रामायणम्/युद्धकाण्डम्/सर्गः ५४
← सर्गः ५३ | रामायणम् सर्गः ५४ वाल्मीकिः |
सर्गः ५५ → |
बलस्य च निघातेन अङ्गदस्य जयेन च ।
राक्षसः क्रोधमाविष्टो वज्रदंष्ट्रो महाबलः ।। ६.५४.१ ।।
स विस्फार्य धनुर्घोरं शक्राशनिसमस्वनम् ।
वानराणामनीकानि प्राकिरच्छरवृष्टिभिः ।। ६.५४.२ ।।
राक्षसाश्चापि मुख्यास्ते रथेषु समवस्थिताः ।
नानाप्रहरणाः शूराः प्रायुद्ध्यन्त तदा रणे ।। ६.५४.३ ।।
वानराणां तु शूरा ये सर्वे ते प्लवगर्षभाः ।
आयुद्ध्यन्त शिलाहस्ताः समवेताः समन्ततः ।। ६.५४.४ ।।
तत्रायुधसहस्राणि तस्मिन्नायोधने भृशम् ।
राक्षसाः कपिमुख्येषु पातयाञ्चक्रिरे तदा ।। ६.५४.५ ।।
वानराश्चापि रक्षस्सु गिरीन् वृक्षान् महाशिलाः ।
प्रवीराः पातयामासुर्मत्तवारणसन्निभाः ।। ६.५४.६ ।।
शूराणां युद्ध्यमानानां समरेष्वनिवर्तिनाम् ।
तद्राक्षसगणानां च सुयुद्धं समवर्तत ।। ६.५४.७ ।।
प्रभिन्नशिरसः केचिद्भिन्नैः पादैश्च बाहुभिः ।
शस्त्रैरर्पितदेहास्तु रुधिरेण समुक्षिताः ।। ६.५४.८ ।।
हरयो राक्षसाश्चैव शेरते गां समाश्रिताः ।
कङ्कगृध्रवलैराढ्या गोमायुगणसङ्कुलाः ।। ६.५४.९ ।।
कबन्धानि समुत्पेतुर्भीरुणां भीषणानि वै ।। ६.५४.१० ।।
भुजपाणिशिरश्छिन्नाश्छिन्नकायाश्च भूतले ।
वानरा राक्षसाश्चापि निपेतुस्तत्र वै रणे ।। ६.५४.११ ।।
ततो वानरसैन्येन हन्यमानं निशाचरम् ।
प्राभज्यत बलं सर्वं वज्रदंष्ट्रस्य पश्यतः ।। ६.५४.१२ ।।
राक्षसान् भयवित्रस्तान् हन्यमानान् प्लवङ्गमैः ।
दृष्ट्वा स रोषताम्राक्षो वज्रदंष्ट्रः प्रतापवान् ।। ६.५४.१३ ।।
प्रविवेश धनुष्पाणिस्त्रासयन् हरिवाहिनीम् ।
शरैर्विदारयामास कङ्कपत्रैरजिह्मगैः ।। ६.५४.१४ ।।
बिभेद वानरांस्तत्र सप्ताष्टौ नव पञ्च च ।
विव्याध परमक्रुद्धो वज्रदंष्ट्रः प्रतापवान् ।। ६.५४.१५ ।।
त्रस्ताः सर्वे हरिगणाः शरैः सङ्कृत्तकन्धराः ।
अङ्गदं सम्प्रधावन्ति प्रजापतिमिव प्रजाः ।। ६.५४.१६ ।।
ततो हरिगणान् भग्नान् दृष्ट्वा वालिसुतस्तदा ।
क्रोधेन वज्रदंष्ट्रं तमुदीक्षन्तमुदैक्षत ।। ६.५४.१७ ।।
वज्रदंष्ट्रो ऽङ्गदश्चोभौ सङ्गतौ हरिराक्षसौ ।
चेरतुः परमक्रुद्धौ हरिमत्तगजाविव ।। ६.५४.१८ ।।
ततः शरसहस्रेण वालिपुत्रं महाबलः ।
जघान मर्मदेशेषु मातङ्गमिव तोमरैः ।। ६.५४.१९ ।।
रुधिरोक्षितसर्वाङ्गो वालिसूनुर्महाबलः ।
चिक्षेप वज्रदंष्ट्राय वृक्षं भीमपराक्रमः ।। ६.५४.२० ।।
