रामायणम्/युद्धकाण्डम्/सर्गः ७
< रामायणम् | युद्धकाण्डम्
Jump to navigation
Jump to search
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तमः सर्गः ॥६-७॥
इति उक्ता राक्षस इन्द्रेण राक्षसास्ते महाबलाः । ऊचुः प्रान्जलयः सर्वे रावणम् राक्षस ईश्वरम् ॥६-७-१॥ द्विष्त्पक्ष्ह्मविज्ञाय नीतिबाह्यास्त्वबुद्धयः । राजन् परिघ शक्ति ऋष्टि शूल पट्टस सम्कुलम् ॥६-७-२॥ सुमहन् नो बलम् कस्माद् विषादम् भजते भवान् । त्वया भोगवतीम् गत्वा निर्जताः पन्नगा युधि ॥६-७-३॥ कैलास शिखर आवासी यक्षैर् बहुभिर् आवृतः । सुमहत् कदनम् कृत्वा वश्यस् ते धनदः कृतः ॥६-७-४॥ स महाईश्वर सख्येन श्लाघमानस् त्वया विभो । निर्जितः समरे रोषाल् लोक पालो महाबलः ॥६-७-५॥ विनिहत्य च यक्षौघान् विक्षोभ्य च विगृह्य च । त्वया कैलास शिखराद् विमानम् इदम् आहृतम् ॥६-७-६॥ मयेन दानव इन्द्रेण त्वद् भयात् सख्यम् इच्चता । दुहिता तव भार्या अर्थे दत्ता राक्षस पुम्गव ॥६-७-७॥ दानव इन्द्रो मधुर् नाम वीर्य उत्सिक्तो दुरासदः । विगृह्य वशम् आनीतः कुम्भीनस्याः सुख आवहः ॥६-७-८॥ निर्जितास् ते महाबाहो नागा गत्वा रसा तलम् । वासुकिस् तक्षकः शन्खो जटी च वशम् आहृताः ॥६-७-९॥ अक्षया बलवन्तः च शूरा लब्ध वराः पुनः । त्वया सम्वत्सरम् युद्ध्वा समरे दानवा विभो ॥६-७-१०॥ स्व बलम् समुपाश्रित्य नीता वशम् अरिम् दम । मायाः च अधिगतास् तत्र बहवो राक्षस अधिप ॥६-७-११॥ शूराः च बलवन्तः च वरुणस्य सुता रणे । निर्जितास् ते महाबाग चतुर् विध बल अनुगाः ॥६-७-१२॥ मृत्यु दण्ड महाग्राहम् शाल्मलि द्वीप मण्डितम् । कालपाशमहाईचिम् यमकिम्करपन्नगम् ॥६-७-१३॥ महाज्वरेण दुर्धर्षम् यमलोकमहार्णवम् । अवगाह्य त्वया राजन् यमस्य बल सागरम् ॥६-७-१४॥ जयः च विप्लुलः प्राप्तो मृत्युः च प्रतिषेधितः । सुयुद्धेन च ते सर्वे लोकास् तत्र सुतोषिताः ॥६-७-१५॥ क्षत्रियैर् बहुभिर् वीरैः शक्र तुल्य पराक्रमैः । आसीद् वसुमती पूर्णा महद्भिर् इव पादपैः ॥६-७-१६॥ तेषाम् वीर्य गुण उत्साहैर् न समो राघवो रणे । प्रसह्य ते त्वया राजन् हताः परम दुर्जयाः ॥६-७-१७॥ तिष्ठ वा किम् महाराज श्रमेण तव वानरान् । अयमेको महारज इन्द्रजित् क्षपयिष्यति ॥६-७-१८॥ अनेन हि महाराज महेश्वरमनुत्तमम् । इष्ट्वा यज्ञम् वरो लब्धो लोके परमदुर्लभः ॥६-७-१९॥ शक्तितोमरमीनम् च विनिकीर्णान्त्रशैवलम् । गजकच्चपसम्बाधम्श्वमण्डूकसम्कुलम् ॥६-७-२०॥ रुद्रादित्यमहाग्राहम् मरुद्वसुमहोरगम् । रथश्वगजतोयौघम् पदातिपुलिनम् महत् ॥६-७-२१॥ अनेन हि समासाद्य देवानाम् बलसागम् । गृहीतो दैवतपतिर्लङ्काम् चापि प्रवेशितः ॥६-७-२२॥ पीतामहनियोगाच्च मुक्तः शम्बरवृत्रहा । गतस्त्रिविष्टपम् राजन् सर्वदेवनमस्कृतः ॥६-७-२३॥ तमेव त्वम् महाराज विसृजेन्द्रजितम् सुतम् । यावद्वानरसेनाम् ताम् परामाम् नयति क्ष्हयम् ॥६-७-२४॥ राजन् न आपद् अयुक्ता इयम् आगता प्राकृताज् जनात् । हृदि न एव त्वया कार्या त्वम् वधिष्यसि राघवम् ॥६-७-२५॥
इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे सप्तमः सर्गः ॥६-७॥