रामायणम्/युद्धकाण्डम्/सर्गः १२४
← सर्गः १२३ | रामायणम् सर्गः १२४ वाल्मीकिः |
सर्गः १२५ → |
तां रात्रिमुषितं रामं सुखोत्थितमरिन्दमम् ।
अब्रवीत् प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः ।। ६.१२४.१ ।।
स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च ।
चन्दनानि च दिव्यानि माल्यानि विविधानि च ।। ६.१२४.२ ।।
अलङ्कारविदश्चेमा नार्यः पद्मनिभेक्षणाः ।
उपस्थितास्त्वां विधिवत् स्नापयिष्यन्ति राघव ।
प्रतिगृह्णीष्व तत् सर्वं मदनुग्रहकाम्यया ।। ६.१२४.३ ।।
एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषमम् ।। ६.१२४.४ ।।ां विधिवत् स्नापयिष्यन्ति राघव ।
हरीन् सुग्रीवमुख्यांस्त्वं स्नानेनाभिनिमन्त्रय ।। ६.१२४.५ ।।िधिवत् स्नापयिष्यन्ति राघव ।
स तु ताम्यति धर्मात्मा मम हेतोः सुखोचितः ।
सुकुमारो महाबाहुः कुमारः सत्यसंश्रवः ।। ६.१२४.६ ।।
तं विना केकयीपुत्रं भरतं धर्मचारिणम् ।
न मे स्नानं बहुमतं वस्त्राण्याभरणानि च ।। ६.१२४.७ ।।
इत एव पथा क्षिप्रं प्रतिगच्छामि तां पुरीम् ।
अयोध्यामागतो ह्येष पन्थाः परमदुर्गमः ।। ६.१२४.८ ।।
एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः ।। ६.१२४.९ ।।
अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज ।
पुष्पकं नाम भद्रं ते विमानं सूर्यसन्निभम् ।। ६.१२४.१० ।।
मम भ्रातुः कुबेरस्य रावणेनाहृतं बलात् ।
हृतं निर्जित्य सङ्ग्रामे कामगं दिव्यमुत्तमम् ।। ६.१२४.११ ।।
त्वदर्थे पालितं चैतत्तिष्ठत्यतुलविक्रम ।
तदिदं मेघसङ्काशं विमानमिह तिष्ठति ।। ६.१२४.१२ ।।
तेन यास्यसि यानेन त्वमयोध्यां गतज्वरः ।। ६.१२४.१३ ।।
अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् ।। ६.१२४.१४ ।।
वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदभ् ।
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ।। ६.१२४.१५ ।।
अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि ।
प्रीतियुक्तस्य मे राम ससैन्यः ससुहृद्गणः ।। ६.१२४.१६ ।।
सत्क्रियां विहितां तावद्गृहाण त्वं मयोद्यताम् ।
प्रणयाद्वहुमानाच्च सौहृदेन च राघव ।
प्रसादयामि प्रेष्यो ऽहं न खल्वाज्ञापयामि ते ।। ६.१२४.१७ ।।
एवमुक्तस्ततो रामः प्रत्युवाच विभिषणम् ।
रक्षसां वानराणां च सर्वेषां चोपशृण्वताम् ।। ६.१२४.१८ ।।
पूजितो ऽहं त्वया सौम्य साचिव्येन परन्तप ।
सर्वात्मना च चेष्टाभिः सौहृदेनोत्तमेन च ।। ६.१२४.१९ ।।
न खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर ।
तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः ।
मां निवर्तयितुं यो ऽसौ चित्रकूटमुपागतः ।। ६.१२४.२० ।।
शिरसा याचतो यस्य वचनं न कृतं मया ।। ६.१२४.२१ ।।तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः ।
कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् ।
गुरूंश्च सुहृदश्चैव पौरांश्च तनयैः सह ।। ६.१२४.२२ ।।
उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर ।
कृतकार्यस्य मे वासः कथं स्यादिह सम्मतः ।। ६.१२४.२३ ।।
अनुजानीहि मां सौम्य पूजितो ऽस्मि विभीषण ।
मन्युर्न खलु कर्तव्यस्त्वरितं त्वा ऽनुमानये ।। ६.१२४.२४ ।।
राघवस्य वचः श्रुत्वा राक्षसेन्द्रो विभीषणः ।
तं विमानं समादाय तूर्णं प्रतिनिवर्तत ।। ६.१२४.२५ ।।
ततः काञ्चनचित्राङ्गं वैडूर्यमयवेदिकम् ।
कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् ।। ६.१२४.२६ ।।
पाण्डुराभिः पताकाभिर्ध्वजैश्च समलङ्कृतम् ।
शोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितम् ।। ६.१२४.२७ ।।
प्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षितम् ।
घण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् ।। ६.१२४.२८ ।।
यन्मेरुशिखराकारं निर्मितं विश्वकर्मणा ।
बहुभिर्भूषितं हर्म्यैर्मुक्तारजतसन्निभैः ।। ६.१२४.२९ ।।
तलैः स्फाटिकचित्राङ्गैर्वैडूर्यैश्च वरासनैः ।
महार्हास्तरणो पेतैरुपपन्नं महाधनैः ।। ६.१२४.३० ।।
उपस्थितमनाधृष्यं तद्विमानं मनोजवम् ।
निवेदयित्वा रामाय तस्थौ तत्र विभीषणः ।। ६.१२४.३१ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुर्विंशत्युत्तरशततमः सर्गः ।। १२४ ।।