रामायणम्/युद्धकाण्डम्/सर्गः २२

विकिस्रोतः तः
Jump to navigation Jump to search
रामायणम्/युद्धकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११
  112. सर्गः ११२
  113. सर्गः ११३
  114. सर्गः ११४
  115. सर्गः ११५
  116. सर्गः ११६
  117. सर्गः ११७
  118. सर्गः ११८
  119. सर्गः ११९
  120. सर्गः १२०
  121. सर्गः १२१
  122. सर्गः १२२
  123. सर्गः १२३
  124. सर्गः १२४
  125. सर्गः १२५
  126. सर्गः १२६
  127. सर्गः १२७
  128. सर्गः १२८
  129. सर्गः १२९
  130. सर्गः १३०
  131. सर्गः १३१

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्वाविंशः सर्गः ॥६-२२॥

अथोवाच रघुश्रेष्ठः सागरम् दारुणम् वचः ।
अद्य त्वाम् शोषयिष्यामि सपातालम् महार्णव ॥६-२२-१॥

शरनिर्दग्धतोयस्य परिशुष्कस्य सागर ।
मया निहतसत्त्वस्य पाम्सुरुत्पद्यते महान् ॥६-२२-२॥

मत्कार्मुकनिसृष्टेन शरवर्षेण सागर ।
परम् तीरम् गमिष्यन्ति पद्भिरेव प्लवङ्गमाः ॥६-२२-३॥

विचिन्वन्नाभिजानासि पौरुषम् वापि विक्रमम् ।
दाव्नवालय सम्तापम् मत्तो नाम गमिष्यसि ॥६-२२-४॥

ब्राह्मेणास्त्रेण सम्योज्य ब्रह्मदण्डनिभम् शरम् ।
सम्योज्य धनुषि श्रे ष्ठे विचकर्ष महाबलः ॥६-२२-५॥

तस्मिन्विकृष्टे सहसा राघवेण शरासने ।
रोदसी सम्पफालेव पर्वताश्च चकम्पिरे ॥६-२२-६॥

तमश्च लोकमावव्रे दिशश्च न चकाशिरे ।
प्रतिचुक्षुभिरे चाशु सराम्सि सरितस्तदा ॥६-२२-७॥

तिर्यक् च सह नक्षत्रैः सम्गतौ चन्द्रभास्करौ ।
भास्कराम्शुभिरादीप्तम् तमसा च समावृतम् ॥६-२२-८॥

प्रचकाशे तदाकाशमुल्काशतविदीपितम् ।
अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः ॥६-२२-९॥

वपुःप्रकर्षेण ववुर्दिव्यमारुतपङ्क्त्यः ।
बभञ्ज च तदा वृक्षान् जलदानुद्वहन् मुहुः ॥६-२२-१०॥

आरुजम्श्चैव शैलाग्रान् शिखराणि बभञ्ज च ।
दिवि च स्म महावेगाः सम्हताः समहास्वनाः ॥६-२२-११॥

मुमुचुर्वैद्युतानग्नीम्स्ते महाशनयस्तदा ।
यानि भूतानि दृश्यानि चुक्रुशुश्चाशनेः समम् ॥६-२२-१२॥

अदृश्यानि च भूतानि मुमुचुर्भैरवस्वनम् ।
शिश्यरे चाभिभूतानि सम्त्रस्ताम्यद्विजन्ति च ॥६-२२-१३॥

सम्प्रविव्यथिरे चापि न च पस्पन्दिरे भयात् ।
सहभूतैः सतोयोर्मिः सनागः सहराक्षसः ॥६-२२-१४॥

सहसाभूत्ततो वेगाद्भीमवेगो महोदधिः ।
योजनम् व्यतिचक्राम वेलामन्यत्र सम्प्लवात् ॥६-२२-१५॥

तम् तथा समतिक्रान्तम् नातिचक्राम राघवः ।
समुद्धतममित्रघ्नो रामो नदनदीपतिम् ॥६-२२-१६॥

ततो मध्यात् समुद्रस्य सागरः स्वयम् उत्थितः ।
उदयन् हि महाशैलान् मेरोर् इव दिवा करः ॥६-२२-१७॥

पन्नगैः सह दीप्त आस्यैः समुद्रः प्रत्यदृश्यत ।
स्निग्ध वैदूर्य सम्काशो जाम्बू नद विभूषितः ॥६-२२-१८॥

रत्न माल्य अम्बर धरः पद्म पत्र निभ ईक्षणः ।
सर्वपुष्पमयीम् दिव्याम् शिरसा धारयन् स्रजम् ॥६-२२-१९॥

