रामायणम्/अरण्यकाण्डम्/सर्गः ५९

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ५८ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः ६० →


श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनषष्ठितमः सर्गः ॥३-५९॥

अथ आश्रमात् उपावृत्तम् अंतरा रघुनंदनः ।
परिपप्रच्छ सौमित्रिम् रामो दुःख अर्दितः पुनः ॥३-५९-१॥

तम् उवाच किम् अर्थम् त्वम् आगतो अपास्य मैथिलीम् ।
यदा सा तव विश्वासात् वने विहरिता मया ॥३-५९-२॥

दृष्ट्वा एव अभ्यागतम् त्वाम् मे मैथिलीम् त्यज्य लक्ष्मण ।
शंकमानम् महत् पापम् यत् सत्यम् व्यथितम् मनः ॥३-५९-३॥

स्फुरते नयनम् सव्यम् बाहुः च हृदयम् च मे ।
दृष्ट्वा लक्ष्मण दूरे त्वाम् सीता विरहितम् पथि ॥३-५९-४॥

एवम् उक्तः तु सौमित्रिः लक्ष्मणः शुभ लक्षणः ।
भूयो दुःख संआविष्टो दुःखितम् रामम् अब्रवी॥३-५९-५॥

न स्वयम् काम कारेण ताम् त्यक्त्वा अहम् इह आगतः ।
प्रचोदितस्तयैवोग्रैत्वत्सकाशमिहाअगतः - यद्वा -प्रचोदितः तया एव उग्रैः त्वत् सकाशम् इह आगतः ॥३-५९-६॥

आर्येण एव परिक्रुष्टम् - पराक्रुष्टम् - हा सीते लक्ष्मण इति च ।
परित्राहि इति यत् वाक्यम् मैथिल्याः तत् श्रुतिम् गतम् ॥३-५९-७॥

सा तम् आर्त स्वरम् श्रुत्वा तव स्नेहेन मैथिली ।
गच्छ गच्छ इति माम् आह रुदन्ती भय - विक्लवा - विह्वला ॥३-५९-८॥

प्रचोद्यमानेन मया गच्छ इति बहुशः तया ।
प्रत्युक्ता मैथिली वाक्यम् इदम् तत् प्रत्यय अन्वितम् ॥३-५९-९॥

न तत् पश्यामि अहम् रक्षो यत् अस्य भयम् आवहेत् ।
निर्वृता भव न अस्ति एतत् केन अपि एवम् उदाहृतम् ॥३-५९-१०॥

विगर्हितम् च नीचम् च कथम् आर्यो अभिधास्यति ।
त्राहि इति वचनम् सीते यः त्रायेत् त्रिदशान् अपि ॥३-५९-११॥

किम् निमित्तम् तु केन अपि भ्रातुः आलंब्य मे स्वरम् ।
विस्वरम् व्याहृतम् वाक्यम् लक्ष्मण त्राहि माम् इति ॥३-५९-१२॥

राक्षसेन ईरितम् वाक्यम् त्रसात् त्राहि इति शोभने ।
न भवत्या व्यथा कार्या कुनारी जन सेविता ॥३-५९-१३॥

अलम् वैक्लवताम् गंतुम् स्वस्था भव निर् उत्सुका ।
न च अस्ति त्रिषु लोकेषु पुमान् यो राघवम् रणे ॥३-५९-१४॥
जातो वा जायमानो वा संयुगे यः पराजयेत् ।
अजेयो राघवो युद्धे देवैः शक्र पुरोगमैः ॥३-५९-१५॥

एवम् उक्ता तु वैदेही परिमोहित चेतना ।
उवाच अश्रूणि मुंचन्ती दारुणम् माम् इदम् वचः ॥३-५९-१६॥

भावो मयि तव अत्यर्थम् पाप एव निवेशितः ।
विनष्टे भ्रातरि प्राप्तुम् न च त्वम् माम् अवाप्स्यसि ॥३-५९-१७॥

संकेतात् भरतेन त्वम् रामम् समनुगच्छसि ।
क्रोशन्तम् हि यथा अत्यर्थम् न एनम् अभ्यवपद्यसे ॥३-५९-१८॥

रिपुः प्रच्छन्न चारी त्वम् मत् अर्थम् अनुगच्छसि ।
राघवस्य अन्तर प्रेप्सुः तथा एनम् न अभिपद्यसे ॥३-५९-१९॥

एवम् उक्तो हि वैदेह्या संरब्धो रक्त लोचनः ।
क्रोधात् प्रस्फुरमाण ओष्ठ आश्रमात् अभिनिर्गतः ॥३-५९-२०॥

एवम् ब्रुवाणम् सौमित्रिम् रामः संताप मोहितः ।
अब्रवीत् दुष्कृतम् सौम्य ताम् विना यत् त्वम् आगतः ॥३-५९-२१॥

जानन् अपि समर्थम् माम् रक्षसाम् अपवारणे ।
अनेन क्रोध वाक्येन मैथिल्या निर्गतो भवान् ॥३-५९-२२॥

न हि ते परितुष्यामि त्यक्त्वा यत् यासि मैथिलीम् ।
क्रुद्धायाः परुषम् श्रुत्वा स्त्रिया यत् त्वम् इह आगतः ॥३-५९-२३॥

सर्वथा तु अपनीतम् ते सीतया यत् प्रचोदितः ।
क्रोधस्य वशम् आगम्य न अकरोः शासनम् मम ॥३-५९-२४॥

असौ हि राक्षसः शेते शरेण अभिहतो मया ।
मृग रूपेण येन अहम् आश्रमात् अपवाहितः ॥३-५९-२५॥

विकृष्य चापम् परिधाय सायकम्स लील बाणेन च ताडितो मया ।
मार्गीम् तनुम् त्यज्य च विक्लव स्वरोबभूव केयूर धरः स राक्षसः ॥३-५९-२६॥

शर आहतेन एव तदा आर्तया गिरास्वरम् मम आलंब्य सु दूर सु श्रवम् ।
उदाहृतम् तत् वचनम् सु दारुणम्त्वम् आगतो येन विहाय मैथिलीम् ॥३-५९-२७॥



इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे एकोनषष्ठितमः सर्गः ॥३-५९॥