रामायणम्/युद्धकाण्डम्/सर्गः २९

विकिस्रोतः तः
Jump to navigation Jump to search
रामायणम्/युद्धकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११
  112. सर्गः ११२
  113. सर्गः ११३
  114. सर्गः ११४
  115. सर्गः ११५
  116. सर्गः ११६
  117. सर्गः ११७
  118. सर्गः ११८
  119. सर्गः ११९
  120. सर्गः १२०
  121. सर्गः १२१
  122. सर्गः १२२
  123. सर्गः १२३
  124. सर्गः १२४
  125. सर्गः १२५
  126. सर्गः १२६
  127. सर्गः १२७
  128. सर्गः १२८
  129. सर्गः १२९
  130. सर्गः १३०
  131. सर्गः १३१

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकोनत्रिंशः सर्गः ॥६-२९॥

शुकेन तु समाख्यातांस्तान् दृष्ट्वा हरियूथपान्
समीपस्थं च रामस्य भ्रातरं स्वं विभीषणम् 6.29.1
लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम्
सर्ववानरराजं च सुग्रीवं भीमविक्रमम्
किं चिदाविग्नहृदयो जातक्रोधश्च रावणः
भर्त्सयामास तौ वीरौ कथान्ते शुकसारणौ
अधोमुखौ तौ प्रणतावब्रवीच्छुकसारणौ
रोषगद्गदया वाचा संरब्धः परुषं वचः
न तावत्सदृशं नाम सचिवैरुपजीविभिः
विप्रियं नृपतेर्वक्तुं निग्रहप्रग्रहे विभोः
रिपूणां प्रतिकूलानां युद्धार्थमभिवर्तताम्
उभाभ्यां सदृशं नाम वक्तुमप्रस्तवे स्तवम्
आचार्या गुरवो वृद्धा वृथा वां पर्युपासिताः
सारं यद्राजशास्त्राणामनुजीव्यं न गृह्यते
गृहीतो वा न विज्ञातो भारो ज्ञानस्य वोछ्यते
ईदृशैः सचिवैर्युक्तो मूर्खैर्दिष्ट्या धराम्यहम्
किं नु मृत्योर्भयं नास्ति मां वक्तुं परुषं वचः
यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम्
अप्येव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः
राजदोषपरामृष्टास्तिष्ठन्ते नापराधिनः
हन्यामहमिमौ पापौ शत्रुपक्षप्रशंसकौ
यदि पूर्वोपकारैर्मे न क्रोधो मृदुतां व्रजेत्
अपध्वंसत गच्छध्वं संनिकर्षादितो मम
न हि वां हन्तुमिच्छामि स्मरन्नुपकृतानि वाम्
हतावेव कृतघ्नौ तौ मयि स्नेहपराङ्मुखौ
एवमुक्तौ तु सव्रीडौ तावुभौ शुकसारणौ
रावणं जयशब्देन प्रतिनन्द्याभिनिःसृतौ
अब्रवीत्स दशग्रीवः समीपस्थं महोदरम्
उपस्थापय शीघ्रं मे चारान्नीतिविशारदान्
ततश्चराः संत्वरिताः प्राप्ताः पार्थिवशासनात्
उपस्थिताः प्राञ्जलयो वर्धयित्वा जयाशिषा
तानब्रवीत्ततो वाक्यं रावणो राक्षसाधिपः
चारान् प्रत्ययिकाञ्शूरान् भक्तान् विगतसाध्वसान्
इतो गच्छत रामस्य व्यवसायं परीक्षथ
मन्त्रेष्वभ्यन्तरा येऽस्य प्रीत्या तेन समागताः
कथं स्वपिति जागर्ति किमन्यच्च करिष्यति
विज्ञाय निपुणं सर्वमागन्तव्यमशेषतः
चारेण विदितः शत्रुः पण्डितैर्वसुधाधिपैः
युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते
चारास्तु ते तथेत्युक्त्वा प्रहृष्टा राक्षसेश्वरम्
कृत्वा प्रदक्षिणं जग्मुर्यत्र रामः सलक्ष्मणः
ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौ
प्रच्छन्ना ददृशुर्गत्वा ससुग्रीवविभीषणौ
ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाः
विभीषणेन तत्रस्था निगृहीता यदृच्छया
वानरैरर्दितास्ते तु विक्रान्तैर्लघुविक्रमैः
पुनर्लङ्कामनुप्राप्ताः श्वसन्तो नष्टचेतसः
ततो दशग्रीवमुपस्थितास्ते॑ चारा बहिर्नित्यचरा निशाचराः
गिरेः सुवेलस्य समीपवासिनं॑ न्यवेदयन् भीमबलं महाबलाः 6.29.29

शुकेन तु समाख्याताम्स् तान् दृष्ट्वा हरि यूथपान् ।
लक्ष्मणम् च महावीर्यम् भुजम् रामस्य दक्षिणम् ॥६-२९-१॥

समीपस्थम् च रामस्य भ्रातरम् स्वम् विभीषणम् ।
सर्व वानर राजम् च सुग्रीवम् भीम विक्रमम् ॥६-२९-२॥

अङ्गदम् चापि बलिनम् वज्रहस्तात्मजात्मजम् ।
हनूमन्तम् च विक्रान्तम् जाम्बवन्तम् च दुर्जयम् ॥६-२९-३॥

सुषेणम् कुमुदम् नीलम् नलम् च प्लवगर्षभम् ।
गजम् गवाक्षम् शरभम् वैन्दम् च द्विविदम् तथा ॥६-२९-४॥