जातरूपमयैश्चैव तपनीयविभूषितो भूषणोत्तमैः ।
आत्मजानाम् च रत्नानाम् भूषितो भूषणोत्तमैः ॥६-२२-२०॥

धातुभिर्मण्डितः शैलो विविधैर्हमवानिव ।
एकावलीमध्यगतम् तरलम् पाण्डरप्रभम् ॥६-२२-२१॥

विपुलेनोरसा बिभ्रत्कौस्तुभस्य सहोदरम् ।
आघूर्णिततरङ्गौघःकालिकानिलसम्कुलः ॥६-२२-२२॥

गङ्गासिन्धुप्रधानाभिरापगाभिः समावृतः ।
देवतानाम् सरूपाभिर्नानारूपाभिरीश्वरः ॥६-२२-२३॥

सागरः समतिक्रम्य पूर्वम् आमन्त्र्य वीर्यवान् ।
अब्रवीत् प्रान्जलिर् वाक्यम् राघवम् शर पाणिनम् ॥६-२२-२४॥

पृथिवी वायुर् आकाशम् आपो ज्योतिः च राघवः ।
स्वभावे सौम्य तिष्ठन्ति शाश्वतम् मार्गम् आश्रिताः ॥६-२२-२५॥

तत् स्वभावो मम अपि एष यद् अगाधो अहम् अप्लवः ।
विकारस् तु भवेद् राध एतत् ते प्रवदामि अहम् ॥६-२२-२६॥

न कामान् न च लोभाद् वा न भयात् पार्थिव आत्मज ।
रागान्नक्राकुलजलम् स्तम्भयेयम् कथम्चन ॥६-२२-२७॥

विधास्ये येन गन्तासि विषहिष्ये ह्यहम् तथा ।
न ग्राहा विधमिष्यन्ति यावत्सेना तरिष्यति ॥६-२२-२८॥

हरीणाम् तरणे राम करिष्यामि यथास्थलम् ।
तमब्रवीत्तदा रामः शृणु मे वरुणालय ॥६-२२-२९॥

अमोघोऽयम् महाबाणः कस्मिन् देशे निपात्यताम् ।
रामस्य वचनम् श्रुत्वा तम् च दृष्ट्वा महाशरम् ॥६-२२-३०॥

महोदधिर्महातेजा राघवम् वाक्यमब्रवीत् ।
उत्तरेणावकाशोऽस्ति कश्चित्पुण्यतरो मम ॥६-२२-३१॥

द्रुमकुल्य इति ख्यातो लोके ख्यातो यथा भवान् ।
उग्रदर्शनकर्माणो बहवस्तत्र दस्यवः ॥६-२२-३२॥

आभीरप्रमुखाः पापाः पिबन्ति सलिलम् मम ।
तैर्न तत्स्पर्शनम् पापम् सहेयम् पापकर्मभिः ॥६-२२-३३॥

अमोघः क्रियताम् राम तत्र तेषु शरोत्तमः ।
तस्य तद्वचनम् श्रुत्वा सागरस्य महात्मनः ॥६-२२-३४॥

मुमोच तम् शरम् दीप्तम् परम् सागरदर्शनात् ।
तेन तन्मरुकान्तारम् प्^इथिव्याम् किल विश्रुतम् ॥६-२२-३५॥

विपातितः शरो यत्र वज्राशनिसमप्रभः ।
ननाद च तदा तत्र वसुधा शल्यपीडिता ॥६-२२-३६॥

तस्माद्बाणमुखात्तोयमुत्पपात रसातलात् ।
स बभूव तदा कूपो व्रण इत्येव विश्रुतः ॥६-२२-३७॥

सततम् चोत्थितम् तोयम् समुद्रस्येव दृश्यते ।
अवदारणशब्दश्च दारुणः समपद्यत ॥६-२२-३८॥

तस्मात्तद्बाणपातेन अपः कुक्षिष्वशोषयत् ।
विख्यातम् त्रिषु लोकेषु मधुकान्तारमेव च ॥६-२२-३९॥

शोषयित्वा तु तम् कुक्षिम् रामो दशरथात्मजः ।
वरम् तस्मै ददौ विद्वान्मरवेऽमरविक्रमः ॥६-२२-४०॥

पशव्यश्चाल्परोगश्च फलमूलरसायुतः ।
बहुस्नेहो बहुक्षीरः सुगन्धिर्विविधौषधिः ॥६-२२-४१॥

एवमेतैर्गुणैर्युक्तो बहिभिः सम्युतो मरुः ।
रामस्य वरदानाच्च शिवः पन्था बभूव ह ॥६-२२-४२॥

