रामायणम्/युद्धकाण्डम्/सर्गः ८१

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ८० रामायणम्
सर्गः ८१
वाल्मीकिः
सर्गः ८२ →
रामायणम्/युद्धकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११
  112. सर्गः ११२
  113. सर्गः ११३
  114. सर्गः ११४
  115. सर्गः ११५
  116. सर्गः ११६
  117. सर्गः ११७
  118. सर्गः ११८
  119. सर्गः ११९
  120. सर्गः १२०
  121. सर्गः १२१
  122. सर्गः १२२
  123. सर्गः १२३
  124. सर्गः १२४
  125. सर्गः १२५
  126. सर्गः १२६
  127. सर्गः १२७
  128. सर्गः १२८
  129. सर्गः १२९
  130. सर्गः १३०
  131. सर्गः १३१

विज्ञाय तु मनस्तस्य राघवस्य महात्मनः ।
सन्निवृत्याहवात्तस्मात् संविवेश पुरं ततः ।। ६.८१.१ ।।

सो ऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम् ।
क्रोधताम्रेक्षणः शूरो निर्जगाम महाद्युतिः ।। ६.८१.२ ।।

स पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः ।
इन्द्रजित्तु महावीर्यः पौलस्त्यो देवकण्टकः ।। ६.८१.३ ।।

इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ ।
रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत्तदा ।। ६.८१.४ ।।

इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं ततः ।
बलेन महता ऽ ऽवृत्य तस्या वधमरोचयत् ।। ६.८१.५ ।।

मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः ।
हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ ।। ६.८१.६ ।।

तं दृष्ट्वा त्वभिनिर्यान्तं नगर्याः काननौकसः ।
उत्पेतुरभिसङ्क्रुद्धाः शिलाहस्ता युयुत्सवः ।। ६.८१.७ ।।

हनुमान् पुरतस्तेषां जगाम कपिकुञ्जरः ।
प्रगृह्य सुमहच्छृङ्गं पर्वतस्य दुरासदम् ।। ६.८१.८ ।।

स ददर्श हतानन्दां सीतामिन्द्रजितो रथे ।
एकवेणीधरां दीनामुपवासकृशाननाम् ।। ६.८१.९ ।।

परिक्लिष्टैकवसनाममृजां राघवप्रियाम् ।
रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम् ।। ६.८१.१० ।।

तां निरीक्ष्य मुहूर्तं तु मैथिलीत्यध्यवस्य तु ।
बभूवाचिरदृष्टा हि तेन सा जनकात्मजा ।। ६.८१.११ ।।

तां दीनां मलदिग्धाङ्गीं रथस्थां दृश्य मैथिलीम् ।
बाष्पपर्याकुलमुखो हनुमान् व्यथितो ऽभवत् ।। ६.८१.१२ ।।

अब्रवीत्तां तु शोकार्तां निरानन्दां तपस्विनीम् ।
सीतां रथस्थितां दृष्ट्वा राक्षसेन्द्रसुताश्रिताम् ।
किं समर्थितमस्येति चिन्तयन् स महाकपिः ।। ६.८१.१३ ।।

सह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम् ।। ६.८१.१४ ।।

तद्वानरबलं दृष्ट्वा रावणिः क्रोधमूर्च्छितः ।
कृत्वा विकोशं निस्त्रिंशं मूर्ध्नि सीतां परामृशत् ।। ६.८१.१५ ।।

तां स्त्रियं पश्यतां तेषां ताडयामास रावणिः ।
क्रोशन्तीं राम रामेति मायया योजितां रथे ।। ६.८१.१६ ।।

गृहीतमूर्धजां दृष्ट्वा हनुमान् दैन्यमागतः ।
शोकजं वारि नैत्राभ्यामसृजन्मारुतात्मजः ।। ६.८१.१७ ।।

तां दृष्ट्वा चारुसर्वाङ्गीं रामस्य महिषीं प्रियाम् ।
अब्रवीत् परुषं वाक्यं क्रोधाद्रक्षोधिपात्मजम् ।। ६.८१.१८ ।।

दुरात्मन्नात्मनाशाय केशपक्षे परामृशः ।
ब्रह्मर्षीणां कुले जातो राक्षसीं योनिमाश्रितः ।। ६.८१.१९ ।।

धिक् त्वां पापसमाचारं यस्य ते मतिरीदृशी ।। ६.८१.२० ।।

नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम ।
अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण ।। ६.८१.२१ ।।

च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिली ।
किं तवैषा ऽपराद्धा हि यदेनां हन्तुमिच्छसि ।। ६.८१.२२ ।।

सीतां च हत्वा न चिरं जीविष्यसि कथञ्चन ।
वधार्ह कर्मणा ऽनेन मम हस्तगतो ह्यसि ।। ६.८१.२३ ।।

ये च स्त्रीघातिनां लोका लोकवध्येषु कुत्सिताः ।
इह जिवितमुत्सृज्य प्रेत्य तान् प्रतिपत्स्यसे ।। ६.८१.२४ ।।

इति ब्रुवाणो हनुमान् सायुधैर्हरिभिर्वृतः ।
अभ्यधावत सङ्क्रुद्धो राक्षसेन्द्रसुतं प्रति ।। ६.८१.२५ ।।

आपतन्तं महावीर्यं तदनीकं वनौकसाम् ।
रक्षसां भीमवेगानामनीकं तु न्यवारयत् ।। ६.८१.२६ ।।

स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम् ।
हरिश्रेष्ठं हनूमन्तमिन्द्रजित् प्रत्युवाच ह ।। ६.८१.२७ ।।

सुग्रीवस्त्वं च रामश्च यन्निमित्तमिहागताः ।
तां हनिष्यामि वैदेहीमद्यैव तव पश्यतः ।। ६.८१.२८ ।।

इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर ।
सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम् ।। ६.८१.२९ ।।

न हन्तव्याः स्त्रियश्चेति यद्ब्रवीषि प्लवङ्गम ।
पीडाकरममित्राणां यत् स्यात् कर्तव्यमेव तत् ।। ६.८१.३० ।।

तमेवमुक्त्वा रुदतीं सीतां मायामयीं तदा ।
शितधारेण खड्गेन निजघानेन्द्रजित् स्वयम् ।। ६.८१.३१ ।।

यज्ञोपवीतमार्गेण भिन्ना तेन तपस्विनी ।
सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना ।
तामिन्द्रजित्स्वयं हत्वा हनुमन्तमुवाच ह ।। ६.८१.३२ ।।

मया रामस्य पश्येमां कोपेन च निषूदिताम् ।
एषा विशस्ता वैदेही विफलो वः परिश्रमः ।। ६.८१.३३ ।।

ततः खड्गेन महता हत्वा तामिन्द्रिजित् स्वयम् ।
हृष्टः स रथमास्थाय विननाद महास्वनम् ।। ६.८१.३४ ।।

वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताः ।
व्यादितास्यस्य नदतस्तहुर्गं संश्रितस्य च ।। ६.८१.३५ ।।

तथा तु सीतां विनिहत्य दुर्मतिः प्रहृष्टचेताः स बभूव रावणिः ।
तं हृष्टरूपं समुदीक्ष्य वानरा विषण्णरूपाः सहसा प्रदुद्रुवुः ।। ६.८१.३६ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकाशीतितमः सर्गः ।। ८१ ।।