दृष्ट्वा ऽ ऽपतन्तं तं वृक्षमसम्भ्रान्तश्च राक्षसः ।
चिच्छेद बहुधा सो ऽपि निकृत्तः पतितो भुवि ।। ६.५४.२१ ।।
तं दृष्ट्वा वज्रदंष्ट्रस्य विक्रमं प्लवगर्षभः ।
प्रगृह्य विपुलं शैलं चिक्षेप च ननाद च ।। ६.५४.२२ ।।
समापतन्तं तं दृष्ट्वा रथादाप्लुत्य वीर्यवान् ।
गदापाणिरसम्भ्रान्तः पृथिव्यां समतिष्ठत ।। ६.५४.२३ ।।
सा ऽङ्गदेन गदा ऽ ऽक्षिप्ता गत्वा तु रणमूर्धनि ।। ६.५४.२४ ।।
सचक्रकूबरं साश्वं प्रममाथ रथं तदा ।। ६.५४.२५ ।।
ततो ऽन्यं गिरिमाक्षिप्य विपुलं द्रुमभूषितम् ।
वज्रदंष्ट्रस्य शिरसि पातयामास सो ऽङ्गदः ।। ६.५४.२६ ।।
अभवच्छोणितोद्गारी वज्रदंष्ट्रः स मूर्च्छितः ।
मुहूर्तमभवन्मूढो गदामालिङ्ग्य निःश्वसन् ।। ६.५४.२७ ।।
स लब्धसञ्ज्ञो गदया वालिपुत्रमवस्थितम् ।
जघान परमक्रुद्धो वक्षोदेशे निशाचरः ।
गदां त्यक्त्वा ततस्तत्र मुष्टियुद्धमवर्तत ।। ६.५४.२८ ।।
अन्योन्यं जघ्नतुस्तत्र तावुभौ हरिराक्षसौ ।
रुधिरोद्गारिणो तौ तु प्रहरैर्जनितश्रमौ ।
बभूवतुः सुविक्रान्तावङ्गारकबुधाविव ।। ६.५४.२९ ।।
ततः परमतेजस्वी अङ्गदः कपिकुञ्जरः ।
उत्पाट्य वृक्षं स्थितवान् बहुपुष्पफलाञ्चितम् ।। ६.५४.३० ।।
जग्राह चार्षभं चर्म खड्गं च विपुलं शुभम् ।
किङ्किणीजालसञ्छन्नं चर्मणा च परिष्कृतम् ।। ६.५४.३१ ।।
विचित्रांश्चेरतुर्मार्गान् रुषितौ कपिराक्षसौ ।
जघ्नतुश्च तदा ऽन्योन्यं निर्दयं जयकाङ्क्षिणौ ।। ६.५४.३२ ।।
व्रणैः सास्त्रैरशोभेतां पुष्पिताविव किंशुकौ ।
युद्ध्यमानौ परिश्रान्तौ जानुभ्यामवनीं गतौ ।। ६.५४.३३ ।।
निमेषान्तरमात्रेण अङ्गदः कपिकुञ्जरः ।
उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः ।। ६.५४.३४ ।।
निर्मलेन सुधौतेन खड्गेनास्य महच्छिरः ।
जघान वज्रदंष्ट्रस्य वालिसूनुर्महाबलः ।। ६.५४.३५ ।।
रुधिरोक्षितगात्रस्य बभूव पतितं द्विधा ।
सरोषपरिवृत्ताक्षं शुभं खड्गहतं शिरः ।। ६.५४.३६ ।।
वज्रदंष्ट्रं हतं दृष्ट्वा राक्षसा भयमोहिताः ।
त्रस्ताः प्रत्यपतन् लङ्कां वध्यमानाः प्लवङ्गमै ।
विषण्णवदना दीना ह्रिया किञ्चिदवाङ्मुखाः ।। ६.५४.३७ ।।
निहत्य तं वज्रधरप्रभावः स वालिसूनुः कपिसैन्यमध्ये ।
जगाम हर्षं महितो महाबलः सहस्रनेत्रस्त्रिदशैरिवावृतः ।। ६.५४.३८ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुष्पञ्चाशः सर्गः ।। ५४ ।।