रामायणम्/अरण्यकाण्डम्/सर्गः १४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः १३ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः १५ →
चतुर्दशः सर्गः श्रूयताम्

श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुर्दशः सर्गः ॥३-१४॥

अथ पंचवटीम् गच्चन्न् अन्तरा रघुनन्दनः ।
आससाद महाकायम् गृध्रम् भीम पराक्रमम् ॥३-१४-१॥

तम् दृष्ट्वा तौ महाभागौ वनस्थम् राम लक्ष्मणौ ।
मेनाते राक्षसम् पक्षिम् ब्रुवाणौ को भवान् इति ॥३-१४-२॥

स तौ मधुरया वाचा सौम्यया प्रीणयन्न् इव ।
उवाच वत्स माम् विद्धि वयस्यम् पितुर् आत्मनः ॥३-१४-३॥

स तम् पितृ सखम् मत्वा पूजयामास राघवः ।
स तस्य कुलम् अव्यग्रम् अथ पप्रच्छ नाम च ॥३-१४-४॥

रामस्य वचनम् श्रुत्वा कुलम् आत्मानम् एव च ।
आचचक्षे द्विजः तस्मै सर्वभूत समुद्भवम् ॥३-१४-५॥

पूर्वकाले महाबाहो ये प्रजापतयो अभवन् ।
तान् मे निगदतः सर्वान् आदितः शृणु राघव ॥३-१४-६॥

कर्दमः प्रथमः तेषाम् विकृतः तद् अनन्तरम् ।
शेषः च संश्रयः चैव बहु पुत्रः च वीर्यवान्  ॥३-१४-७॥

स्थाणुर् मरीचिर् अत्रिः च क्रतुः चैव महाबलः ।
पुलस्त्यः च अंगिराः चैव प्रचेताः पुलहः तथा ॥३-१४-८॥

दक्षो विवस्वान् अपरो अरिष्टनेमिः च राघव ।
कश्यपः च महातेजाः तेषाम् आसीत् च पश्चिमः ॥३-१४-९॥

प्रजापतेः तु दक्षस्य बभूवुर् इति  विश्रुतम् ।
षष्टिर् दुहितरो राम यशस्विन्यो महायशः ॥३-१४-१०॥

कश्यपः प्रतिजग्राह तासाम् अष्टौ सुमध्यमाः ।
अदितिम् च दितिम् चैव दनूम् अपि च कालकाम् ॥३-१४-११॥

ताम्राम् क्रोध वशाम् चैव मनुम् च अप्य् अनलाम् अपि ।
ताः तु कन्याः ततः प्रीतः कश्यपः पुनर् अब्रवीत् ॥३-१४-१२॥

पुत्रामः त्रैलोक्य भर्तॄन् वै जनयिष्यथ मत् समान् ।
अदितिः तन् मना राम दितिः च दनुर् एव च ॥३-१४-१३॥

कालका च महाबाहो शेषाः तु अमनसो अभवन् ।
अदित्याम् जज्ञिरे देवाः त्रयः त्रिंशत् अरिंदम ॥३-१४-१४॥

आदित्या वसवो रुद्रा अश्विनौ च परंतप ।
दितिः तु अजनयत् पुत्रान् दैत्याम् तात यशस्विनः ॥३-१४-१५॥

तेषाम् इयम् वसुमती पुरा आसीत् स वन अर्णवा ।
दनुः तु अजनयत् पुत्रम् अश्वग्रीवम् अरिंदम ॥३-१४-१६॥

नरकम् कालकम् चैव कालका अपि व्यजायत ।
क्रौन्चीम् भासीम् तथा श्येनीम् धृतराष्ट्रीम् तथा शुकीम् ॥३-१४-१७॥

ताम्रा तु सुषुवे कन्याः पंच एता लोकविश्रुताः ।
उलूकान् जनयत् क्रौन्ची भासी भासान् व्यजायत ॥३-१४-१८॥

