रामायणम्/युद्धकाण्डम्/सर्गः १२६
← सर्गः १२५ | रामायणम् सर्गः १२६ वाल्मीकिः |
सर्गः १२७ → |
अनुज्ञातंस्तु रामेण तद्विमानमनुत्तमम् ।
उत्पपात महामेघः श्वसनेनोद्धतो यथा ।। ६.१२६.१ ।।
पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः ।
अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम् ।। ६.१२६.२ ।।
कैलासशिखराकारे त्रिकूटशिखरे स्थिताम् ।
लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा ।। ६.१२६.३ ।।
एतदायोधनं पश्य मांसशोणितकर्दमम् ।
हरीणां राक्षसानां च सीते विशसनं महत् ।। ६.१२६.४ ।।
अत्र दत्तवरः शेते प्रमाथी राक्षसेश्वरः ।
तव हेतोर्विशालाक्षि रावणो निहतो मया ।। ६.१२६.५ ।।
कुम्भकर्णो ऽत्र निहतः प्रहस्तश्च निशाचरः ।
धूम्राक्षश्चात्र निहतो वानरेण हनूमता ।। ६.१२६.६ ।।
विद्युन्माली हतश्चात्र सुषेणेन महात्मना ।। ६.१२६.७ ।।
लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे ।
अङ्गदेनात्र निहतो विकटो नाम राक्षसः ।। ६.१२६.८ ।।
विरूपाक्षश्च दुर्धर्षो महापार्श्वमहोदरौ ।
अकम्पनश्च निहतो बलिनो ऽन्ये च राक्षसाः ।। ६.१२६.९ ।।
अत्र मण्डोदरी नाम भार्या तं पर्यदेवयत् ।
सपत्नीनां सहस्रेण सास्रेण परिवारिता ।। ६.१२६.१० ।।
एतत्तु दृश्यते तीर्थं समुद्रस्य वरानने ।
यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम् ।। ६.१२६.११ ।।
एष सेतुर्मया बद्धः सागरे सलिलार्णवे ।
तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः ।। ६.१२६.१२ ।।
पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम् ।
अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम् ।। ६.१२६.१३ ।।
हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि ।
विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम् ।। ६.१२६.१४ ।।
एतत् कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम् ।। ६.१२६.१५ ।।
एतत्तु दृश्यते तीर्थं सागरस्य महात्मनः ।
सेतुबन्ध इति ख्यातं त्रैलोक्येनाभिपूजितम् ।
एतत् पवित्रं परमं महापातकनाशनम् ।। ६.१२६.१६ ।।
अत्र पूर्वं महादेवः प्रसादमकरोत् प्रभुः ।। ६.१२६.१७ ।।ि ख्यातं त्रैलोक्येनाभिपूजितम् ।
अत्र राक्षसराजो ऽयमाजगाम विभीषणः ।। ६.१२६.१८ ।।१७ ।।ि ख्यातं त्रैलोक्येनाभिपूजितम् ।
एषा सा दृश्यते सीते किष्किन्धा चित्रकानना ।
सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः ।। ६.१२६.१९ ।।
अथ दृष्ट्वा पुरीं सीता किष्किन्धां वालिपालिताम् ।
अब्रवीत् प्रश्रितं वाक्यं रामं प्रणयसाध्वसा ।। ६.१२६.२० ।।
सुग्रीवप्रियभार्याभिस्ताराप्रमुखतो नृप ।
अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम् ।
गन्तुमिच्छे सहायोध्यां राजधानीं त्वया ऽनघ ।। ६.१२६.२१ ।।
एवमुक्तो ऽथ वैदेह्या राघवः प्रत्युवाच ताम् ।
एवमस्त्विति किष्किन्धां प्राप्य संस्थाप्य राघवः ।
विमानं प्रेक्ष्य सुग्रीवं वाक्यमेतदुवाच ह ।। ६.१२६.२२ ।।
ब्रूहि वानरशार्दूल सर्वान् वानरपुङ्गवान् ।
स्वदारसहिताः सर्वे ह्ययोध्यां यान्तु सीतया ।। ६.१२६.२३ ।।
तथा त्वमपि सर्वाभिः स्त्रीभिः सह महाबल ।
अभित्वरस्व सुग्रीव गच्छामः प्लवगेश्वर ।। ६.१२६.२४ ।।
एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा ।
वानराधिपतिः श्रीमांस्तैश्च सर्वैः समावृतः ।। ६.१२६.२५ ।।
प्रविश्यान्तःपुरं शीघ्रं तारामुद्वीक्ष्य भाषत ।। ६.१२६.२६ ।।
प्रिये त्वं सह नारीभिर्वानराणां महात्मनाम् ।
राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया ।। ६.१२६.२७ ।।