किम्चिद् आविग्न हृदयो जात क्रोधः च रावणः ।
भर्त्सयाम् आस तौ वीरौ कथा अन्ते शुक सारणौ ॥६-२९-५॥

अधो मुखौ तौ प्रणताव् अब्रवीत् शुक सारणौ ।
रोष गद्गदया वाचा सम्रब्धः परुषम् वचः ॥६-२९-६॥

न तावत् सदृशम् नाम सचिवैर् उपजीविभिः ।
विप्रियम् नृपतेर् वक्तुम् निग्रह प्रग्रहे विभोः ॥६-२९-७॥

रिपूणाम् प्रतिकूलानाम् युद्ध अर्थम् अभिवर्तताम् ।
उभाभ्याम् सदृशम् नाम वक्तुम् अप्रस्तवे स्तवम् ॥६-२९-८॥

आचार्या गुरवो वृद्धा वृथा वाम् पर्युपासिताः ।
सारम् यद् राज शास्त्राणाम् अनुजीव्यम् न गृह्यते ॥६-२९-९॥

गृहीतो वा न विज्ञातो भारो ज्ञानस्य वा उच्यते ।
ईदृशैः सचिवैर् युक्तो मूर्खैर् दिष्ट्या धरामि अहम् ॥६-२९-१०॥

किम् नु मृत्योर् भयम् न अस्ति माम् वक्तुम् परुषम् वचः ।
यस्य मे शासतो जिह्वा प्रयच्चति शुभ अशुभम् ॥६-२९-११॥

अपि एव दहनम् स्पृष्ट्वा वने तिष्ठन्ति पादपाः ।
राज दोष परामृष्टास् तिष्ठन्ते न अपराधिनः ॥६-२९-१२॥

हन्याम् अहम् इमौ पापौ शत्रु पक्ष प्रशम्सकौ ।
यदि पूर्व उपकारैर् मे न क्रोधो मृदुताम् व्रजेत् ॥६-२९-१३॥

अपध्वम्सत गच्चध्वम् सम्निकर्षाद् इतो मम ।
न हि वाम् हन्तुम् इच्चामि स्मरन्न् उपकृतानि वाम् ॥६-२९-१४॥

हताव् एव कृतघ्नौ तौ मयि स्नेह परान् मुखौ ।
एवम् उक्तौ तु सव्रीडौ ताव् उभौ शुक सारणौ ॥६-२९-१५॥

रावणम् जय शब्देन प्रतिनन्द्य अभिनिह्सृतौ ।
अब्रवीत् स दशग्रीवः समीपस्थम् महाउदरम् ॥६-२९-१६॥

उपस्थापय शीघ्रम् मे चारान् नीति विशारदान् ।
महोदरस्तथोक्तस्तु शीघ्रमाज्ञापयच्चरान् ॥६-२९-१७॥

ततश्चाराः सम्त्वरिताः प्राप्ताः पार्थिवशासनात् ।
उपस्थिथाः प्राञ्जलयो वर्धयित्वा जयाशिषः ॥६-२९-१८॥

तान् अब्रवीत् ततो वाक्यम् रावणो राक्षस अधिपः ॥६-२९-१९॥

चारान् प्रत्ययिकान् शूरान् भक्तान् विगत साध्वसान् ।
इतो गच्चत रामस्य व्यवसायम् परीक्षथ ॥६-२९-२०॥

मन्त्रेष्व् अभ्यन्तरा ये अस्य प्रीत्या तेन समागताः ।
कथम् स्वपिति जागर्ति किम् अन्यच् च करिष्यति ॥६-२९-२१॥

विज्ञाय निपुणम् सर्वम् आगन्तव्यम् अशेषतः ।
चारेण विदितः शत्रुः पण्डितैर् वसुधा अधिपैः ॥६-२९-२२॥

युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते ।
चारास् तु ते तथा इति उक्त्वा प्रहृष्टा राक्षस ईश्वरम् ॥६-२९-२३॥

शार्दूलमग्रतः कृत्वा ततश्चक्रुः प्रदक्षिणम् ।
ततस्तम् तु महात्मानम् चारा राक्षससत्तमम् ॥६-२९-२४॥

कृत्वा प्रदक्षिणम् जग्मुर् यत्र रामः सलक्ष्मणः ।
ते सुवेलस्य शैलस्य समीपे राम लक्ष्मणौ ॥६-२९-२५॥

प्रच्चन्ना ददृशुर् गत्वा ससुग्रीव विभीषणौ ।
प्रेक्षमाणाश्चमूम् ताम् च बभूवुर्भयविह्वलाः ॥६-२९-२६॥

ते तु धर्म आत्मना दृष्टा राक्षस इन्द्रेण राक्षसाः ।
विभीषणेन तत्रस्था निगृहीता यदृच्चया ॥६-२९-२७॥

शार्दूलो ग्राहितस्त्वेकः पापोऽयमिति राक्षसः ।
मोक्षितः सोऽपि रामेण वध्यमानः प्लवङ्गमैः ॥६-२९-२८॥

अनृशम्सेन रामेण मोक्षिता राक्षसाः सरे ।
वानरैर् अर्दितास् ते तु विक्रान्तैर् लघु विक्रमैः ॥६-२९-२९॥

पुनर् लंकाम् अनुप्राप्ताः श्वसन्तो नष्ट चेतसः ।
ततो दशग्रीवम् उपस्थितास् ते ।
चारा बहिर् नित्य चरा निशा चराः ।
गिरेः सुवेलस्य समीप वासिनम् ।
न्यवेदयन् भीम बलम् महाबलाः ॥६-२९-३०॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे एकोनत्रिंशः सर्गः ॥६-२९॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

बाहरी कडियाँ[सम्पाद्यताम्]