रामायणम्/अरण्यकाण्डम्/सर्गः ४९

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ४८ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः ५० →


श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनपञ्चाशः सर्गः ॥३-४९॥

सीताया वचनम् श्रुत्वा दशग्रीवः प्रतापवान् ।
हस्ते हस्तम् समाहत्य चकार सुमहत् वपुः ॥३-४९-१॥

स मैथिलीम् पुनः वाक्यम् बभाषे वाक्य कोविदः ।
न उन्मत्तया श्रुतौ मन्ये मम वीर्य पराक्रमौ ॥३-४९-२॥

उद् वहेयम् भुजाभ्याम् तु मेदिनीम् अंबरे स्थितः ।
आपिबेयम् समुद्रम् च मृत्युम् हन्याम् रणे स्थितः ॥३-४९-३॥

अर्कम् तुंद्याम् शरैः तीक्ष्णैर् विभिंद्याम् हि महीतलम् ।
काम रूपिणम् उन्मत्ते पश्य माम् कामदम् पतिम् ॥३-४९-४॥

एवम् उक्तवतः तस्य रावणस्य शिखि प्रभे ।
क्रुद्धस्य हरि पर्यन्ते रक्ते नेत्रे बभूवतुः ॥३-४९-५॥

सद्यः सौम्यम् परित्यज्य तीक्ष्ण रूपम् स रावणः ।
स्वम् रूपम् काल रूप आभम् भेजे वैश्रवण अनुजः ॥३-४९-६॥

संरक्त नयनः श्रीमान् तप्त कांचन भूषणः ।
क्रोधेन महता आविष्टो नील जीमूत सन्निभः  ॥३-४९-७॥
दश आस्यो विंशति भुजो बभूव क्षणदा चरः ।

स परिव्राजक च्छद्म महाकायो विहाय तत् ॥३-४९-८॥
प्रतिपेदे स्वकम् रूपम् रावणो राक्षस अधिपः ।
रक्त अंबर धरः तस्थौ स्त्री रत्नम् प्रेक्ष्य मैथिलीम् ॥३-४९-९॥

स ताम् असित केश अन्ताम् भास्करस्य प्रभाम् इव ।
वसन आभरण उपेताम् मैथिलीम् रावणो अब्रवीत् ॥३-४९-१०॥

त्रिषु लोकेषु विख्यातम् यदि भर्तारम् इच्छसि ।
माम् आश्रय वरारोहे तव अहम् सदृशः पतिः ॥३-४९-११॥

माम् भजस्व चिराय त्वम् अहम् श्लाघ्यः पतिः तव ।
न एव च अहम् क्वचित् भद्रे करिष्ये तव विप्रियम् ॥३-४९-१२॥
त्यज्यताम् मानुषो भावो मयि भावः प्रणीयताम् ।

राज्यात् च्युतम् असिद्ध अर्थम् रामम् परिमित आयुषम् ॥३-४९-१३॥
कैः गुणैः अनुरक्ता असि मूढे पण्डित मानिनि ।
यः स्त्रिया वचनात् राज्यम् विहाय ससुहृत् जनम् ॥३-४९-१४॥
अस्मिन् व्याल अनुचरिते वने वसति दुर्मतिः ।

इति उक्त्वा मैथिलीम् वाक्यम् प्रिय अर्हाम् प्रिय वादिनीम् ॥३-४९-१५॥
अभिगम्य सुदुष्ट आत्मा राक्षसः काम मोहितः ।
जग्राह रावणः सीताम् बुधः खे रोहिणीम् इव ॥३-४९-१६॥

वामेन सीताम् पद्माक्षीम् मूर्धजेषु करेण सः ।
ऊर्वोः तु दक्षिणेन एव परिजग्राह पाणिना ॥३-४९-१७॥

तम् दृष्ट्वा गिरि शृंग आभम् तीक्ष्ण दंष्ट्रम् महा भुजम् ।
प्राद्रवन् मृत्यु संकाशम् भय आर्ता वन देवताः ॥३-४९-१८॥

स च मायामयो दिव्यः खर युक्तः खर स्वनः ।
प्रत्यदृश्यत हेमांगो रावणस्य महारथः ॥३-४९-१९॥

