रामायणम्/युद्धकाण्डम्/सर्गः ७७
← सर्गः ७६ | रामायणम् सर्गः ७७ वाल्मीकिः |
सर्गः ७८ → |
निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम् ।
प्रदहन्निव कोपेन वानरेन्द्रमवैक्षत ।। ६.७७.१ ।।
ततः स्रग्दामसन्नद्धं दत्तपञ्चाङ्गुलं शुभम् ।
आददे परिघं वीरो नगेन्द्रशिखरोपमम् ।। ६.७७.२ ।।
हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम् ।
यमदण्डोपमं भीमं रक्षसां भयनाशनम् ।। ६.७७.३ ।।
तमाविध्य महातेजाः शक्रध्वजसमं तदा ।
विननाद विवृत्तास्यो निकुम्भो भीम विक्रमः ।। ६.७७.४ ।।
उरोगतेन निष्केण भुजस्थैरङ्गदैरपि ।
कुण्डलाभ्यां च चित्राभ्यां मालया च विचित्रया ।। ६.७७.५ ।।
निकुम्भो भूषणैर्भाति तेन स्म परिघेण च ।
यथेन्द्रधनुषा मेघः सविद्युत् स्तनयित्नुमान् ।। ६.७७.६ ।।
परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः ।
प्रजज्वाल सघोषश्च विधूम इव पावकः ।। ६.७७.७ ।।
नगर्या विटपावत्या गन्धर्वभवनोत्तमैः ।
सह चैवामरावत्या सर्वैश्च भवनैः सह ।। ६.७७.८ ।।
सतारग्रहनक्षत्रं सचन्द्रं समहाग्रहम् ।
निकुम्भपरिघाघूर्णं भ्रमतीव नभस्स्थलम् ।। ६.७७.९ ।।
दुरासदश्च सञ्जज्ञे परिघाभरणप्रभः ।
कपीनां स निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः ।। ६.७७.१० ।।
राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात् ।
हनुमांस्तु विवृत्योरस्तस्थौ प्रमुखतो बली ।। ६.७७.११ ।।
परिघोपमबाहुस्तु परिघं भास्करप्रभम् ।
बली बलवतस्तस्य पातयामास वक्षसि ।। ६.७७.१२ ।।
स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः ।
विशीर्यमाणः सहसा उल्काशतमिवाम्बरे ।। ६.७७.१३ ।।
स तु तेन प्रहारेण विचचाल महाकपिः ।
परिघेण समाधूतो यथाभूमिचले ऽचलः ।। ६.७७.१४ ।।
स तदा ऽभिहतस्तेन हनुमान् प्लवगोत्तमः ।
मुष्टिं संवर्तयामास बलेनातिमहाबलः ।। ६.७७.१५ ।।
तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान् ।
अभिचिक्षेप वेगेन वेगवान् वायुविक्रमः ।। ६.७७.१६ ।।
ततः पुस्फोट चर्मास्य प्रसुस्राव च शोणितम् ।
मुष्टिना तेन सञ्जज्ञे ज्वाला विद्युदिवोत्थिता ।। ६.७७.१७ ।।
स तु तेन प्रहारेण निकुम्भो विचचाल ह ।
स्वस्थश्चापि निजग्राह हनुमन्तं महाबलम् ।। ६.७७.१८ ।।
विचुक्रुशुस्तदा सङ्ख्ये भीमं लङ्कानिवासिनः ।
निकुम्भेनोद्यतं दृष्ट्वा हनुमन्तं महाबलम् ।। ६.७७.१९ ।।
स तदा ह्रियमाणो ऽपि कुम्भकर्णात्मजेन ह ।
आजघानानिलसुतो वज्रकल्पेन मुष्टिना ।। ६.७७.२० ।।
आत्मानं मोचयित्वा ऽथ क्षितावभ्यवपद्यत ।
हनुमानुन्ममाथाशु निकुम्भं मारुतात्मजः ।। ६.७७.२१ ।।
निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष ह ।
उत्पत्य चास्य वेगेन पपातोरसि वीर्यवान् ।। ६.७७.२२ ।।
परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम् ।
उत्पाटयामास शिरो भैरवं नदतो महत् ।। ६.७७.२३ ।।
अथ विनदति सादिते निकुम्भे पवनसुतेन रणे बभूव युद्धम् ।
दशरथसुतराक्षसेन्द्रसून्वोर्भृशतरमागतरोषयोः सुभीमम् ।। ६.७७.२४ ।।
व्यपेते तु जीवे निकुम्भस्य हृष्टा विनेदुः प्लवङ्गा दिशः सस्वनुश्च ।
चचालेव चोर्वी पफालेव च द्यौर्भयं राक्षसानां बलं चाविवेश ।। ६.७७.२५ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तसप्ततितमः सर्गः ।। ७७ ।।