रामायणम्/युद्धकाण्डम्/सर्गः १२८
← सर्गः १२७ | रामायणम् सर्गः १२८ वाल्मीकिः |
सर्गः १२९ → |
अयोध्यां तु समालोक्य चिन्तयामास राघवः ।
चिन्तयित्वा हनूमन्तमुवाच प्लवगोत्तमम् ।। ६.१२८.१ ।।
जानीहि कच्चित् कुशली जनो नृपतिमन्दिरे ।। ६.१२८.२ ।।
शृङ्गिबेरपुरं प्राप्य गुहं गहनगोचरम् ।
निषादाधिपतिं ब्रूहि कुशलं वचनान्मम ।। ६.१२८.३ ।।
श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम् ।
भविष्यति गुहः प्रीतः स ममात्मसमः सखा ।। ६.१२८.४ ।।
अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च ।
निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः ।। ६.१२८.५ ।।
भरतस्तु त्वया वाच्यः कुशलं वचनान्मम ।
सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम् ।। ६.१२८.६ ।।
हरणं चापि वैदेह्या रावणेन बलीयसा ।। ६.१२८.७ ।।
सुग्रीवेण च संसर्गं वालिनश्च वधं रणे ।
मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया ।। ६.१२८.८ ।।
लङ्घयित्वा महातोयमापगापतिमव्ययम् ।
उपयानं समुद्रस्य सागरस्य च दर्शनम् ।। ६.१२८.९ ।।
यथा च कारितः सेतू रावणश्च यथा हतः ।
वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च ।। ६.१२८.१० ।।
महादेवप्रसादाच्च पित्रा मम समागमम् ।
उपयातं च मां सौम्य भरतस्य निवेदय ।। ६.१२८.११ ।।
सह राक्षसराजेन हरीणां प्रवरेण च ।। ६.१२८.१२ ।।
एतच्छुत्वा यमाकारं भजते भरतस्तदा ।
स च ते वेदितव्यः स्यात् सर्वं यच्चापि मां प्रति ।। ६.१२८.१३ ।।
जित्वा शत्रुगणान् रामः प्राप्य चानुत्तमं यशः ।
उपयाति समृद्धार्थः सह मित्रैर्महाबलैः ।। ६.१२८.१४ ।।
ज्ञेयाश्च सर्वे वृत्तान्ता भरतस्येङ्गितानि च ।
तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषणेन च ।। ६.१२८.१५ ।।
सर्वकामसमृद्धं हि हस्त्यश्वरथसङ्कुलम् ।
पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः ।। ६.१२८.१६ ।।
सङ्गत्या भरतः श्रीमान् राज्यार्थी चेत् स्वयं भवेत् ।
प्रशास्तु वसुधां कृत्स्नामखिलां रघुनन्दनः ।। ६.१२८.१७ ।।
तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर ।
यावन्न दूरं याताः स्म क्षिप्रमागन्तुमर्हसि ।। ६.१२८.१८ ।।
इति प्रतिसमादिष्टो हनुमान् मारुतात्मजः ।
मानुषं धारयन् रूपमयोध्यां त्वरितो ययौ ।। ६.१२८.१९ ।।
अथोत्पपात वेगेन हनुमान् मारुतात्मजः ।
गरुत्मानिव वेगेन जिघृक्षन् भुजगोत्तमम् ।। ६.१२८.२० ।।
लङ्घयित्वा पितृपथं भुजगेन्द्रालयं शुभम् ।
गङ्गायमुनयोर्मध्यं सन्निपातमतीत्य च ।
शृङ्गिबेरपुरं प्राप्य गुहमासाद्य वीर्यवान् ।। ६.१२८.२१ ।।
स वाचा शुभया हृष्टो हनुमानिदमब्रवीत् ।। ६.१२८.२२ ।।ुनयोर्मध्यं सन्निपातमतीत्य च ।
सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः ।
सहसीतः ससौमित्रिः स त्वां कुशलमब्रवीत् ।। ६.१२८.२३ ।।
पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः ।
भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यद्यैव राघवम् ।। ६.१२८.२४ ।।
एवमुक्त्वा महातेजाः सम्प्रहृष्टतनूरुहः ।
