रामायणम्/युद्धकाण्डम्/सर्गः ३७

विकिस्रोतः तः
Jump to navigation Jump to search
रामायणम्/युद्धकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११
  112. सर्गः ११२
  113. सर्गः ११३
  114. सर्गः ११४
  115. सर्गः ११५
  116. सर्गः ११६
  117. सर्गः ११७
  118. सर्गः ११८
  119. सर्गः ११९
  120. सर्गः १२०
  121. सर्गः १२१
  122. सर्गः १२२
  123. सर्गः १२३
  124. सर्गः १२४
  125. सर्गः १२५
  126. सर्गः १२६
  127. सर्गः १२७
  128. सर्गः १२८
  129. सर्गः १२९
  130. सर्गः १३०
  131. सर्गः १३१

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तत्रिंशः सर्गः ॥६-३७॥

नरवानरराजौ तौ स च वायुसुतः कपिः
जाम्बवानृक्षराजश्च राक्षसश्च विभीषणः १
अङ्गदो वालिपुत्रश्च सौमित्रिः शरभः कपिः
सुषेणः सहदायादो मैन्दो द्विविद एव च २
गजो गवाक्षः कुमुदो नलोऽथ पनसस्तथा
अमित्रविषयं प्राप्ताः समवेताः समर्थयन् ३
इयं सा लक्ष्यते लङ्का पुरी रावणपालिता
सासुरोरगगन्धर्वैरमरैरपि दुर्जया ४
कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये
नित्यं संनिहितो ह्यत्र रावणो राक्षसाधिपः ५
तथा तेषु ब्रुवाणेषु रावणावरजोऽब्रवीत्
वाक्यमग्राम्यपदवत्पुष्कलार्थं विभीषणः ६
अनलः शरभश्चैव संपातिः प्रघसस्तथा
गत्वा लङ्कां ममामात्याः पुरीं पुनरिहागताः७
भूत्वा शकुनयः सर्वे प्रविष्टाश्च रिपोर्बलम्
विधानं विहितं यच्च तद्दृष्ट्वा समुपस्थिताः८
संविधानं यथाहुस्ते रावणस्य दुरात्मनः
राम तद्ब्रुवतः सर्वं यथातथ्येन मे शृणु ९
पूर्वं प्रहस्तः सबलो द्वारमासाद्य तिष्ठति
दक्षिणं च महावीर्यौ महापार्श्वमहोदरौ १०
इन्द्रजित्पश्चिमद्वारं राक्षसैर्बहुभिर्वृतः
पट्टसासिधनुष्मद्भिः शूलमुद्गरपाणिभिः ११
नानाप्रहरणैः शूरैरावृतो रावणात्मजः
राक्षसानां सहस्रैस्तु बहुभिः शस्त्रपाणिभिः १२
युक्तः परमसंविग्नो राक्षसैर्बहुभिर्वृतः
उत्तरं नगरद्वारं रावणः स्वयमास्थितः १३
विरूपाक्षस्तु महता शूलखड्गधनुष्मता
बलेन राक्षसैः सार्धं मध्यमं गुल्ममास्थितः १४
एतानेवंविधान्गुल्माँल्लङ्कायां समुदीक्ष्य ते
मामकाः सचिवाः सर्वे शीघ्रं पुनरिहागताः १५
गजानां सहस्रं च रथानामयुतं पुरे
हयानामयुते द्वे च साग्रकोटी च रक्षसाम् १६
विक्रान्ता बलवन्तश्च संयुगेष्वाततायिनः
इष्टा राक्षसराजस्य नित्यमेते निशाचराः १७
एकैकस्यात्र युद्धार्थे राक्षसस्य विशां पते
परिवारः सहस्राणां सहस्रमुपतिष्ठते १८
एतां प्रवृत्तिं लङ्कायां मन्त्रिप्रोक्तां विभीषणः
रामं कमलपत्राक्षमिदमुत्तरमब्रवीत् १९
कुबेरं तु यदा राम रावणः प्रत्ययुध्यत
षष्टिः शतसहस्राणि तदा निर्यान्ति राक्षसाः २०
पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात्
सदृशा येऽत्र दर्पेण रावणस्य दुरात्मनः २१
अत्र मन्युर्न कर्तव्यो रोषये त्वां न भीषये
समर्थो ह्यसि वीर्येण सुराणामपि निग्रहे २२
तद्भवांश्चतुरङ्गेण बलेन महता वृतः
व्यूह्येदं वानरानीकं निर्मथिष्यसि रावणम् २३
रावणावरजे वाक्यमेवं ब्रुवति राघवः
शत्रूणां प्रतिघातार्थमिदं वचनमब्रवीत् २४
पूर्वद्वारे तु लङ्काया नीलो वानरपुंगवः
प्रहस्तं प्रतियोद्धा स्याद्वानरैर्बहुभिर्वृतः २५
अङ्गदो वालिपुत्रस्तु बलेन महता वृतः
दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ २६
हनूमान्पश्चिमद्वारं निपीड्य पवनात्मजः
प्रविशत्वप्रमेयात्मा बहुभिः कपिभिर्वृतः २७
दैत्यदानवसंघानामृषीणां च महात्मनाम्
विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः २८
परिक्रामति यः सर्वांल्लोकान्संतापयन्प्रजाः
तस्याहं राक्षसेन्द्रस्य स्वयमेव वधे धृतः २९
उत्तरं नगरद्वारमहं सौमित्रिणा सह
निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः ३०
वानरेन्द्रश्च बलवानृक्षराजश्च जाम्बवान्
राक्षसेन्द्रानुजश्चैव गुल्मे भवतु मध्यमे ३१
न चैव मानुषं रूपं कार्यं हरिभिराहवे
एषा भवतु नः संज्ञा युद्धेऽस्मिन्वानरे बले ३२
वानरा एव नश्चिह्नं स्वजनेऽस्मिन्भविष्यति
वयं तु मानुषेणैव सप्त योत्स्यामहे परान् ३३
अहमेव सह भ्रात्रा लक्ष्मणेन महौजसा
आत्मना पञ्चमश्चायं सखा मम विभीषणः ३४
स रामः कार्यसिर्द्ध्य्थमेवमुक्त्वा विभीषणम्
सुवेलारोहणे बुद्धिं चकार मतिमान्मतिम् ३५
ततस्तु रामो महता बलेन
प्रच्छाद्य सर्वां पृथिवीं महात्मा
प्रहृष्टरूपोऽभिजगाम लङ्कां
कृत्वा मतिं सोऽरिवधे महात्मा ३६

