रामायणम्/युद्धकाण्डम्/सर्गः १२०
← सर्गः ११९ | रामायणम् सर्गः १२० वाल्मीकिः |
सर्गः १२१ → |
ततो हि दुर्मना रामः श्रुत्वैवं वदतां गिरः ।
दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः ।। ६.१२०.१ ।।
ततो वैश्रवणो राजा यमश्चामित्रकर्शनः ।
सहस्राक्षो महेन्द्रश्च वरुणश्च परन्तपः ।। ६.१२०.२ ।।
षडर्धनयनः श्रीमान् महादेवो वृषध्वजः ।
कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः ।। ६.१२०.३ ।।
एते सर्वे समागम्य विमानैः सूर्यसन्निभैः ।
आगम्य नगरीं लङ्कामभिजग्मुश्च राघवम् ।। ६.१२०.४ ।।
ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान् ।
अब्रुवंस्त्रिदशश्रैष्ठाः प्राञ्जलिं राघवं स्थितम् ।। ६.१२०.५ ।।
कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां वरः ।
उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने ।। ६.१२०.६ ।।
कथं देवगणश्रेष्ठमात्मानं नावबुध्यसे ।। ६.१२०.७ ।।
ऋतधामा वसुः पूर्वं वसूनां त्वं प्रजापतिः ।
त्रयाणां त्वं हि लोकानामादिकर्ता स्वयम्प्रभुः ।
रुद्राणामष्टमो रुद्रः साध्यानामसि पञ्चमः ।। ६.१२०.८ ।।
अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी ।
अन्ते चादौ च लोकानां दृश्यसे त्वं परन्तप ।। ६.१२०.९ ।।
उपेक्षसे च वैदेहीं मानुषः पाकृतो यथा ।। ६.१२०.१० ।।
इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः ।
अब्रवीत्रिदशश्रेष्ठान् रामो धर्मभृतां वरः ।। ६.१२०.११ ।।
आत्मानं मानुषं मन्ये रामं दशरथात्मजम् ।
यो ऽहं यस्य यतश्चाहं भगवांस्तद् ब्रवीतु मे ।। ६.१२०.१२ ।।
इति ब्रुवन्तं काकुत्स्थं ब्रह्मा ब्रह्मविदां वरः ।
अब्रवीच्छृणु मे राम सत्यं सत्यपराक्रम ।। ६.१२०.१३ ।।
भवान्नारायणो देवः श्रीमांश्चक्रायुधो विभुः ।
एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित् ।। ६.१२०.१४ ।।
अक्षरं ब्रह्म सत्यं च मध्ये चान्ते च राघव ।
लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः ।। ६.१२०.१५ ।।
शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः ।
अजितः खड्गधृद्विष्णुः कृष्णश्चैव बृहद्बलः ।। ६.१२०.१६ ।।
सेनानीर्ग्रामणीश्च त्वं बुद्धिः सत्त्वं क्षमा दमः ।
प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः ।। ६.१२०.१७ ।।
इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत् ।
शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः ।। ६.१२०.१८ ।।
सहस्रशृङ्गो वेदात्मा शतजिह्वो महर्षभः ।। ६.१२०.१९ ।।
त्वं त्रयाणां हि लोकानामादिकर्ता स्वयम्प्रभुः ।
सिद्धानामपि साध्यानामाश्रयश्चासि पूर्वजः ।। ६.१२०.२० ।।
त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः परन्तपः ।
प्रभवं निधनं वा ते न विदुः को भवानिति ।। ६.१२०.२१ ।।
दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च ।
दिक्षु सर्वासु गगने पर्वतेषु वनेषु च ।। ६.१२०.२२ ।।
सहस्रचरणः श्रीमान् शतशीर्षः सहस्रदृक् ।
त्वं धारयसि भूतानि वसुधां च सपर्वताम् ।। ६.१२०.२३ ।।
अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः ।
त्रील्लोँकान् धारयन् राम देवगन्धर्वदानवान् ।। ६.१२०.२४ ।।
अहं ते हृदयं राम जिह्वा देवी सरस्वती ।
देवा गात्रेषु रोमाणि निर्मिता ब्रह्मणः प्रभो ।। ६.१२०.२५ ।।
निमेषस्ते भवेद्रात्रिरुन्मेषस्ते भवेद्दिवा ।
संस्कारास्ते ऽभवन् वेदा न तदस्ति त्वया विना ।। ६.१२०.२६ ।।
जगत् सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् ।
अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः ।। ६.१२०.२७ ।।
त्वया लोकास्त्रयः क्रान्ताः पुराणे विक्रमैस्त्रिभिः ।
महेन्द्रश्च कृतो राजा बलिं बद्ध्वा महासुरम् ।। ६.१२०.२८ ।।
सीता लक्ष्मीर्भवान् विष्णुर्देवः कृष्णः प्रजापतिः ।
वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् ।। ६.१२०.२९ ।।
तदिदं नः कृतं कार्यं त्वया धर्मभृतां वर ।
निहतो रावणो राम प्रहृष्टो दिवमाक्रम ।। ६.१२०.३० ।।
अमोघं बलवीर्यं ते अमोघस्ते पराक्रमः ।
अमोघं दर्शनं राम न च मोघः स्तवस्तव ।। ६.१२०.३१ ।।
अमोघास्ते भविष्यन्ति भक्तिमन्तश्च ये नराः ।। ६.१२०.३२ ।।
ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम् ।
प्राप्नुवन्ति सदा कामानिह लोके परत्र च ।। ६.१२०.३३ ।।
इममार्षं स्तवं नित्यमितिहासं पुरातनम् ।
ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः ।। ६.१२०.३४ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे विंशत्युत्तरशततमः सर्गः ।। १२० ।।