रामायणम्/युद्धकाण्डम्/सर्गः २५
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चविंशः सर्गः ॥६-२५॥
सबले सागरं तीर्णे रामे दशरथात्मजे
अमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ १
समग्रं सागरं तीर्णं दुस्तरं वानरं बलम्
अभूतपूर्वं रामेण सागरे सेतुबन्धनम् २
सागरे सेतुबन्धं तु न श्रद्दध्यां कथंचन
अवश्यं चापि संख्येयं तन्मया वानरं बलम् ३
भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ
परिमाणं च वीर्यं च ये च मुख्याः प्लवंगमाः ४
मन्त्रिणो ये च रामस्य सुग्रीवस्य च संमताः
ये पूर्वमभिवर्तन्ते ये च शूराः प्लवंगमाः ५
स च सेतुर्यथा बद्धः सागरे सलिलार्णवे
निवेशश्च तथा तेषां वानराणां महात्मनाम् ६
रामस्य व्यवसायं च वीर्यं प्रहरणानि च
लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुमर्हथः ७
कश्च सेनापतिस्तेषां वानराणां महौजसाम्
एतज्ज्ञात्वा यथातत्त्वं शीघ्रमागन्तुमर्हथः ८
इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ घ
हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम् ९
ततस्तद्वानरं सैन्यमचिन्त्यं लोमहर्षणम्
संख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ १०
तत्स्थितं पर्वताग्रेषु निर्दरेषु गुहासु च
समुद्र स्य च तीरेषु वनेषूपवनेषु च ११
तरमाणं च तीर्णं च तर्तुकामं च सर्वशः
निविष्टं निविशच्चैव भीमनादं महाबलम् १२
तौ ददर्श महातेजाः प्रच्छन्नौ च निभीषणः
आचचक्षेऽथ रामाय गृहीत्वा शुकसारणौ
लङ्कायाः समनुप्राप्तौ चारौ परपुरंजय १३
तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तदा
कृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः १४
आवामिहागतौ सौम्य रावणप्रहितावुभौ
परिज्ञातुं बलं कृत्स्नं तवेदं रघुनन्दन १५
तयोस्तद्वचनं श्रुत्वा रामो दशरथात्मजः
अब्रवीत्प्रहसन्वाक्यं सर्वभूतहिते रतः १६
यदि दृष्टं बलं कृत्स्नं वयं वा सुसमीक्षिताः
यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम् १७
प्रविश्य नगरीं लङ्कां भवद्भ्यां धनदानुजः
वक्तव्यो रक्षसां राजा यथोक्तं वचनं मम १८
यद्बलं च समाश्रित्य सीतां मे हृतवानसि
तद्दर्शय यथाकामं ससैन्यः सहबान्धवः १९
श्वः काले नगरीं लङ्कां सप्राकारां सतोरणाम्
राक्षसं च बलं पश्य शरैर्विध्वंसितं मया २०
घोरं रोषमहं मोक्ष्ये बलं धारय रावण
श्वः काले वज्रवान्वज्रं दानवेष्विव वासवः २१
इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ
आगम्य नगरीं लङ्कामब्रूतां राक्षसाधिपम् २२
विभीषणगृहीतौ तु वधार्हौ राक्षसेश्वर
दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा २३
एकस्थानगता यत्र चत्वारः पुरुषर्षभाः
लोकपालोपमाः शूराः कृतास्त्रा दृढविक्रमाः २४
रामो दाशरथिः श्रीमाँ ल्लक्ष्मणश्च विभीषणः
सुग्रीवश्च महातेजा महेन्द्र समविक्रमः २५
एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम्
उत्पाट्य् संक्रामयितुं सर्वे तिष्ठन्तु वानराः २६
यादृशं तस्य रामस्य रूपं प्रहरणानि च
वधिष्यति पुरीं लङ्कामेकस्तिष्ठन्तु ते त्रयः २७
रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी
बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः २८
प्रहृष्टरूपा ध्वजिनी वनौकसां
महात्मनां संप्रति योद्धुमिच्छताम्
अलं विरोधेन शमो विधीयतां
प्रदीयतां दाशरथाय मैथिली २९
इति श्रीरामायणे यद्धकाण्डे षोडशः सर्गः १६