इति श्रीरामायणे युद्धकाण्डे अष्टाविंशतितमः सर्गः २८


संधिरहित पाठः-

नर वानर राजौ तौ स च वायु सुतः कपिः ।
जाम्बवान् ऋक्ष राजसः च राक्षससः च विभीषणः ॥६-३७-१॥

अन्गदो वालि पुत्रसः च सौमित्रिः शरभः कपिः ।
सुषेणः सह दायादो मैन्दो द्विविद;एव च ॥६-३७-२॥

गजो गव अक्षो कुमुदो नलो अथ पनसस् तथा ।
अमित्र विषयम् प्राप्ताः समवेताः समर्थयन् ॥६-३७-३॥

इयम् सा लक्ष्यते लन्का पुरी रावण पालिता ।
सासुर उरग गन्धर्वैर् अमरैर् अपि दुर्जया ॥६-३७-४॥

कार्य सिद्धिम् पुरस् क्Rत्य मन्त्रयध्वम् विनिर्णये ।
नित्यम् सम्निहितो ह्य् अत्र रावणो राक्षस अधिपः ॥६-३७-५॥

तथा तेषु ब्रुवाणेषु रावण अवरजो अब्रवीत् ।
वाक्यम् अग्राम्य पदवत् पुष्कल अर्थम् विभीषणः ॥६-३७-६॥

अनलः शरभसः चैव सम्पातिः प्रघसस् तथा ।
गत्वा लन्काम् मम अमात्याः पुरीम् पुनर् इह आगताः ॥६-३७-७॥

भूत्वा शकुनयः सर्वे प्रविष्टासः च रिपोर् बलम् ।
विधानम् विहितम् यच् च तद् द्Rष्ट्वा समुपस्थिताः ॥६-३७-८॥

सम्विधानम् यथा आहुस् ते रावणस्य दुरात्मनः ।
राम तद् ब्रुवतः सर्वम् यथातथ्येन मे शृणु ॥६-३७-९॥

पूर्वम् प्रहस्तः सबलो द्वारम् आसाद्य तिष्ठति ।
दक्षिणम् च महा वीर्यौ महा पार्श्व महा उदरौ ॥६-३७-१०॥

इन्द्रजित् पश्चिम द्वारम् राक्षसैर् बहुभिर् वृतः ।
पट्टस असि धनुष्मद्भिः शूल मुद्गर पाणिभिः ॥६-३७-११॥

नाना प्रहरणैः शूरैर् आवृतो रावण आत्मजः ।
राक्षसानाम् सहस्रैस् तु बहुभिः शस्त्र पाणिभिः ॥६-३७-१२॥

युक्तः परम सम्विग्नो राक्षसैर् बहुभिर् व्Rतः ।
उत्तरम् नगर द्वारम् रावणः स्वयम् आस्थितः ॥६-३७-१३॥

विरूप अक्षस् तु महता शूल खड्ग धनुष्मता ।
बलेन राक्षसैः सार्धम् मध्यमम् गुल्मम् आस्थितः ॥६-३७-१४॥

एतान् एवम् विधान् गुल्माम्ल् लन्कायाम् समुदीक्ष्य ते ।
मामकाः सचिवाः सर्वे शीघ्रम् पुनर् इह आगताः ॥६-३७-१५॥

