रामायणम्/युद्धकाण्डम्/सर्गः ९८
← सर्गः ९७ | रामायणम् सर्गः ९८ वाल्मीकिः |
सर्गः ९९ → |
हन्यमाने बले तूर्णमन्योन्यं ते महामृधे ।
सरसीव महाघर्मे सोपक्षीणे बभूवतुः ।। ६.९८.१ ।।
स्वबलस्य विघातेन विरूपाक्षवधेन च ।
बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः ।। ६.९८.२ ।।
प्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः ।
बभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम् ।
उवाच च समीपस्थं महोदरमरिन्दमम् ।। ६.९८.३ ।।
अस्मिन् काले महाबाहो जयाशा त्वयि मे स्थिता ।
जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम् ।। ६.९८.४ ।।
भर्तृपिण्डस्य कालो ऽयं निर्देष्टुं साधु युध्यताम् ।। ६.९८.५ ।।
एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रो महोदरः ।
प्रविवेशारिसेनां तां पतङ्ग इव पावकम् ।। ६.९८.६ ।।
ततः स कदनं चक्रे वानराणां महाबलः ।
भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः ।। ६.९८.७ ।।
वानराश्च महासत्त्वाः प्रगृह्य विपुलाः शिलाः ।
प्रविश्यारिबलं भीमं जघ्नुस्ते रजनीचरान् ।। ६.९८.८ ।।
महोदरस्तु सङ्क्रुद्धः शरैः काञ्चनभूषणैः ।
चिच्छेद पाणिपादोरून् वानराणां महाहवे ।। ६.९८.९ ।।
ततस्ते वानराः सर्वे राक्षसैरर्दिता भृशम् ।
दिशो दश द्रुताः केचित् केचित् सुग्रीवमाश्रिताः ।। ६.९८.१० ।।
प्रभग्नां समरे दृष्ट्वा वानराणां महाचमूम् ।
अभिदुद्राव सुग्रीवो महोदरमनन्तरम् ।। ६.९८.११ ।।
प्रगृह्य विपुलां घोरां महीधरसमां शिलाम् ।
चिक्षेप च महातेजास्तद्वधाय हरीस्वरः ।। ६.९८.१२ ।।
तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः ।
असम्भ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम् ।। ६.९८.१३ ।।
रक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा ।
निपपात शिला भूमौ गृध्रचक्रमिवाकुलम् ।। ६.९८.१४ ।।
तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्च्छितः ।
सालमुत्पाट्य चिक्षेप राक्षसे रणमूर्धनि ।। ६.९८.१५ ।।
शरैश्च विददारैनं शूरः परपुरञ्जयः ।। ६.९८.१६ ।।्च्छितः ।
स ददर्श ततः क्रुद्धः परिघं पतितं भुवि ।। ६.९८.१७ ।।तः ।
आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन् ।
परिघाग्रेण वेगेन जघानास्य हयोत्तमान् ।। ६.९८.१८ ।।
तस्माद्धतहयाद्वीरः सो ऽवप्लुत्य महारथात् ।
गदां जग्राह सङ्क्रुद्धो राक्षसो ऽथ महोदरः ।। ६.९८.१९ ।।
गदापरिघहस्तौ तौ युधि वीरौ समीयतुः ।
नर्दन्तौ गौवृषप्रख्यौ घनाविव सविद्युतौ ।। ६.९८.२० ।।
ततः क्रुद्धो गदां तस्मै चिक्षेप रजनीचरः ।
ज्वलन्तीं भास्कराभासां सुग्रीवाय महोदरः ।। ६.९८.२१ ।।
गदां तां सुमहाघोरामापतन्तीं महाबलः ।
सुग्रीवो रोषताम्राक्षः समुद्यम्य महाहवे ।
आजघान गदां तस्य परिघेण हरीश्वरः ।। ६.९८.२२ ।।
पपात स गदोद्भिन्नः परिघस्तस्य भूतले ।। ६.९८.२३ ।।ोषताम्राक्षः समुद्यम्य महाहवे ।
ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात् ।
आयसं मुसलं घोरं सर्वतो हेमभूषितम् ।। ६.९८.२४ ।।
स तमुद्यम्य चिक्षेप सो ऽप्यन्यां व्याक्षिपद्गदाम् ।
भिन्नावन्योन्यमासाद्य पेततुर्धरणीतले ।। ६.९८.२५ ।।
ततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः ।
तेजोबलसमाविष्टौ दीप्ताविव हुताशनौ ।। ६.९८.२६ ।।
जघ्नतुस्तौ तदा ऽन्योन्यं नेदतुश्च पुनःपुनः ।
तलैश्चान्योन्यमाहत्य पेततुर्धरणीतले ।। ६.९८.२७ ।।
उत्पेततुस्ततस्तूर्णं जघ्नतुश्च परस्परम् ।
भुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ ।
जग्मतुस्तौ श्रमं वीरौ बाहुयुद्धे परन्तपौ ।। ६.९८.२८ ।।
आजहार ततः खड्गमदूरपरिवर्तिनम् ।
राक्षसश्चर्मणा सार्धं महावेगो महोदरः ।। ६.९८.२९ ।।
तथैव च महाखड्गं चर्मणा पतितं सह ।
जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः ।। ६.९८.३० ।।
तौ तु रोषपरीताङ्गौ नर्दन्तावभ्यधावताम् ।
उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ ।। ६.९८.३१ ।।
दक्षिणं मण्डलं चोभौ सुतूर्णं सम्परीयतुः ।
अन्योन्यमभिसङ्क्रुद्धौ जये प्रणिहितावुभौ ।। ६.९८.३२ ।।
स तु शूरो महावेगो वीर्यश्लाघी महोदरः ।
महाचर्मणि तं खड्गं पातयामास दुर्मतिः ।। ६.९८.३३ ।।
लग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः ।
जहार सशिरस्त्राणं कुण्डलोपहितं शिरः ।। ६.९८.३४ ।।
निकृत्तशिरसस्तस्य पतितस्य महीतले ।
तद्बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठते ।। ६.९८.३५ ।।
हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः ।
चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः ।। ६.९८.३६ ।।
विषण्णवदनाः सर्वे राक्षसा दीनचेतसः ।
विद्रवन्ति ततः सर्वे भयवित्रस्तचेतसः ।। ६.९८.३७ ।।
महोदरं तं विनिपात्य भूमौ महागिरेः कीर्णमिवैकदेशम् ।
सूर्यात्मजस्तत्र रराज लक्ष्म्या सूर्यः स्वतेजोभिरिवाप्रधृष्यः ।। ६.९८.३८ ।।
अथ विजयमवाप्य वानरेन्द्रः समरमुखे सुरयक्षसिद्धसङ्घैः ।
अवनितलगतैश्च भूतसङ्घैर्हरुषसमाकुलितैः स्तुतो महात्मा ।। ६.९८.३९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टनवतितमः सर्गः ।। ९८ ।।