रामायणम्/अरण्यकाण्डम्/सर्गः ३२
< रामायणम् | अरण्यकाण्डम्
Jump to navigation
Jump to search
← सर्गः ३१ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ३३ → |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्वात्रिंशः सर्गः ॥३-३२॥ ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश । हतानि एकेन रामेण रक्षसाम् भीम कर्मणाम् ॥३-३२-१॥ दूषणम् च खरम् चैव हतम् त्रिशिरसम् रणे । दृष्ट्वा पुनर् महानादम् ननाद जलद उपमा ॥३-३२-२॥ सा दृष्ट्वा कर्म रामस्य कृतम् अन्यैः सुदुष्करम् । जगाम परम उद्विग्ना लंकाम् रावण पालिताम् ॥३-३२-३॥ सा ददर्श विमान अग्रे रावणम् दीप्त तेजसम् । उपोपविष्टम् सचिवैः मरुद्भिः इव वासवम् ॥३-३२-४॥ आसीनम् सूर्य संकाशे कांचने परमासने । रुक्म वेदि गतम् प्राज्यम् ज्वलंतम् इव पावकम् ॥३-३२-५॥ देव गन्धर्व भूतानाम् ऋषीणाम् च महात्मनाम् । अजेयम् समरे घोरम् व्यात्त आननम् इव अन्तकम् ॥३-३२-६॥ देव असुर विमर्देषु वज्र अशनि कृत व्रणम् । ऐरावत विषाण अग्रैः उत्कृष्ट किण वक्षसम् ॥३-३२-७॥ विंशत् भुजम् दश ग्रीवम् दर्शनीय परिच्छदम् । विशाल वक्षसम् वीरम् राज लक्ष्मण लक्षितम् ॥३-३२-८॥ नद्ध वैदूर्य संकाशम् तप्त कान्चन कुण्डलम् । सुभुजम् शुक्ल दशनम् महा आस्यम् पर्वतोपमम् ॥३-३२-९॥ विष्णु चक्र निपातैः च शतशो देव संयुगे । अन्यैः शस्त्रैः प्रहारैः च महायुद्धेषु ताडितम् ॥३-३२-१०॥ आहत अंगम् समस्तैः च देव प्रहरणैः तथा । अक्षोभ्याणाम् समुद्राणाम् क्षोभणम् क्षिप्र कारिणम् ॥३-३२-११॥ क्षेप्तारम् पर्वत अग्राणाम् सुराणाम् च प्रमर्दनम् । उच्छेत्तारम् च धर्माणाम् पर दार अभिमर्शनम् ॥३-३२-१२॥ सर्व दिव्य अस्त्र योक्तारम् यज्ञ विघ्न करम् सदा । पुरीम् भोगवतीम् गत्वा पराजित्य च वासुकिम् ॥३-३२-१३॥ तक्षकस्य प्रियाम् भार्याम् पराजित्य जहार यः । कैलासम् पर्वतम् गत्वा विजित्य नर वाहनम् ॥३-३२-१४॥ विमानम् पुष्पकम् तस्य कामगम् वै जहार यः । वनम् चैत्ररथम् दिव्यम् नलिनीम् नंदनम् वनम् ॥३-३२-१५॥ विनाशयति यः क्रोधात् देव उद्यानानि वीर्यवान् । चन्द्र सूर्यौ महा भागौ उत्तिष्ठन्तौ परंतपौ ॥३-३२-१६॥ निवारयति बाहुभ्याम् यः शैल शिखरोपमः । दश वर्ष सहस्राणि तपः तप्त्वा महावने ॥३-३२-१७॥ पुरा स्वयंभुवे धीरः शिरांसि उपजहार यः । देव दानव गधर्व पिशाच पतग उरगैः ॥३-३२-१८॥ अभयम् यस्य संग्रामे मृत्युतो मानुषाद् ऋते । मन्त्रैः अभितुष्टम् पुण्यम् अध्वरेषु द्विजातिभिः ॥३-३२-१९॥ हविर्धानेषु यः सोमम् उपहन्ति महाबलः । प्राप्त यज्ञ हरम् दुष्टम् ब्रह्म घ्नम् क्रूर कारिणम् ॥३-३२-२०॥ कर्कशम् निरनुक्रोशम् प्रजानाम् अहिते रतम् । रावणम् सर्व भूतानाम् सर्व लोक भयावहम् ॥३-३२-२१॥ राक्षसी भ्रातरम् क्रूरम् सा ददर्श महाबलम् । तम् दिव्य वस्त्र आभरणम् दिव्य माल्य उपशोभितम् ॥३-३२-२२॥ आसने सूपविष्टम् तम् काले कालम् इव उद्यतम् । राक्षसेन्द्रम् महाभागम् पौलस्त्य कुल नन्दनम् ॥३-३२-२३॥ उपगम्य अब्रवीत् वाक्यम् राक्षसी भय विह्वला । रावणम् शत्रु हन्तारम् मंत्रिभिः परिवारितम् ॥३-३२-२४॥ तम् अब्रवीत् दीप्त विशाल लोचनम्प्रदर्शयित्वा भय लोभ मोहिता । सुदारुणम् वाक्यम् अभीत चारिणीमहात्मना शूर्पणखा विरूपिता ॥३-३२-२५॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे द्वात्रिंशः सर्गः ॥३-३२॥