तस्मिन् दग्धे तदा कुक्षौ समुद्रः सरिताम् पतिः ।
राघवम् सर्वशास्त्रज्ञमिदम् वचनम्ब्रवीत् ॥६-२२-४३॥

अयम् सौम्य नलो नाम तनुजो विश्व कर्मणः ।
पित्रा दत्त वरः श्रीमान् प्रतिमो विश्व कर्मणः ॥६-२२-४४॥

एष सेतुम् महाउत्साहः करोतु मयि वानरः ।
तम् अहम् धारयिष्यामि तथा हि एष यथा पिता ॥६-२२-४५॥

एवम् उक्त्वा उदधिर् नष्टः समुत्थाय नलस् ततः ।
अब्रवीद् वानर श्रेष्ठो वाक्यम् रामम् महाबलः ॥६-२२-४६॥

अहम् सेतुम् करिष्यामि विस्तीर्णे वरुण आलये ।
पितुः सामर्थ्यम् आस्थाय तत्त्वम् आह महाउदधिः ॥६-२२-४७॥

असौ तु सागरो भीमः सेतुकर्मदिदृक्षया ।
ददौ दण्डभयाद्गाधम् राघवाय महोदधिः ॥६-२२-४८॥

मम मातुर् वरो दत्तो मन्दरे विश्व कर्मणा ।
औरसस् तस्य पुत्रो अहम् सदृशो विश्व कर्मणा ॥६-२२-४९॥

औरसस्तस्य पुत्रोऽहम् सदृशो विश्वकर्मणा।
स्मारितोऽस्म्यहमेतेन तत्त्वमाह महोदधिः ॥६-२२-५०॥

न च अपि अहम् अनुक्तो वै प्रब्रूयाम् आत्मनो गुणान् ।
समर्थ्श्चाप्यहम् सेतुम् कर्तुम् वै वरुणालये ॥६-२२-५१॥

तस्मादद्यैव बध्नन्तु सेतुम् वानरपुङ्गवाः ।
ततो निसृष्ट रामेण सर्वतो हरि यूथपाः ॥६-२२-५२॥

अभिपेतुर् महाअरण्यम् हृष्टाः शत सहस्रशः ।
ते नगान् नग सम्काशाः शाखा मृग गण ऋषभाः ॥६-२२-५३॥

बभन्जुर् वानरास् तत्र प्रचकर्षुः च सागरम् ।
ते सालैः च अश्व कर्णैः च धवैर् वम्शैः च वानराः ॥६-२२-५४॥

कुटजैर् अर्जुनैस् तालैस् तिकलैस् तिमिशैर् अपि ।
बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः ॥६-२२-५५॥

चूतैः च अशोक वृक्षैः च सागरम् समपूरयन् ।
समूलामः च विमूलामः च पादपान् हरि सत्तमाः ॥६-२२-५६॥

इन्द्र केतून् इव उद्यम्य प्रजह्रुर् हरयस् तरून् ।
तालान् दाडिमगुल्माम्श्च नारिकेलविभीतकान् ॥६-२२-५७॥

करीरान् बकुलान्निम्बान् समाजह्रुरितस्ततः ।
हस्तिमात्रान् महाकायाः पाषाणाम्श्च महाबलाः ॥६-२२-५८॥

पर्वताम्श्च समुत्पाट्य यन्त्रैः परिवहन्ति च ।
प्रक्षिप्यमाणैर् अचलैः सहसा जलम् उद्धतम् ॥६-२२-५९॥

समुत्पतितम् आकाशम् अपासर्पत् ततस् ततः ।
समुद्रम् क्षोभयामासुर्निपतन्तः समन्ततः ॥६-२२-६०॥

सूत्राण्यन्ये प्रगृह्णन्ति ह्यायतम् शतयोजनम् ।
नलः चक्रे महासेतुम् मध्ये नद नदी पतेः ॥६-२२-६१॥

स तदा क्रियते सेतुर्वानरै र्घोरकर्मभिः ।
दण्डनन्ये प्रगृह्णन्ति विचिन्वन्ति तथापरे ॥६-२२-६२॥

वानरैः शतशस्तत्र रामस्यज्ञापुरःसरैः ।
मेघाभैः पर्वताभश्च तृणैः काष्ठैर्बबन्धरे ॥६-२२-६३॥

पुष्पिताग्रैश्च तरुभिः सेतुम् बध्नन्ति वानराः ।
पाषाणाम्श्च गिरिप्रख्यान् गिरीणाम् शिखराणि च ॥६-२२-६४॥

दृश्यन्ते परिधावन्तो गृह्य दानवसम्निभाः ।
शिलानाम् क्षिप्यमाणानाम् शैलानाम् तत्र पात्यताम् ॥६-२२-६५॥