सबले सागरम् तीर्णे रामे दशरथ आत्मजे । अमात्यौ रावणः श्रीमान् अब्रवीत् शुक सारणौ ॥६-२५-१॥ समग्रम् सागरम् तीर्णम् दुस्तरम् वानरम् बलम् । अभूत पूर्वम् रामेण सागरे सेतु बन्धनम् ॥६-२५-२॥ सागरे सेतु बन्धम् तु न श्रद्दध्याम् कथम्चन । अवश्यम् च अपि सम्ख्येयम् तन् मया वानरम् बलम् ॥६-२५-३॥ भवन्तौ वानरम् सैन्यम् प्रविश्य अनुपलक्षितौ । परिमाणम् च वीर्यम् च ये च मुख्याः प्लवम् गमाः ॥६-२५-४॥ मन्त्रिणो ये च रामस्य सुग्रीवस्य च सम्मताः । ये पूर्वम् अभिवर्तन्ते ये च शूराः प्लवम् गमाः ॥६-२५-५॥ स च सेतुर् यथा बद्धः सागरे सलिल अर्णवे । निवेशः च यथा तेषाम् वानराणाम् महात्मनाम् ॥६-२५-६॥ रामस्य व्यवसायम् च वीर्यम् प्रहरणानि च । लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुम् अर्हथ ॥६-२५-७॥ कः च सेना पतिस् तेषाम् वानराणाम् महाओजसाम् । एतज् ज्ञात्वा यथा तत्त्वम् शीघ्रम् अगन्तुम् अर्हथः ॥६-२५-८॥ इति प्रतिसमादिष्टौ राक्षसौ शुक सारणौ । हरि रूप धरौ वीरौ प्रविष्टौ वानरम् बलम् ॥६-२५-९॥ ततस् तद् वानरम् सैन्यम् अचिन्त्यम् लोम हर्षणम् । सम्ख्यातुम् न अध्यगच्चेताम् तदा तौ शुक सारणौ ॥६-२५-१०॥ तत् स्थितम् पर्वत अग्रेषु निर्दरेषु गुहासु च । समुद्रस्य च तीरेषु वनेषु उपवनेषु च ॥६-२५-११॥ तरमाणम् च तीर्णम् च तर्तु कामम् च सर्वशः । निविष्टम् निविशच् चैव भीम नादम् महाबलम् ॥६-२५-१२॥ तद्बलार्णवमक्षोभ्यम् ददृशाते निशाचरौ । तौ ददर्श महातेजाः प्रच्चन्नौ च विभीषणः ॥६-२५-१३॥ आचचक्षे अथ रामाय गृहीत्वा शुक सारणौ । तस्यैतौ राक्षसेन्द्रस्य मन्त्रिणौ शुक्सारणौ ॥६-२५-१४॥ लंकायाः समनुप्राप्तौ चारौ पर पुरम् जयौ । तौ दृष्ट्वा व्यथितौ रामम् निराशौ जीविते तदा ॥६-२५-१५॥ कृत अन्जलि पुटौ भीतौ वचनम् च इदम् ऊचतुः । आवाम् इह आगतौ सौम्य रावण प्रहिताव् उभौ ॥६-२५-१६॥ परिज्ञातुम् बलम् कृत्स्नम् तव इदम् रघु नन्दन । तयोस् तद् वचनम् श्रुत्वा रामो दशरथ आत्मजः ॥६-२५-१७॥ अब्रवीत् प्रहसन् वाक्यम् सर्व भूत हिते रतः । यदि दृष्टम् बलम् कृत्स्नम् वयम् वा सुसमीक्षिताः ॥६-२५-१८॥ यथा उक्तम् वा कृतम् कार्यम् चन्दतः प्रतिगम्यताम् । अथ किम्चिददृष्टम् वा भूयस्तद्द्रष्टुमर्हथः ॥६-२५-१९॥ विभीषनो वा कार्त्स्न्येन पुनः सम्दर्शयिष्यति । न चेदम् ग्रहम् णम् प्रप्य भेतव्यम् जीवितम् प्रति ॥६-२५-२०॥ व्यस्तशस्त्रौ गृहीतौ च न दूतौ वधमर्हतः । प्रच्चन्नौ च विमुञ्चएमौ चारौ रात्रिम्च रावुभौ ॥६-२५-२१॥ शत्रुपक्षस्य सततम् विभीषण विकर्षिणौ । प्रविश्य नगरीम् लंकाम् भवद्भ्याम् धनद अनुजः ॥६-२५-२२॥ वक्तव्यो रक्षसाम् राजा यथा उक्तम् वचनम् मम । यद् बलम् च समाश्रित्य सीताम् मे हृतवान् असि ॥६-२५-२३॥ तद् दर्शय यथा कामम् ससैन्यः सह बान्धवः । श्वः काले नगरीम् लंकाम् सप्राकाराम् सतोरणाम् ॥६-२५-२४॥ राक्षसम् च बलम् पश्य शरैर् विध्वम्सितम् मया । खोधम् भीममहम् मोक्ष्ये बलम् धारय रावण ॥६-२५-२५॥ श्वः काले वज्रवान् वज्रम् दानवेष्व् इव वासवः । इति प्रतिसमादिष्टौ राक्षसौ शुक सारणौ ॥६-२५-२६॥ जयेति प्रतिनन्द्यैनम् राघवम् धर्मवत्सलम् । आगम्य नगरीम् लंकाम् अब्रूताम् राक्षस अधिपम् ॥६-२५-२७॥ विभीषण गृहीतौ तु वध अर्हौ राक्षस ईश्वर । दृष्ट्वा धर्म आत्मना मुक्तौ रामेण अमित तेजसा ॥६-२५-२८॥ एक स्थान गता यत्र चत्वारः पुरुष ऋषभाः । लोक पाल उपमाः शूराः कृत अस्त्रा दृढ विक्रमाः ॥६-२५-२९॥ रामो दाशरथिः श्रीमाम्ल् लक्ष्मणः च विभीषणः । सुग्रीवः च महातेजा महाइन्द्र सम विक्रमः ॥६-२५-३०॥ एते शक्ताः पुरीम् लंकाम् सप्राकाराम् सतोरणाम् । उत्पाट्य सम्क्रामयितुम् सर्वे तिष्ठन्तु वानराः ॥६-२५-३१॥ यादृशम् तस्य रामस्य रूपम् प्रहरणानि च । वधिष्यति पुरीम् लंकाम् एकस् तिष्ठन्तु ते त्रयः ॥६-२५-३२॥ राम लक्ष्मण गुप्ता सा सुग्रीवेण च वाहिनी । बभूव दुर्धर्षतरा सर्वैर् अपि सुर असुरैः ॥६-२५-३३॥ प्रहृष्ट रूपा ध्वजिनी वन ओकसाम् । वनौकसाम् सम्प्रति योद्धुम् इच्चताम् । अलम् विरोधेन शमो विधीयताम् । प्रदीयताम् दाशरथाय मैथिली ॥६-२५-३४॥
इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे पञ्चविंशः सर्गः ॥६-२५॥