रामायणम्/युद्धकाण्डम्/सर्गः १०३
← सर्गः १०२ | रामायणम् सर्गः १०३ वाल्मीकिः |
सर्गः १०४ → |
लक्ष्मणेन तु तद्वाक्यमुक्तं श्रुत्वा स राघवः ।
सन्दधे परवीरघ्नो धनुरादाय वीर्यवान् ।
रावणाय शरान् घोरान् विससर्ज चमूमुखे ।। ६.१०३.१ ।।
अथान्यं रथमारुह्य रावणो राक्षसाधिपः ।
अभ्यद्रवत काकुत्स्थं स्वर्भानुरिव भास्करम् ।। ६.१०३.२ ।।
दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः ।
आजघान महाघोरैर्धाराभिरिव तोयदः ।। ६.१०३.३ ।।
दीप्तपावक सङ्काशैः शरैः काञ्चनभूषणैः ।
निर्बिभेद रणे रामो दशग्रीवं समाहितम् ।। ६.१०३.४ ।।
भूमौ स्थितस्य रामस्य रथस्थस्य च रक्षसः ।
न समं युद्धमित्याहुर्देवगन्धर्वदानवाः ।। ६.१०३.५ ।।
ततः काञ्चनचित्राङ्गः किङ्किणीशतभूषितः ।
तरुणादित्यसङ्काशो वैडूर्यमयकूबरः ।। ६.१०३.६ ।।
सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः ।
हरिभिः सूर्यसङ्काशैर्हेमजालविभूषितैः ।। ६.१०३.७ ।।
रुक्मवेणुध्वजः श्रीमान् देवराजरथो वरः ।
देवराजेन सन्दिष्टो रथमारुह्य मातलिः ।। ६.१०३.८ ।।
अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात् ।। ६.१०३.९ ।।
अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः ।
प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः ।। ६.१०३.१० ।।
सहस्राक्षेण काकुत्स्थ रथो ऽयं विजयाय ते ।
दत्तस्तव महासत्त्व श्रीमान् शत्रुनिबर्हण ।। ६.१०३.११ ।।
इदमैन्द्रं महच्चापं कवचं चाग्निसन्निभम् ।
शराश्चादित्यसङ्काशाः शक्तिश्च विमला शिता ।। ६.१०३.१२ ।।
आरुह्येमं रथं वीर राक्षसं जहि रावणम् ।
मया सारथिना राजन् महेन्द्र इव दानवान् ।। ६.१०३.१३ ।।
इत्युक्तः सम्परिक्रम्य रथं समभिवाद्य च ।
आरुरोह तदा रामो लोकान् लक्ष्म्या विराजयन् ।। ६.१०३.१४ ।।
तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ।
रामस्य च महाबाहो रावणस्य च रक्षसः ।। ६.१०३.१५ ।।
स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः ।
अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् ।। ६.१०३.१६ ।।
अस्त्रं तु परमं घोरं राक्षसं राक्षसाधिपः ।
ससर्ज परमक्रुद्धः पुनरेव निशाचरः ।। ६.१०३.१७ ।।
ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः ।
अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः ।। ६.१०३.१८ ।।
ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः ।
राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः ।। ६.१०३.१९ ।।
तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः ।
दिशश्च सन्तताः सर्वाः प्रदिशश्च समावृताः ।। ६.१०३.२० ।।
तान् दृष्ट्वा पन्नगान् रामः समापतत आहवे ।
अस्त्रं गारुत्मतं घोरं प्रादुश्चके भयावहम् ।। ६.१०३.२१ ।।
ते राघवशरा मुक्ता रुक्मपुङ्खाः शिखिप्रभाः ।
सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः ।। ६.१०३.२२ ।।
ते तान् सर्वान् शरान् जघ्नुः सर्परूपान् महाजवान् ।
सुपर्णरूपा रामस्य विशिखाः कामरूपिणः ।। ६.१०३.२३ ।।
अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः ।
अभ्यवर्षत्तदा रामं घोराभिः शरवृष्टिभिः ।। ६.१०३.२४ ।।
ततः शरसहस्रेण राममक्लिष्टकारिणम् ।
अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत ।। ६.१०३.२५ ।।
चिच्छेद केतुमुद्धिश्य शरेणैकेन रावणः ।
पातयित्वा रथोपस्थे रथात् केतुं च काञ्चनम् ।
ऐन्द्रानपि जघानाश्वान् शरजालेन रावणः ।। ६.१०३.२६ ।।
तं दृष्ट्वा सुमहत्कर्म रावणस्य दुरात्मनः ।
विषेदुर्देवगन्धर्वा दानवाश्चारणैः सह ।। ६.१०३.२७ ।।
राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः ।
व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः ।। ६.१०३.२८ ।।
रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा ।
प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम् ।। ६.१०३.२९ ।।
समाक्रम्य बुधस्तस्थौ प्रजानामशुभावहः ।। ६.१०३.३० ।।
सधूमपरिवृत्तोर्मिः प्रज्वलन्निव सागरः ।
उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम् ।। ६.१०३.३१ ।।
शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः ।
अदृश्यत कबन्धाङ्कः संसक्तो धूमकेतुना ।। ६.१०३.३२ ।।
कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम् ।
आक्रम्याङ्गारकस्तस्थौ विशाखामपि चाम्बरे ।। ६.१०३.३३ ।।
दशास्यो विंशतिभुजः प्रगृहीतशरासनः ।
अदृश्यत दशग्रीवो मैनाक इव पर्वतः ।। ६.१०३.३४ ।।
निरस्यमानो रामस्तु दशग्रीवेण रक्षसा ।
नाशक्नोदभिसन्धातुं सायकान् रणमूर्धनि ।। ६.१०३.३५ ।।
स कृत्वा भ्रुकुटिं क्रुद्धः किञ्चित् संरक्तलोचनः ।
जगाम सुमहाक्रोधं निर्दहन्निव चक्षुषा ।। ६.१०३.३६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्र्युत्तरशततमः सर्गः ।। १०३ ।।