रामायणम्/युद्धकाण्डम्/सर्गः १०६
← सर्गः १०५ | रामायणम् सर्गः १०६ वाल्मीकिः |
सर्गः १०७ → |
स तु मोहात् सुसङ्क्रुद्धः कृतान्तबलचोदितः ।
क्रोधसंरक्तनयनो रावणः सूतमब्रवीत् ।। ६.१०६.१ ।।
हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम् ।
भीरुं लघुमिवासत्त्वं विहीनमिव तेजसा ।। ६.१०६.२ ।।
विमुक्तमिव मायाभिरस्त्रैरिव बहिष्कृतम् ।
मामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे ।। ६.१०६.३ ।।
किमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च ।
त्वया शत्रोः समक्षं मे रथो ऽयमपवाहितः ।। ६.१०६.४ ।।
त्वया ऽद्य हि ममानार्य चिरकालसमार्जितम् ।
यशो वीर्यं च तेजश्च प्रत्ययश्च विनाशितः ।। ६.१०६.५ ।।
शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः ।
पश्यतो युद्धलुब्धो ऽहं कृतः कापुरुषस्त्वया ।। ६.१०६.६ ।।
यस्त्वं रथमिमं मोहात् न चोद्वहसि दुर्मते ।
सत्यो ऽयं प्रतितर्को मे परेण त्वमुपस्कृतः ।। ६.१०६.७ ।।
न हि तद्विद्यते कर्म सुहृदो हितकाङ्क्षिणः ।
रिपूणां सदृशं चैतन्न त्वयैतत् स्वनुष्ठितम् ।। ६.१०६.८ ।।
निवर्तय रथं शीघ्रं यावन्नोपैति मे रिपुः ।
यदि वा ऽध्युषितो वा ऽसि स्मर्यन्ते यदि वा गुणाः ।। ६.१०६.९ ।।
एवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना ।
अब्रवीद्रावणं सूतो हितं सानुनयं वचः ।। ६.१०६.१० ।।
न भीतो ऽस्मि न मूढो ऽस्मि नोपजप्तो ऽस्मि शत्रुभिः ।
न प्रमत्तो न निस्नेहो विस्मृता न च सत्क्रिया ।। ६.१०६.११ ।।
मया तु हितकामेन यशश्च परिरक्षता ।
स्नेहप्रस्कन्नमनसा प्रियमित्यप्रियं कृतम् ।। ६.१०६.१२ ।।
नास्मिन्नर्थे महाराज त्वं मां प्रियहिते रतम् ।
कश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि ।। ६.१०६.१३ ।।
श्रूयतां त्वभिधास्यामि यन्निमित्तं मया रथः ।
नदीवेग इवाभोगे संयुगे विनिवर्तितः ।। ६.१०६.१४ ।।
क्षमं तवावगच्छामि महता रणकर्मणा ।
न हि ते वीर सौमुख्यं प्रहर्षं वोपधारये ।। ६.१०६.१५ ।।
रथोद्वहनखिन्नाश्च त इमे रथवाजिनः ।
दीना धर्मपरिश्रान्ता गावो वर्षहता इव ।। ६.१०६.१६ ।।
निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः ।
तेषु तेष्वभिपन्नेषु लक्षयाम्यप्रदक्षिणम् ।। ६.१०६.१७ ।।
देशकालौ च विज्ञेयौ लक्षणानीङ्गीतानि च ।
दैन्यं खेदश्च हर्षश्च रथिनश्च बलाबलम् ।। ६.१०६.१८ ।।
स्थलनिम्नानि भूमेश्च समानि विषमाणि च ।
युद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम् ।। ६.१०६.१९ ।।
उपयानापयाने च स्थानं प्रत्यपसर्पणम् ।
सर्वमेतद्रथस्थेन ज्ञेयं रथकुटुम्बिना ।। ६.१०६.२० ।।
तव विश्रमहेतोश्च तथैषां रथवाजिनाम् ।
रौद्रं वर्जयता खेदं क्षमं कृतमिदं मया ।। ६.१०६.२१ ।।
न मया स्वेच्छया वीर रथो ऽयमपवाहितः ।। ६.१०६.२२ ।।
भर्तृस्नेहपरीतेन मयेदं यत्कृतं विभो ।। ६.१०६.२३ ।।
आज्ञापय यथातत्त्वं वक्ष्यस्यरिनिषूदन ।
तत्करिष्याम्यहं वीर गतानृण्येन चेतसा ।। ६.१०६.२४ ।।
सन्तुष्टस्तेन वाक्येन रावणस्तस्य सारथेः ।
प्रशस्यैनं बहुविधं युद्धलुब्धो ऽब्रवीदिदम् ।। ६.१०६.२५ ।।
रथं शीघ्रमिमं सूत राघवाभिमुखं कुरु ।
नाहत्वा समरे शत्रून् निवर्तिष्यति रावणः ।। ६.१०६.२६ ।।
एवमुक्त्वा ततस्तुष्टो रावणो राक्षसेश्वरः ।
ददौ तस्मै शुभं ह्येकं हस्ताभरणमुत्तमम् ।। ६.१०६.२७ ।।
श्रुत्वा रावणवाक्यं तु सारथिः सन्न्यवर्तत ।। ६.१०६.२८ ।।
ततो द्रुतं रावणवाक्यचोदितः प्रचोदयामास हयान् स सारथिः ।
स राक्षसेन्द्रस्य ततो महारथः क्षणेन रामस्य रणाग्रतो ऽभवत् ।। ६.१०६.२९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षडुत्तरशततमः सर्गः ।। १०६ ।।