गजानाम् च सहस्रम् च रथानाम् अयुतम् पुरे ।
हयानाम् अयुते द्वे च साग्र कोटी च रक्षसाम् ॥६-३७-१६॥

विक्रान्ता बलवन्तसः च सम्युगेष्व् आततायिनः ।
इष्टा राक्षस राजस्य नित्यम् एते निशा चराः ॥६-३७-१७॥

एक एकस्य अत्र युद्ध अर्थे राक्षसस्य विशाम् पते ।
परिवारः सहस्राणाम् सहस्रम् उपतिष्ठते ॥६-३७-१८॥

एताम् प्रवृत्तिम् लन्कायाम् मन्त्रि प्रोक्तम् विभीषणः ।
रामम् कमल पत्र अक्षम् इदम् उत्तरम् अब्रवीत् ॥६-३७-१९॥

लङ्कायाम् सचिवैः रामाय प्रत्यवेदयत् ।
रामं कमलपत्राक्षमिदमुत्तरमब्रवीत् ॥६-३७-२०॥

रावणावरजः श्रीमान् रामप्रियचिकीर्षया ।
कुबेरम् तु यदा राम रावणः प्रत्ययुध्यत ॥६-३७-२१॥

षष्टिः शत सहस्राणि तदा निर्यान्ति राक्षसाः ।
पराक्रमेण वीर्येण तेजसा सत्त्व गौरवात् ॥६-३७-२२॥

सदृशा यो अत्र दर्पेण रावणस्य दुरात्मनः ।
अत्र मन्युर् न कर्तव्यो रोषये त्वाम् न भीषये ॥६-३७-२३॥

समर्थो ह्य् असि वीर्येण सुराणाम् अपि निग्रहे ।
तद् भवाम्सः चतुर् अन्गेण बलेन महता वृतः ॥६-३७-२४॥

व्यूह्य इदम् वानर अनीकम् निर्मथिष्यसि रावणम् ।
रावण अवरजे वाक्यम् एवम् ब्रुवति राघवः ॥६-३७-२५॥

शत्रूणाम् प्रतिघात अर्थम् इदम् वचनम् अब्रवीत् ।
पूर्व द्वारे तु लन्काया नीलो वानर पुम्गवः ॥६-३७-२६॥

प्रहस्तम् प्रतियोद्धा स्याद् वानरैर् बहुभिर् वृतः ।
अन्गदो वालि पुत्रस् तु बलेन महता वृतः ॥६-३७-२७॥

दक्षिणे बाधताम् द्वारे महा पार्श्व महा उदरौ ।
हनूमान् पश्चिम द्वारम् निपीड्य पवन आत्मजः ॥६-३७-२८॥

प्रविशत्व् अप्रमेय आत्मा बहुभिः कपिभिर् वृतः ।
दैत्य दानव सम्घानाम् ऋषीणाम् च महात्मनाम् ॥६-३७-२९॥

विप्रकार प्रियः क्षुद्रो वर दान बल अन्वितः ।
परिक्रामति यः सर्वाम्ल् लोकान् सम्तापयन् प्रजाः ॥६-३७-३०॥

तस्य अहम् राक्षस इन्द्रस्य स्वयम् एव वधे धृतः ।
उत्तरम् नगर द्वारम् अहम् सौमित्रिणा सह ॥६-३७-३१॥

निपीड्य अभिप्रवेक्ष्यामि सबलो यत्र रावणः ।
वानर इन्द्रसः च बलवान् ऋक्ष राजसः च जाम्बवान् ॥६-३७-३२॥

राक्षस इन्द्र अनुजसः चैव गुल्मे भवतु मध्यमे ।
न च एव मानुषम् रूपम् कार्यम् हरिभिर् आहवे ॥६-३७-३३॥

एषा भवतु नः सम्ज्ना युद्धे अस्मिन् वानरे बले ।
वानरा;एव निश्चिह्नम् स्व जने अस्मिन् भविष्यति ॥६-३७-३४॥

वयम् तु मानुषेण एव सप्त योत्स्यामहे परान् ।
अहम् एव सह भ्रात्रा लक्ष्मणेन महा ओजसा ॥६-३७-३५॥

आत्मना पन्चमसः च अयम् सखा मम विभीषणः ।
स रामः कार्य सिद्ध्य् अर्थम् एवम् उक्त्वा विभीषणम् ॥६-३७-३६॥

सुवेल आरोहणे बुद्धिम् चकार मतिमान् मतिम् ।
रमणीयतरम् दृष्ट्वा सुवेलस्य गिरेस्तट्म् ॥६-३७-३७॥

ततस् तु रामो महता बलेन ।
प्रच्चाद्य सर्वाम् पृथिवीम् महात्मा ।
प्रहृष्ट रूपो अभिजगाम लन्काम् ।
कृत्वा मतिम् सो अरि वधे महात्मा ॥६-३७-३८॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे सप्तत्रिंशः सर्गः ॥६-३७॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

बाहरी कडियाँ[सम्पाद्यताम्]