रामायणम्/युद्धकाण्डम्/सर्गः ४३
← सर्गः ४२ | रामायणम् सर्गः ४३ वाल्मीकिः |
सर्गः ४४ → |
युद्ध्यातां तु ततस्तेषां वानराणां महात्मनाम् ।
रक्षसां सम्बभूवाथ बलकोपः सुदारुणः ।। ६.४३.१ ।।
ते हयैः काञ्चनापीडैर्ध्वजैश्चाग्निशिखोपमैः ।
रथैश्चादित्यसङ्काशैः कवचैश्च मनोरमैः ।। ६.४३.२ ।।
निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश ।
राक्षसा भीमकर्माणो रावणस्य जयैषिणः ।। ६.४३.३ ।।
वानराणामपि चमूर्बृहती जयमिच्छताम् ।
अभ्यधावत तां सेनां रक्षसां कामरूपिणाम् ।। ६.४३.४ ।।
एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम् ।
रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत ।। ६.४३.५ ।।
अङ्गदेनेन्द्रजित् सार्धं वालिपुत्रेण राक्षसः ।
अयुध्यत महातेजास्त्र्यम्बकेण यथा ऽन्तकः ।। ६.४३.६ ।।
प्रजङ्घेन च सम्पातिर्नित्यं दुर्मर्षणो रणे ।
जम्बुमालिनमारब्धो हनुमानपि वानरः ।। ६.४३.७ ।।
सङ्गतः सुमहाक्रोधो राक्षसो रावणानुजः ।
समरे तीक्ष्णवेगेन मित्रघ्नेन विभीषणः ।। ६.४३.८ ।।
तपनेन गजः सार्धं राक्षसेन महाबलः ।
निकुम्भेन महातेजा नीलो ऽपि समयुद्ध्यत ।। ६.४३.९ ।।
वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतः ।
सङ्गतः समरे श्रीमान् विरूपाक्षेण लक्ष्मणः ।। ६.४३.१० ।।
आग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ।
सुप्तघ्नो यज्ञकोपश्च रामेण सह सङ्गताः ।। ६.४३.११ ।।
वज्रमुष्टिस्तु मैन्देन द्विविदानशनिप्रभः ।
राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ ।। ६.४३.१२ ।।
वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः ।
समरे तीक्ष्णवेगेन नलेन समयुद्ध्यत ।। ६.४३.१३ ।।
धर्मस्य पुत्रो बलवान् सुषेण इति विश्रुतः ।
स विद्युन्मालिना सार्धमयुध्यत महाकपिः ।। ६.४३.१४ ।।
वानराश्चापरे भीमा राक्षसैरपरैः सह ।
द्वन्द्वं समीयुर्बहुधा युद्धाय बहुभिः सह ।। ६.४३.१५ ।।
तत्रासीत् सुमहद्युद्धं तुमुलं रोमहर्षणम् ।
रक्षसां वानराणां च वीराणां जयमिच्छताम् ।। ६.४३.१६ ।।
हरिराक्षसदेहेभ्यः प्रभृताः केशशाद्वलाः ।
शरीरसङ्घाटवहाः प्रसस्रुः शोणितापगाः ।। ६.४३.१७ ।।
आजघानेन्द्रजित् क्रुद्धो वज्रेणेव शतक्रतुः ।
अङ्गदं गदया वीरं शत्रुसैन्यविदारणम् ।। ६.४३.१८ ।।
तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम् ।
जघान समरे श्रीमानङ्गदो वेगवान् कपिः ।। ६.४३.१९ ।।
सम्पातिस्तु त्रिभिर्बाणैः प्रजङ्घेन समाहतः ।
निजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि ।। ६.४३.२० ।।
जम्बुमाली रथस्थस्तु रथशक्त्या महाबलः ।
बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे ।। ६.४३.२१ ।।
तस्य तं रथमास्थाय हनूमान् मारुतत्मजः ।
प्रममाथ तलेनाशु सह तेनैव रक्षसा ।। ६.४३.२२ ।।
नदन् प्रतपनो घोरो नलं सो ऽप्यन्वधावत ।। ६.४३.२३ ।।
नलः प्रतपनस्याशु पातयामास चक्षुषी ।
भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा ।। ६.४३.२४ ।।
ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः ।
सुग्रीवः सप्तपर्णेन निर्बिभेद जघान च ।। ६.४३.२५ ।।
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ।
सुप्तघ्नो यज्ञकोपश्च रामं निर्बिभिदुः शरैः ।। ६.४३.२६ ।।
तेषां चतुर्णां रामस्तु शिरांसि निशितैः शरै ।
क्रुद्धश्चतुर्भिश्चिच्छेद घोरैरग्निशिखोपमैः ।। ६.४३.२७ ।।
वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे ।
पपात सरथः साश्वः पुराट्ट इव भूतले ।। ६.४३.२८ ।।
निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम् ।
निर्बिभेद शरैस्तीक्ष्णैः करैर्मेघमिवांशुमान् ।। ६.४३.२९ ।।
पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरः ।
बिभेद समरे नीलं निकुम्भः प्रजहास च ।। ६.४३.३० ।।
तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे ।
शिरश्चिच्छेद समरे निकुम्भस्य च सारथेः ।। ६.४३.३१ ।।
वज्राशनिसमस्पर्शो द्विविदो ऽप्यशनिप्रभम् ।
जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम् ।। ६.४३.३२ ।।
द्विविदं वानरेन्द्रं तु नगयोधिनमाहवे ।
शरैरशनि सङ्काशैः स विव्याधाशनिप्रभः ।। ६.४३.३३ ।।
स शरैरतिविद्धाङ्गो द्विविदः क्रोधमूर्च्छितः ।
सालेन सरथं साश्वं निजघानाशनिप्रभम् ।। ६.४३.३४ ।।
विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः ।
सुषेणं ताडयामास ननाद च मुहुर्मुहुः ।। ६.४३.३५ ।।
तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः ।
गिरिशृङ्गेण महता रथमाशु न्यपातयत् ।। ६.४३.३६ ।।
लाघवेन तु संयुक्तो विद्युन्माली निशाचरः ।
अपक्रम्य रथात्तूर्णं गदापाणिः क्षितौ स्थितः ।। ६.४३.३७ ।।
ततः क्रोधसमाविष्टः सुषेणो हरिपुङ्गवः ।
शिलां सुमहतीं गृह्य निशाचरमभिद्रवत् ।। ६.४३.३८ ।।
तमापतन्तं गदया विद्युन्माली निशाचरः ।
वक्षस्यभिजघानाशु सुषेणं हरिसत्तमम् ।। ६.४३.३९ ।।
गदाप्रहारं तं घोरमचिन्त्य प्लवगोत्तमः ।
तां शिलां पातयामास तस्योरसि महामृधे ।। ६.४३.४० ।।
शिलाप्रहाराभिहतो विद्युन्माली निशाचरः ।
निष्पिष्टहृदयो भूमौ गतासुर्निपपात ह ।। ६.४३.४१ ।।
एवं तैर्वानरैः शूरैः शूरास्ते रजनीचराः ।
द्वन्द्वे विमृदितास्तत्र दैत्या इव दिवौकसैः ।। ६.४३.४२ ।।
निहतैः कुञ्जरैर्मत्तैस्तथा वानरराक्षसैः ।
चक्राक्षयुगदण्डैश्च भग्नैर्धरणिसंश्रितैः ।
बभूवायोधनं घोरं गोमायुगणसङ्कुलम् ।। ६.४३.४३ ।।
कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम् ।
विमर्दे तुमुले तस्मिन् देवासुररणोपमे ।। ६.४३.४४ ।।
विदार्यमाणा हरिपुङ्गवैस्तदा निशाचराः शोणितदिग्धगात्राः ।
पुनः सुयुद्धं तरसा समास्थिता दिवाकरस्यास्तमयाभिकाङ्क्षिणः ।। ६.४३.४५ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रिचत्वारिंशः सर्गः ।। ४३ ।।
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।