ततः ताम् परुषैः वाक्यैः अभितर्ज्य महास्वनः ।
अंकेन आदाय वैदेहीम् रथम् आरोपयत् तदा ॥३-४९-२०॥

सा गृहीता अतिचुक्रोश रावणेन यशस्विनी ।
रामा इति सीता दुःख आर्ता रामम् दूरम् गतम् वने ॥३-४९-२१॥

ताम् अकामाम् स काम आर्तः पन्नग इन्द्र वधूम् इव ।
विवेष्टमानाम् आदाय उत्पपात अथ रावणः ॥३-४९-२२॥

ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा ।
भृशम् चुक्रोश मत्ता इव भ्रांत चित्ता यथा आतुरा ॥३-४९-२३॥

हा लक्ष्मण महाबाहो गुरु चित्त प्रसादक ।
ह्रियमाणाम् न जानीषे रक्षसा काम रूपिणा ॥३-४९-२४॥

जीवितम् सुखम् अर्थाम्  च धर्म हेतोः परित्यजन् ।
ह्रियमाणाम् अधर्मेण माम् राघव न पश्यसि ॥३-४९-२५॥

ननु नाम अविनीतानाम् विनेता असि परंतप ।
कथम् एवम् विधम् पापम् न त्वम् शास्सि हि रावणम् ॥३-४९-२६॥

ननु सद्यो अविनीतस्य दृश्यते कर्मणः फलम् ।
कालो अपि अंगी भवति अत्र सस्यानाम् इव पक्तये ॥३-४९-२७॥

त्वम् कर्म कृतवान् एतत् काल उपहत चेतनः ।
जीवित अंतकरम् घोरम् रामात् व्यसनम् आप्नुहि ॥३-४९-२८॥

हन्त इदानीम् सकामा तु कैकेयी बान्धवैः सह ।
ह्रियेयम् धर्म कामस्य धर्म पत्नी यशस्विनः ॥३-४९-२९॥

आमंत्रये जनस्थानम् कर्णिकारान् च पुष्पितान् ।
क्षिप्रम् रामाय शंसध्वम् सीताम् हरति रावणः ॥३-४९-३०॥

हंस सारस संघुष्टाम् वन्दे गोदावरीम् नदीम् ।
क्षिप्रम् रामाय शंस त्वम् सीताम् हरति रावणः ॥३-४९-३१॥

दैवतानि च यान्ति अस्मिन् वने विविध पादपे ।
नमस्करोमि अहम् तेभ्यो भर्तुः शंसत माम् हृताम् ॥३-४९-३२॥

यानि कानिचित् अपि अत्र सत्त्वानि निवसन्ति उत ।
सर्वाणि शरणम् यामि मृग पक्षि गणान् अपि ॥३-४९-३३॥

ह्रियमाणाम् प्रियाम् भर्तुः प्राणेभ्यो अपि गरीयसीम् ।
विवश अपहृता सीता रावणेन इति शंसत ॥३-४९-३४॥

विदित्वा माम् महाबाहुः अमुत्र अपि महाबलः ।
आनेष्यति पराक्रम्य वैवस्वत हृताम् अपि ॥३-४९-३५॥

सा तदा करुणा वाचो विलपंती सुदुःखिता ।
वनस्पति गतम् ग्रिध्रम् ददर्श आयत लोचना ॥३-४९-३६॥

सा तम् उद् वीक्ष्य सुश्रोणी रावणस्य वशम् गता ।
समाक्रंदत् भयपरा दुःख उपहतया गिरा ॥३-४९-३७॥

जटायो पश्य मम आर्य ह्रियमाणम् अनाथ वत् ।
अनेन राक्षसेद्रेण करुणम् पाप कर्मणा ॥३-४९-३८॥

न एष वारयितुम् शक्यः त्वया क्रूरो निशाचर ।
सत्त्ववान् जितकाशी च स आयुधः चैव दुर्मतिः ॥३-४९-३९॥

रामाय तु यथा तत्त्वम् जटायो हरणम् मम ।
लक्ष्मणाय च तत् सर्वम् आख्यातव्यम् अशेषतः ॥३-४९-४०॥



इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे एकोनपञ्चाशः सर्गः ॥३-४९॥