रामायणम्/युद्धकाण्डम्/सर्गः १०५
← सर्गः १०४ | रामायणम् सर्गः १०५ वाल्मीकिः |
सर्गः १०६ → |
स तेन तु तथा क्रोधात् काकुत्स्थेनार्दितो रणे ।
रावणः समरश्लाघी महाक्रोधमुपागमत् ।। ६.१०५.१ ।।
स दीप्तनयनो रोषाच्चापमायम्य वीर्यवान् ।
अभ्यर्दयत् सुसङ्क्रुद्धो राघवं परमाहवे ।। ६.१०५.२ ।।
बाणधारासहस्रैस्तैः स तोयद इवाम्बरात् ।
राघवं रावणो बाणैस्तटाकमिव पूरयत् ।। ६.१०५.३ ।।
पूरितः शरजालेन धनुर्मुक्तेन संयुगे ।
महागिरिरिवाकम्प्यः काकुत्स्थो न प्रकम्पते ।। ६.१०५.४ ।।
स शरैः शरजालानि वारयन् समरे स्थितः ।
गभस्तीनिव सूर्यस्य प्रतिजग्राह वीर्यवान् ।। ६.१०५.५ ।।
ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः ।
निजघानोरसि क्रुद्धो राघवस्य महात्मनः ।। ६.१०५.६ ।।
स शोणित समादिग्धः समरे लक्ष्मणाग्रजः ।
दृष्टः फुल्ल इवारण्ये सुमहान् किंशुकद्रुमः ।। ६.१०५.७ ।।
शराभिघातसंरब्धः सो ऽपि जग्राह सायकान् ।
काकुत्स्थः सुमहातेजा युगान्तादित्यतेजसः ।। ६.१०५.८ ।।
ततो ऽयोन्यं सुसंरब्धावुभौ तौ रामरावणौ ।
शरान्धकारे समरे नोपालक्षयतां तदा ।। ६.१०५.९ ।।
ततः क्रोधसमाविष्टो रामो दशरथात्मजः ।
उवाच रावणं वीरः प्रहस्य परुषं वचः ।। ६.१०५.१० ।।
मम भार्या जनस्थानादज्ञानाद्राक्षसाधम ।
हृता ते विवशा यस्मात्तस्मात्त्वं नासि वीर्यवान् ।। ६.१०५.११ ।।
मया विरहितां दीनां वर्तमानां महावने ।
वैदेहीं प्रसभं हृत्वा शूरो ऽहमिति मन्यसे ।। ६.१०५.१२ ।।
स्त्रीषु शूर विनाथासु परदाराभिमर्शक ।
कृत्वा कापुरुषं कर्म शूरो ऽहमिति मन्यसे ।। ६.१०५.१३ ।।
भिन्नमर्याद निर्लज्ज चारित्रेष्वनवस्थित ।
दर्पान्मृत्युमुपादाय शूरो ऽहमिति मन्यसे ।। ६.१०५.१४ ।।
शूरेण धनदभ्रात्रा बलैः समुदितेन च ।
श्लाघनीयं यशस्यं च कृतं कर्म महत्त्वया ।। ६.१०५.१५ ।।
उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च ।
कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत् फलम् ।। ६.१०५.१६ ।।
शूरो ऽहमिति चात्मानमवगच्छसि दुर्मते ।
नैव लज्जा ऽस्ति ते सीतां चोरवद् व्यपकर्षतः ।। ६.१०५.१७ ।।
यदि मत्सन्निधौ सीता धर्षिता स्यात्त्वया बलात् ।
भ्रातरं तु खरं पश्येस्तदा मत्सायकैर्हतः ।। ६.१०५.१८ ।।
दिष्ट्या ऽसि मम दुष्टात्मंश्चक्षुर्विषयमागतः ।
अद्य त्वां सायकैस्तीक्ष्णैर्नयामि यमसादनम् ।। ६.१०५.१९ ।।
अद्य ते मच्छरैश्छिन्नं शिरो ज्वलितकुण्डलम् ।
क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु ।। ६.१०५.२० ।।
निपत्योरसि गृध्रास्ते क्षितौ क्षिप्तस्य रावण ।
पिबन्तु रुधिरं तर्षाच्छरशल्यान्तरोत्थितम् ।। ६.१०५.२१ ।।
अद्य मद्बाणभिन्नस्य गतासोः पतितस्य ते ।
कर्षन्त्वन्त्राणि पतगा गरुत्मन्त इवोरगान् ।। ६.१०५.२२ ।।
इत्येवं संवदन् वीरो रामः शत्रुनिबर्हणः ।
राक्षसेन्द्रं समीपस्थं शरवर्षैरवाकिरत् ।। ६.१०५.२३ ।।
बभूव द्विगुणं वीर्यं बलं हर्षश्च संयुगे ।
रामस्यास्त्रबलं चैव शत्रोर्निधनकाङ्क्षिणः ।। ६.१०५.२४ ।।
प्रादुर्बभूवुरस्त्राणि सर्वाणि विदितात्मनः ।
प्रहर्षाच्च महातेजाः शीघ्रहस्ततरो ऽभवत् ।। ६.१०५.२५ ।।
शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सः ।
भूय एवार्दयद्रामो रावणं राक्षसान्तकृत् ।। ६.१०५.२६ ।।
हरीणां चाश्मनिकरैः शरवर्षैश्च राघवात् ।
हन्यमानो दशग्रीवो विघूर्णहृदयो ऽभवत् ।। ६.१०५.२७ ।।
यदा च शस्त्रं नारेभे न व्यकर्षच्छरासनम् ।
नास्य प्रत्यकरोद्वीर्यं विक्लेवेनान्तरात्मना ।। ६.१०५.२८ ।।
क्षिप्ताश्चापि शरास्तेन शस्त्राणि विविधानि च ।
न रणार्थाय वर्तन्ते मृत्युकाले ऽभिवर्ततः ।। ६.१०५.२९ ।।
सूतस्तु रथनेता ऽस्य तदवस्थं समीक्ष्य तम् ।
शनैर्युद्धादसम्भ्रान्तो रथं तस्यापवाहयत् ।। ६.१०५.३० ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चोत्तरशततमः सर्गः ।। १०५ ।।