श्येनी श्येनाम् च गृध्राम च व्यजायत सुतेजसः ।
धृतराष्ट्री तु हंसाम् च कलहंसाम् च सर्वशः ॥३-१४-१९॥

चक्रवाकाम् च भद्रम् ते विजज्ञे सा अपि भामिनी ।
शुकी नताम् विजज्ञे तु नताया विनता सुता ॥३-१४-२०॥

दश क्रोधवशा राम विजज्ञे अपि आत्मसंभवाः ।
मृगीम् च मृगमंदाम् च हरीम् भद्रमदाम् अपि ॥३-१४-२१॥

मातंगीम् अथ शार्दूलीम् श्वेताम् च सुरभीम् तथा ।
सर्व लक्षण संपन्नाम् सुरसाम् कद्रुकाम् अपि ॥३-१४-२२॥

अपत्यम् तु मृगाः सर्वे मृग्या नरवरोत्तम ।
ऋक्षाः च मृगमंदायाः सृमराः चमराः तथा ॥३-१४-२३॥

ततः तु इरावतीम् नाम जज्ञे भद्रमदा सुताम् ।
तस्याः तु ऐरावतः पुत्रो लोकनाथो महागजः ॥३-१४-२४॥

हर्याः च हरयो अपत्यम् वानराः च तपस्विनः ।
गोलांगूलाः च शार्दूली व्याघ्राम् च अजनयत् सुतान् ॥३-१४-२५॥

मातंग्याः तु अथ मातन्गाअपत्यम् मनुज ऋषभ ।
दिशागजम् तु श्वेत काकुत्स्थ श्वेता व्यजनयत् सुतम् ॥३-१४-२६॥

ततो दुहितरौ राम सुरभिर् द्वे वि अजायत ।
रोहिणीम् नाम भद्रम् ते गन्धर्वीम् च यशस्विनीम् ॥३-१४-२७॥

रोहिणि अजनयद् गावो गन्धर्वी वाजिनः सुतान् ।
सुरसा अजनयन् नागान् राम कद्रूः च पन्नगान् ॥३-१४-२८॥

मनुर् मनुष्यान् जनयत् कश्यपस्य महात्मनः ।
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्राम् च मनुजर्षभ ॥३-१४-२९॥

मुखतो ब्राह्मणा जाता उरसः क्षत्रियाः तथा ।
ऊरुभ्याम् जज्ञिरे वैश्याः पद्भ्याम् शूद्रा इति श्रुतिः ॥३-१४-३०॥

सर्वान् पुण्य फलान् वृक्षान् अनला अपि व्यजायत ।
विनता च शुकी पौत्री कद्रूः च सुरसा स्वसा ॥३-१४-३१॥

कद्रूर् नाग सहस्रम् तु विजज्ञे धरणीधरन् ।
द्वौ पुत्रौ विनतायाः तु गरुडो अरुण एव च ॥३-१४-३२॥

तस्मात् जातो अहम् अरुणात् संपातिः च मम अग्रजः ।
जटायुर् इति माम् विद्धि श्येनी पुत्रम् अरिंदम ॥३-१४-३३॥

सो अहम् वास सहायः ते भविष्यामि यदि इच्छसि ।
इदम् दुर्गम् हि कान्तारम् मृग राक्षस सेवितम् सीताम् च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ॥३-१४-३४॥

जटायुषम् तु प्रतिपूज्य राघवो मुदा परिष्वज्य च सन्नतो अभवत् ।
पितुर् हि शुश्राव सखित्वम् आत्मवान् जटायुषा संकथितम् पुनः पुनः ॥३-१४-३५॥

स तत्र सीताम् परिदाय मैथिलीम् सह एव तेन अतिबलेन पक्षिणा ।
जगाम ताम् पंचवटीम् सलक्ष्मणो रिपून् दिधक्षन् शलभान् इव अनलः  ॥३-१४-३६॥

इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे चतुर्दशः सर्गः ॥३-१४॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र

संबंधित कड़ियाँ[सम्पाद्यताम्]

बाहरी कडियाँ[सम्पाद्यताम्]