०७) वाल्मीकिः |
सर्गः १११ → |
तौ तदा युद्ध्यमानौ तु समरे रामरावणौ ।
ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना ।। ६.११०.१ ।।
अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ ।
परस्परमभिक्रुद्धौ परस्परमभिद्रुतौ ।। ६.११०.२ ।।
परस्परवधे युक्तौ घोररूपौ बभूवतुः ।
मण्डलानि च वीथीश्च गतप्रत्यागतानि च ।
दर्शयन्तौ बहुविधां सूतसारथ्यजां गतिम् ।। ६.११०.३ ।।
अर्दयन् रावणं रामो राघवं चापि रावणः ।
गतिवेगं समापन्नौ प्रवर्तननिवर्तने ।। ६.११०.४ ।।
क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ ।
चेरतुः संयुगमहीं सासारौ जलदौ यथा ।। ६.११०.५ ।।
दर्शयित्वा तथा तौ तु गतिं बहुविधां रणे ।
परस्परस्याभिमुखौ पुनरेवावतस्थतुः ।। ६.११०.६ ।।
धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम् ।
पताकाश्च पताकाभिः समेयुः स्थितयोस्तदा ।। ६.११०.७ ।।
रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः ।
चतुर्भिश्चतुरो दीप्तैर्हयान् प्रत्यपसर्पयत् ।। ६.११०.८ ।।
स क्रोधवशमापन्नो हयानामपसर्पणे ।
मुमोच निशितान् बाणान् राघवाय निशाचरः ।। ६.११०.९ ।।
सो ऽतिविद्धो बलवता दशग्रीवेण राघवः ।
जगाम न विकारं च न चापि व्यथितो ऽभवत् ।। ६.११०.१० ।।
चिक्षेप च पुनर्बाणान् वज्रपातसमस्वनान् ।
साराथिं वज्रहस्तस्य समुद्दिश्य निशाचरः ।। ६.११०.११ ।।
मातलेस्तु महावेगाः शरीरे पतिताः शराः ।
न सूक्ष्ममपि सम्मोहं व्यथां वा प्रददुर्युधि ।। ६.११०.१२ ।।
तया धर्षणया क्रुद्धो मातलेर्न तथा ऽ ऽत्मनः ।
चकार शरजालेन राघवो विमुखं रिपुम् ।। ६.११०.१३ ।।
विंशतं त्रिंशतं षष्टिं शतशो ऽथ सहस्रशः ।
मुमोच राघवो वीरः सायकान् स्यन्दने रिपोः ।। ६.११०.१४ ।।
रावणो ऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः ।
गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे ।। ६.११०.१५ ।।
तत्प्रवृत्तं महद्युद्धं तुमुलं रोमहर्षणम् ।। ६.११०.१६ ।।
गदानां मुसलानां च परिघाणां च निस्वनैः ।
शराणां पुङ्खपातैश्च क्षुभिताः सप्त सागराः ।। ६.११०.१७ ।।
क्षुब्धानां सागराणां च पातालतलवासिनः ।
व्यथिताः पन्नगाः सर्वे दानवाश्च सहस्रशः ।। ६.११०.१८ ।।
चकम्पे मेदिनी कृत्स्ना सशैलवनकानना ।
भास्करो निष्प्रभश्चासीन्न ववौ चापि मारुतः ।। ६.११०.१९ ।।
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
चिन्तामापेदिरे सर्वे सकिन्नरमहोरगाः ।। ६.११०.२० ।।
स्वस्ति गोब्राह्मणेभ्यस्तु लोकास्तिष्ठन्तु शाश्वताः ।
जयतां राघवः सङ्ख्ये रावणं राक्षसेश्वरम् ।। ६.११०.२१ ।।
एवं जपन्तो ऽपश्यंस्ते देवाः सर्षिगणास्तदा ।
रामरावणयोर्युद्धं सुघोरं रोमहर्षणम् ।। ६.११०.२२ ।।
गन्धर्वाप्सरसां सङ्घा दृष्ट्वा युद्धमनूपमम् ।। ६.११०.२३ ।।
गगनं गगनाकारं सागरः सागरोपमः ।
रामरावणयोर्युद्धं रामरावणयोरिव ।
एवं ब्रुवन्तो ददृशुस्तद्युद्धं रामरावणम् ।। ६.११०.२४ ।।
ततः क्रुद्धो महाबाहू रघूणां कीर्तिवर्धनः ।
सन्धाय धनुषा रामः क्षुरमाशीविषोपमम् ।। ६.११०.२५ ।।
रावणस्य शिरो ऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम् ।
तच्छिरः पतितं भूमौ दृष्ट्वं लोकैस्त्रिभिस्तदा ।। ६.११०.२६ ।।
तस्यैव सदृशं चान्यद्रावणस्योत्थितं शिरः ।
तत् क्षिप्रं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा ।। ६.११०.२७ ।।
द्वितीयं रावणशिरश्छिन्नं संयति सायकैः ।
छिन्नमात्रं तु तच्छीर्षं पुनरन्यत् स्म दृश्यते ।। ६.११०.२८ ।।
तदप्यशनिसङ्काशैश्छिन्नं रामेण सायकैः ।
एवमेकशतं छिन्नं शिरसां तुल्यवर्चसाम् ।। ६.११०.२९ ।।
न चैव रावणस्यान्तो दृश्यते जीवितक्षये ।। ६.११०.३० ।।
ततः सर्वास्त्रविद्वीरः कौसल्यानन्दवर्धनः ।
मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः ।। ६.११०.३१ ।।
मारीचो निहतो यैस्तु खरो यैस्तु सदूषणः ।
क्रौञ्चावने विराधस्तु कबन्धो दण्डकावने ।। ६.११०.३२ ।।
यैः साला गिरयो भग्ना वाली च क्षुभितो ऽम्बुधिः ।
त इमे सायकाः सर्वे युद्धे प्रात्ययिका मम ।
किं नु तत्कारणं येन रावणे मन्दतेजसः ।। ६.११०.३३ ।।
इति चिन्तापरश्चासीदप्रमत्तश्च संयुगे ।
ववर्ष शरवर्षाणि राघवो रावणोरसि ।। ६.११०.३४ ।।ा मम ।
रावणो ऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः ।
गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे ।। ६.११०.३५ ।।
तत् प्रवृत्तं महद्युद्धं तुमुलं रोमहर्षणम् ।
अन्तरिक्षे च भूमौ च पुनश्च गिरिमूर्धनि ।। ६.११०.३६ ।।
देवदानवयक्षाणां पिशाचोरगरक्षसाम् ।
पश्यतां तन्महद्युद्धं सर्वरात्रमवर्तत ।। ६.११०.३७ ।।
नैव रात्रं न दिवसं न मुहूर्तं न च क्षणम् ।
रामरावणयोर्युद्धं विराममुपगच्छति ।। ६.११०.३८ ।।
दशरथसुतराक्षसेन्द्रयोर्जयमनवेक्ष्य रणे स राघवस्य ।
सुरवररथसारथिर्महान् रणगतमेनमुवाच वाक्यमाशु ।। ६.११०.३९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे दशोत्तरशततमः सर्गः ।। ११० ।।