त्वर त्वमभिगच्छामो गृह्य वानरयोषितः ।
अयोध्यां दर्शयिष्यामः सर्वा दशरथस्त्रियः ।। ६.१२६.२८ ।।
सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना ।
आहूय चाब्रवीत् सर्वा वानराणां तु योषितः ।। ६.१२६.२९ ।।
सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वैश्च वानरैः ।।
मम चापि प्रियं कार्यमयोध्यादर्शनेन च ।। ६.१२६.३० ।।
प्रवेशं चापि रामस्य पौरजानपदैः सह ।
विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च ।। ६.१२६.३१ ।।
तारया चाभ्यनुज्ञाताः सर्वा वानरयोषितः ।
नेपथ्यं विधिपूर्वेण कृत्वा चापि प्रदक्षिणम् ।
अध्यारोहन् विमानं तत् सीतादर्शनकाङ्क्षया ।। ६.१२६.३२ ।।
ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः ।
ऋश्यमूकसमीपे तु वैदेहीं पुनरब्रवीत् ।। ६.१२६.३३ ।।
दृश्यते ऽसौ महान् सीते सविद्युदिव तोयदः ।
ऋश्यमूको गिरिश्रेष्ठः काञ्चनैर्धातुभिर्वृतः ।। ६.१२६.३४ ।।
अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः ।
समयश्च कृतः सीते वधार्थं वालिनो मया ।। ६.१२६.३५ ।।
एषा सा दृश्यते पम्पा नलिनी चित्रकानना ।
त्वया विहीनो यत्राहं विललाप सुदुःखितः ।
अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी ।। ६.१२६.३६ ।।
अत्र योजनबाहुश्च कबन्धो निहतो मया ।। ६.१२६.३७ ।।विहीनो यत्राहं विललाप सुदुःखितः ।
दृश्यते च जनस्थाने सीते श्रीमान् वनस्पतिः ।
यत्र युद्धं महद्वृत्तं तव हेतोर्विलासिनि ।
रावणस्य नृशंसस्य जटायोश्च महात्मनः ।। ६.१२६.३८ ।।
खरश्च निहतो यत्र दूषणश्च निपातितः ।
त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः ।
एतत्तदाश्रमपदमस्माकं वरवर्णिनि ।। ६.१२६.३९ ।।
पर्णशाला तथा चित्रा दृश्यते शुभदर्शना ।
यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात् ।। ६.१२६.४० ।।
एषा गोदावरी रम्या प्रसन्नसलिला शिवा ।
अगस्त्यस्याश्रमो ह्येष दृश्यते पश्य मैथिलि ।। ६.१२६.४१ ।।
दीप्तश्चैवाश्रमो ह्येष सुतीक्ष्णस्य महात्मनः ।। ६.१२६.४२ ।।
वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान् ।
उपयातः सहस्राक्षो यत्र शक्रः पुरन्दरः ।। ६.१२६.४३ ।।
अस्मिन् देशे महाकायो विराधो निहतो मया ।। ६.१२६.४४ ।।
एते हि तापसावासा दृश्यन्ते तनुमध्यमे ।
अत्रिः कुलपतिर्यत्र सूर्यवैश्वानप्रभः ।
अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी ।। ६.१२६.४५ ।।
असौ सुतनु शैलेन्द्रश्चित्रकूटः प्रकाशते ।
यत्र मां केकयीपुत्रः प्रसादयितुमागतः ।। ६.१२६.४६ ।।
एषा सा यमुना दूराद्दृश्यते चित्रकानना ।। ६.१२६.४७ ।।
भरद्वाजाश्रमो यत्र श्रीमानेष प्रकाशते ।। ६.१२६.४८ ।।
एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि ।
नानाद्विजगणाकीर्णा सम्प्रयुष्पितकानना ।। ६.१२६.४९ ।।
शृङ्गिवेरपुरं चैतद् गुहो यत्र समागतः ।। ६.१२६.५० ।।
एषा सा दृश्यते सीते सरयूर्यूपमालिनी ।
नानातरुशताकीर्णा सम्प्रपुष्पितकानना ।। ६.१२६.५१ ।।
एषा सा दृश्यते ऽयोध्या राजधानी पितुर्मम् ।
अयोध्यां कुरु वैदेहि प्रणामं पुनरागता ।। ६.१२६.५२ ।।
ततस्ते वानराः सर्वे राक्षसश्च विभीषणः ।
उत्पत्योत्पत्य ददृशुस्तां पुरीं शुभदर्शनाम् ।। ६.१२६.५३ ।।
ततस्तु तां पाम्डुरहर्म्यमालिनीं विशालकक्ष्यां गजवाजिसङ्कुलाम् ।
पुरीमयोध्यां ददृशुः प्लवङ्गमाः पुरीं महेन्द्रस्य यथा ऽमरावतीम् ।। ६.१२६.५४ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षड्विंशत्युत्तरशततमः सर्गः ।। १२६ ।।