उत्पपात महावेगो वेगवानविचारयन् ।। ६.१२८.२५ ।।
सो ऽपश्यद्रामतीर्थं च नदीं वालुकिनीं तथा ।
गोमतीं तां च सो ऽपश्यद्भीमं सालवनं तथा ।
प्रजाश्च बहुसाहस्राः स्फीतान् जनपदानपि ।। ६.१२८.२६ ।।
स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः ।
आससाद द्रुमान् फुल्लान् नन्दिग्रामसमीपगान् ।। ६.१२८.२७ ।।
स्त्रीभिः सपुत्रैर्वृद्धैश्च रममाणैरलङ्कृतान् ।
सुराधिपस्योपवने यथा चैत्ररथे द्रुमान् ।। ६.१२८.२८ ।।
क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम् ।
ददर्श भरतं दीनं कृशमाश्रमवासिनम् ।। ६.१२८.२९ ।।
जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम् ।
फलमूलाशिनं दान्तं तापसं धर्मचारिणम् ।। ६.१२८.३० ।।
समुन्नतजटाभारं वल्कलाजिनवाससम् ।
नियतं भावितात्मानं ब्रह्मर्षिसमतेजसम् ।। ६.१२८.३१ ।।
पादुके ते पुरस्कृत्य शासन्तं वै वसुन्धराम् ।
चातुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात् ।। ६.१२८.३२ ।।
उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः ।
बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः ।। ६.१२८.३३ ।।
न हि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम् ।
परिभोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलम् ।। ६.१२८.३४ ।।
तं धर्ममिव धर्मज्ञं देहवन्तमिवापरम् ।
उवाच प्राञ्जलिर्वाक्यं हनुमान् मरुतात्मजः ।। ६.१२८.३५ ।।
वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम् ।
अनुशोचसि काकुत्स्थं स त्वां कुशलमब्रवीत् ।। ६.१२८.३६ ।।
प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम् ।
अस्मिन् मुहूर्ते भ्रात्रा त्वं रामेण सह सङ्गतः ।। ६.१२८.३७ ।।
निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम् ।
उपयाति समृद्धार्थः सह मित्रैर्महाबलैः ।। ६.१२८.३८ ।।
लक्ष्मणश्च महातेजा वैदेही च यशस्विनी ।
सीता समग्रा रामेण महेन्द्रेण यथा शची ।। ६.१२८.३९ ।।
एवमुक्तो हनुमता भरतो भ्रातृवत्सलः ।
पपात सहसा हृष्टो हर्षान्मोहं जगाम ह ।। ६.१२८.४० ।।
ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः ।
हनुमन्तमुवाचेदं भरतः प्रियवादिनम् ।। ६.१२८.४१ ।।
अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य सम्भ्रमात् ।
सिषेच भरतः श्रीमान् विपुलैरस्त्रबिन्दुभिः ।। ६.१२८.४२ ।।
देवो वा मानुषो वा त्वमनुक्रोशादिहागतः ।
प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् ।। ६.१२८.४३ ।।
गवां शतसहस्रं च ग्रामाणां च शतं परम् ।
सुकुण्डलाः शुभाचारा भार्याः कन्याश्च षोडश ।। ६.१२८.४४ ।।
हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः ।
सर्वाभरणसम्पन्नाः सम्पन्नाः कुलजातिभिः ।। ६.१२८.४५ ।।
निशम्य रामागमनं नृपात्मजः कपिप्रवीरस्य तदद्भुतोपमम् ।
प्रहर्षितो रामदिदृक्षया ऽभवत् पुनश्च हर्षादिदमब्रवीद्वचः ।। ६.१२८.४६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टाविंशत्युत्तरशततमः सर्गः ।। १२८ ।।
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्य