बभूव तुमुलः शब्दस् तदा तस्मिन् महाउदधौ ।
कृतानि प्रथमेनाह्ना योजनानि चतुर्दश ॥६-२२-६६॥

प्रहृष्टैजसम्काशैस्त्वरमाणैः प्लवङ्गमैः ।
द्वितीयेन तथैवाह्ना योजनानि तु विशतिः ॥६-२२-६७॥

कृतानि प्लवगैस्तूर्णम् भीमकायैर्महाबलैः ।
अह्ना तृतीयेन तथा योजनानि तु सागरे ॥६-२२-६८॥

त्वरमाणैर्महाकयैरेकविम्शतिरेव च ।
चतुर्थेन तथा चाह्ना द्वाविम्शतिरथापि वा ॥६-२२-६९॥

योजनानि महावेगैः कृतानि त्वरितैस्ततः ।
पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः ॥६-२२-७०॥

योजनानि त्रयोविम्शत्सुवेलमधिकृत्य वै ।
स वानरवरः श्रीमान् विश्वकर्मात्मजो बली ॥६-२२-७१॥

बबन्ध सागरे सेतुम् यथा चास्य तथा पिता ।
स नलेन कृतः सेतुः सागरे मकर आलये ॥६-२२-७२॥

शुशुभे सुभगः श्रीमान् स्वाती पथ इव अम्बरे ।
ततो देवाः सगन्धर्वाः सिद्धाः च परम ऋषयः ॥६-२२-७३॥

आगम्य गगने तस्थुर्द्रष्टुकामास्तदद्भुतम् ।
दशयोजनविस्तीर्णम् शतयोजन मायतम् ॥६-२२-७४॥

ददृशुर्देवगन्धर्वा नलसेतुम् सुदुष्करम् ।
आप्लवन्तः प्लवन्तः च गर्जन्तः च प्लवम् गमाः ॥६-२२-७५॥

तम् अचिन्त्यम् असह्यम् च अद्भुतम् लोम हर्षणम् ।
ददृशुः सर्व भूतानि सागरे सेतु बन्धनम् ॥६-२२-७६॥

तानि कोटि सहस्राणि वानराणाम् महाओजसाम् ।
बध्नन्तः सागरे सेतुम् जग्मुः पारम् महाउदधेः ॥६-२२-७७॥

विशालः सुकृतः श्रीमान् सुभूमिः सुसमाहितः ।
अशोभत महासेतुः सीमन्त इव सागरे ॥६-२२-७८॥

ततः परे समुद्रस्य गदा पाणिर् विभीषणः ।
परेषाम् अभिघत अर्थम् अतिष्ठत् सचिवैः सह ॥६-२२-७९॥

सुग्रीवस्तु ततः प्राह रामम् सत्यपराक्रमम् ।
हनुमन्तम् त्वमारोह अङ्गदम् त्वथ लक्ष्मणः ॥६-२२-८०॥

अयम् हि विपुलो वीर सागरो मकरालयः ।
वैहायसौ युवामेतौ वानरौ धारयिष्यतः ॥६-२२-८१॥

अग्रतस् तस्य सैन्यस्य श्रीमान् रामः सलक्ष्मणः ।
जगाम धन्वी धर्म आत्मा सुग्रीवेण समन्वितः ॥६-२२-८२॥

अन्ये मध्येन गच्चन्ति पार्श्वतो अन्ये प्लवम् गमाः ।
सलिले प्रपतन्ति अन्ये मार्गम् अन्ये न लेभिरे ॥६-२२-८३॥

केचिद् वैहायस गताः सुपर्णा इव पुप्लुवुः ।
घोषेण महता घोषम् सागरस्य समुच्च्रितम् ॥६-२२-८४॥

भीमम् अन्तर् दधे भीमा तरन्ती हरि वाहिनी ।
वानराणाम् हि सा तीर्णा वाहिनी नल सेतुना ॥६-२२-८५॥

तीरे निविविशे राज्ञा बहु मूल फल उदके ।
तद् अद्भुतम् राघव कर्म दुष्करम् ।
समीक्ष्य देवाः सह सिद्ध चारणैः ।
उपेत्य रामम् सहिता महर्षिभिः ।
समभ्यषिन्चन् सुशुभिअर् जलैः पृथक् ॥६-२२-८६॥

जयस्व शत्रून् नर देव मेदिनीम् ।
ससागराम् पालय शाश्वतीः समाः ।
इति इव रामम् नर देव सत्कृतम् ।
शुभैर् वचोभिर् विविधैर् अपूजयन् ॥६-२२-८७॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे द्वाविंशः सर्गः ॥६-२२॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

बाहरी कडियाँ[सम्पाद्यताम्]